OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 2, 2026

 शयनानुकूलितं वन्देभारतरेल् यानं सज्जम्। 

गुवीहाटी-कोल्कोत्तापथे प्रथमयानसेवा। 


नवदिल्ली> राष्ट्रस्य प्रथमं शयनानुकूलितं वन्देभारत एक्स्प्रस् रेल् यानं गुवीहाटीतः कोल्कोत्तापर्यन्तं  विलम्बं विना सेवाम् आरप्स्यते। अचिरेण निर्वाचनाय सज्जमानयोः असम-पश्चिमवंगराज्ययोः राजधानीनगरबन्धिता अस्ति  रेल् यानसेवा इत्येतत् वैशिष्ट्यमस्ति। प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनं करिष्यतीति रेल् यानमन्त्री अश्विनी वैष्णवः प्रोक्तवान्। 

  दीर्घदूरयात्रायै अनुयुक्तमस्ति शयनानुकूलितयानस्यास्य कक्षानिर्माणम्। यात्रिकेभ्यः आधुनिकसुविधाः  व्यवस्थीकृताः। यानसंघट्टननिवारणाय कवचसंविधानमप्यस्ति। अस्य वर्षस्य अन्त्ये १२ शयनानुकूलितवन्देभारतरेल् यानानि अपि सेवामारप्स्यन्ते इति रेल्यानाधिकारिभिरुक्तम्।