OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 6, 2026

 वेनस्वेलायाः अधिकारः उपराष्ट्रपतिः डेल्सी रोड्रिग्स् इत्यस्यै समर्पितः।


कराक्कस्> वेनस्वेलायाः राष्ट्रपतिः निक्कोलास् मडुरो वर्यस्य कारागृहबन्धनेन राजनैतिकस्तम्भने जाते राष्ट्रे उपराष्ट्रपतिः डेल्सी रोड्रिग्स् तात्कालिकाधिकारे नियुक्ता।  राष्ट्रपतेः असान्निध्ये अधिकारः उपराष्ट्रपतौ भवितव्यमिति  प्रशासनसंविधानानुसारं राष्ट्रस्य सर्वोच्चन्यायालयेन तस्यै अधिकारोपसंक्रमणं विधत्तम्। 

  २०१८ तमे वर्षे वेनस्वेलायाः उपराष्ट्रपतिपदं प्राप्तवती डेल्सी मडुरोवर्यस्य  प्रबला अनुयायिनी अस्ति। वित्त-तैलविभागस्य मन्त्रिणी अस्ति इत्यतः वेनस्वेलायाः तैलव्यापारस्योपरि यू एस् राष्ट्रेण विधत्तमुपरोधम् प्रतिरुध्य यत्नः कृतः इत्यमुं  पाटवं पुरस्कृत्य राष्ट्रस्य शार्दूल इति मडुरोवर्येण बहुमानिता आसीत्।