भीकरकेन्द्राणि विनष्टानीति पहल्गामसूत्रधारः।
नवदिल्ली> ओपरेषन् सिन्दूरनामके भारतसेनाप्रक्रमे पाकिस्थाने वर्तितानि भीकरकेन्द्राणि विनष्टानीति लष्कर् ई तोय्बा संघटनस्य वरिष्ठः कमान्डर् पदीयः सैफुल्ला कसूरी उक्तवान्। 'सिन्दूर'स्यानन्तरं प्रथममेव विषयेSस्मिन् कस्यचन लष्कर् ई तोय्बा नेतुः एतादृशप्रस्तुतिः। भारतीयसुरक्षाधिकृतैः पूर्वमेव अधिगतं यत् कसूरीनामक एव पहलगाम् आक्रमणस्य सूत्रधारः। लष्करे तोय्बायाः स्थापकस्य हाफीस् सयीदस्य विश्वस्तः अनुयायी अस्ति कसूरी।
भीकरकेन्द्राणि विशीर्णानीति तेन अङ्गीक्रियते अपि भारतं विरुध्य प्रकोपनपराः प्रस्तावाः अपि तेन क्रियते। काश्मीरविषयात् निवर्तनं न चिन्तितमित्यपि तस्य वीडियोसन्देशे स्पष्टीक्रियते।