OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 2, 2026

 हादिहत्याप्रकरणे अपराधी दुबाय् राष्ट्रे।

धाक्का> बङ्गलादेशे युवजनप्रक्षोभस्य अन्तरे व्यापादितः युवनेता उस्मान् षरीफ हादी इत्यस्य हत्याप्रकरणे अपराधी इति सन्दिह्यमानः फैसल् करीम मसूदः दुबाय् राष्ट्रे। प्रकरणे आत्मनः भागभाक्त्वं नास्तीति विवृण्वन् तस्य वीडियोसन्देशः  दुबायतः बहिरागतः। हादेः घातकानां भारतम् अभयस्थानरूपेण वर्तते इति बङ्गलादेशस्य आरोपे जाते वृत्तान्तोSयं प्राधान्यमर्हति। 

  'अहं फैसल् करीम मसूदः। हादेः हत्यायां मम कोSपि सम्बन्धः नास्ति। गूढचिन्तनस्य परिणामेन अवास्तिवकतया कृतमारोपणं भवत्येतत्। तस्य हेतोः अहं दुबायं पलायितवान्' - वीडियोसन्देशे तेन कथ्यते। हत्यायाः पृष्ठतः किमपि तीव्रराजनैतिकसंघटनमिति सः आरोपयति।