हादिहत्याप्रकरणे अपराधी दुबाय् राष्ट्रे।
धाक्का> बङ्गलादेशे युवजनप्रक्षोभस्य अन्तरे व्यापादितः युवनेता उस्मान् षरीफ हादी इत्यस्य हत्याप्रकरणे अपराधी इति सन्दिह्यमानः फैसल् करीम मसूदः दुबाय् राष्ट्रे। प्रकरणे आत्मनः भागभाक्त्वं नास्तीति विवृण्वन् तस्य वीडियोसन्देशः दुबायतः बहिरागतः। हादेः घातकानां भारतम् अभयस्थानरूपेण वर्तते इति बङ्गलादेशस्य आरोपे जाते वृत्तान्तोSयं प्राधान्यमर्हति।
'अहं फैसल् करीम मसूदः। हादेः हत्यायां मम कोSपि सम्बन्धः नास्ति। गूढचिन्तनस्य परिणामेन अवास्तिवकतया कृतमारोपणं भवत्येतत्। तस्य हेतोः अहं दुबायं पलायितवान्' - वीडियोसन्देशे तेन कथ्यते। हत्यायाः पृष्ठतः किमपि तीव्रराजनैतिकसंघटनमिति सः आरोपयति।