OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 5, 2026

 राजस्थाने विद्यालयेषु दैनंदिपत्रिकावाचनम् अनिवार्यं कारितम्। 

जयपुरं> वाचनशीलं प्रोत्साहयितुं छात्रेषु सामान्यावबोधं वर्धापयितुं च  सर्वेषु सर्वकारविद्यालयेषु दिनंप्रति पत्रिकावाचनं राजस्थानसर्वकारेण अनिवार्यं कारितम्। प्रभाते छात्रसभायां छात्रैः न्यूनातिन्यूनं दशनिमेषाः पत्रिकाः वाचयितव्याः। 

  समकालिकविषयाणां परिचायनमेव अनेनोद्दिश्यते। पत्रिकावाचनशीलेन सामान्यविषयान् अवलोकयितुं समर्थाः भवेयुरिति आदेशे स्पष्टीक्रियते। उत्तरप्रदेशे अपि पत्रिकावाचनम् अनिवार्यं कारितम्।