OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 4, 2026

 

सार्थकयोगशाला-योगासनक्रीडाकादम्या: भव्यम् उद्घाटनम् ।

कण्वनगरी अधुना योगकारणात् सार्थकतामवाप्नोत् - ऋतुखण्डूरी (विधानसभाध्यक्षा)

योगक्षेत्रे राकेशकण्डवालस्य विद्यते महायोगदानम्  

-कुलदीपमैन्दोला

कोटद्वारम्> सार्थकयोगशालायोगासनक्रीडाकादम्याः विधिवतं भव्यं च उद्घाटनं माननीयाविधानसभाध्यक्षया श्रीमती-ऋतुखण्डूरी-भूषणमहाभागया करकमलैः सम्पन्नम्। अस्मिन् शुभावसरे राजनीतिक्षेत्रात् आरभ्य शिक्षाजगत्, शिक्षकसंघाः, क्रीडा–योगक्षेत्रे सम्बद्धाः च अनेके गणमान्यजनाः उपस्थिताः आसन्।

उद्घाटनसमारोहस्य अवसरे प्रसिद्धयोगप्रेमिभिः सह प्रायः द्विशतपञ्चाशत् (२५०) जनानां गरिमामयी उपस्थितिः कार्यक्रमं दिव्यं भव्यं च अकरोत्। अस्मिन् अवसरे  राजगौरव:,  नमनभटनागर: (जिलापरामर्शक:), मम युवाभारत – युवा-कल्याण-क्रीडा-मन्त्रालयः, भारतसरकारः), गुरुकुलमहाविद्यालय-कण्वाश्रमस्य पूज्यः स्वामीजी, श्री मनमोहननौटियालमहाभागः (प्रधानाचार्यः), आधुनिकभीमवैदिकगुरुकुलः, कण्वाश्रमः), अन्ताराष्ट्रिय पादकन्दुक-प्रशिक्षक: श्री सुनीलरावतमहाभागः तथा "डिस्कवर-उत्तराखण्ड 24 न्यूज "  इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तमहाभागः

विशिष्टातिथिरूपेण उपस्थिताः आसन्।

विधानसभाध्यक्षया कथितं यत् कण्वनगरी अधुना योगकारणात् धन्या अभवत् एतादृशा: लघुबालका: बालिका: महिला: पुरुषा: शिक्षका: सामाजिका: लाभान्विता: भवन्ति। राकेशकण्डवालेन एवं सार्थककण्डवालेन च सोनमरावतद्वारा अधुना कण्वनगर्यां विश्वव्यापी योग: सार्थक: कृत: । अकादम्या: अध्यक्षया कविताकण्डवालद्वारा योगशालाया: भव्यस्वरूप: प्रदत्त: तदर्थं तस्यै च योगसपरिवाराय बहूनि वर्धापनानि।


कार्यक्रमे भारतस्वाभिमान-ट्रस्ट्-कोटद्वारतः श्री जुयालमहाभागः, 'क्रिएटिव-पब्लिक-स्कूल' इत्यस्य सञ्चालक: दीपकगौड़महाभागः, एम.के.वी.एन. विद्यालयस्य प्रधानाचार्या, श्री शिवानन्दलखेड़ामहाभागः, मेजर् जयवीरमहाभागः,   मनमोहनचौहानमहाभागः, श्री पारितोषरावतमहाभागः,  पसबोला महाभागः, श्रीकान्तमहाभागः,  इन्द्रमोहनजखमोलामहाभागः, बागम्बरसिंहमहाभागः,  भारतभूषणनेगीमहाभागः (पार्षदः, शिवपुरम्), श्री प्रशान्तकुकरेतीमहाभागः,  कुलदीपमैन्दौलामहाभागः, रोशनगोड़महाभागः तथा  दीपकजदली, पंकजध्यानीमहाभागः एवं च अनेके गणमान्यनागरिकाः उपस्थिताः आसन्।

अस्मिन् अवसरे सार्थकयोगशालायाः बालयोगिभिः प्रस्तुतं योगासन-प्रदर्शनं सर्वेषां मनांसि आकर्षितवान्। राष्ट्रियस्तरस्य स्वर्णपदक-विजेता बालयोगी सार्थककण्डवालः स्वस्य उत्कृष्टया योगमय्या प्रस्तुत्या दर्शकान् विस्मयमग्नान् अकरोत्। तथैव यतिका , यशवी , संस्कृतिः, अधीरा तथा वाची  इत्येता: बालयोगिन्यः अपि स्व-प्रभावशालिना प्रदर्शनैः प्रचुरां करतलध्वनिं अलभन्त। एवं सार्थकयोगशालायोगासनक्रीडाकादम्याः उद्घाटनसमारोहः अत्यन्तं सफलः, स्मरणीयः च दर्शनीयश्चाभवत्।