OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 3, 2026

 इराने बहुजनप्रक्षोभः - बहवः मृताः। 

अमेरिकायाः उपरोधेन जातः  आर्थिकक्लेशः हेतुः। 

टेहरानः> नाणकवृद्धिः, इरानीयमुद्रा रियाल् इत्यस्य मूल्यशोषणम् इत्यादिभिः  जातस्य आर्थिकसङ्कटस्य हेतोः इरानराष्ट्रे आरब्धः बहुजनप्रक्षोभः अतिशक्तेन व्याप्यते। सुरक्षासेनया सह प्रतिद्वन्द्वे बहवः जनाः मृताः।  मृतानां संख्या सप्त इति सूच्यते। षट् दिनेभ्यः पूर्वमारब्धे प्रक्षोभे युवकाः छात्राश्च भागं कुर्वन्तः सन्ति। 

  अधुना रियालस्य मूल्यम् एकेन डोलरेण सह १४ लक्षं रियाल् अस्ति। रियालस्य मूल्यशोषणमानं गतवर्षमपेक्षया ५२% अधिकमस्ति। 

  राष्ट्रे वर्तमानायाः अरक्षितावस्थायाः बहूनि कारणानि सूच्यन्ते।

१. अमेरिकादि राष्ट्राणामुपरोधः। 

    २. इरान-इस्रयेलयोः युद्धम्। 

     ३. अमेरिकायाः आक्रमणम्।

     ३. रियालस्य मूल्यशोषणम्। 

      ४. वस्तूनां मूल्यवर्धनं; आर्थिकक्लेशः।