OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 5, 2026

 मडुरो ब्रूक्लिन् कारागृहे। 

निगडबद्धः निकोलास् मडुरो।

न्यूयोर्क्> डोनाल्ड ट्रम्पस्य निर्देशानुसारं यू एस् सैनिकैः निगृहीतः वेनस्वेलराष्ट्रपतिः निकोलास् मडुरो तस्य पत्न्या सह  न्यूयॉर्कस्थे ब्रूक् लिन् इत्यत्र  कुप्रसिद्धे 'मेट्रोपोलिटन् डिटन्षन् सेन्टर्' [Metropolitan Detention Center- MDC] नामके कारागृहे बद्धः। यू एस् राष्ट्रे बृहत्तमः 'फेडरल् कारागारो' भवत्ययम्। 

  १६०० संख्याकाः अपराधिनः अत्र न्यायवादं मार्गमाणाः सन्ति। उन्मादकवस्तुविपणनं, भीकरवादः इत्यादिषु अपराधेषु निगृहीतेषु तेषु कुप्रसिद्धाः अन्ताराष्ट्रियापराधिनः अपि वर्तन्ते। उन्मादकवस्तुविपणनमधिकृत्य नैके अपराधाः मडुरोवर्यस्य उपरि आरोप्य एव तस्य कारागारबन्धनम्। हस्तनिगडेन बद्धस्य मडुरोवर्यस्य वीडियोदृश्यानि बहिरागतानि। अधिकारिणः प्रति 'नववत्सराशंसाः' उक्त्वा एव तस्य कारागृहगमनम्।