पानजले मालिन्यम्।
मध्यप्रदेशे दश जनाः मृताः।
उपसहस्रं जनाः रोगबाधिताः; ३२ जनाः तीव्रपरिचर्याविभागे।
इन्दोर्> मध्यप्रदेशस्थे इन्दोरे मालिन्यमिश्रितं पानजलं पीत्वा दश जनाः मृत्युमुपगताः। नगरसभया नालिकाद्वारा वितरणं कृते पानजले शौचालयमालिन्यं मिश्रीभूतमिति स्वास्थ्यविभागेन दृढीकृतम्।
सप्ताहाभ्यन्तरे उपसहस्रं जनाः अतिसार-वमनादिभिः पीडिताः आसन्। तेषु दश मृताः। ३२ रोगिणः तीव्रपरिचर्यायां वर्तन्ते।