OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 4, 2026

 वेनस्वेलाम् अमेरिकायाः अधिनिवेशः।

राष्ट्रपतिः पत्न्या सह अपहृतः। 

राजधानीनगरमभिव्याप्य सप्त स्थानेषु अमेरिकायाः आक्रमणम्।

राष्ट्रपतिः मरुडोवर्यः भटैरावृतः वर्तते। 

कारक्कास्> दक्षिणामेरिकाभूखण्डे आसकलं युद्धभीतिम् उत्पाद्य अमेरिका वेनस्वेलाम् आक्रामत्। राष्ट्रमतिक्रम्य राष्ट्रपतिं निक्कोलास् मडुरोनामकं तस्य पत्नी सीलिया फ्लोरिस् नामिकां च अपहृत्य यू एस् सेना राष्ट्रान्तरम् अगमयत्। तौ राष्ट्रभ्रष्टौ अभवतामिति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेनैव 'ट्रूत् सोष्यल्' द्वारा उक्तम्। 

  वेनस्वेलायां वर्तमानानाम् उन्मादकसंघानां यू एस् प्रति  उन्मादकवस्तूनामायाताय साहाय्यं करोति इत्यारोप्य आसीत् अमेरिकायाः सैनिकप्रक्रमः। शनिवासरे प्रत्युषसि द्विवादने [प्रादेशिकसमयः]  कारकास्नगरमभिव्याप्य वेनस्वेलायाः सप्त स्थानेषु यू एस् युद्धविमानानि बोम्बवर्षम् अकरोत्। षट् युद्धमहानौकाः वेनस्वेलां लक्ष्यीकृत्य विन्यस्ताः सन्ति। १५,००० यू एस् भटाः अपि सन्नद्धाः सन्ति।