केन्द्रिय-संस्कृतविश्वविद्यालयस्य आवासीयसंस्कृतशिक्षकप्रशिक्षणवर्गः, २०२६
केन्द्रीयसंस्कृतविश्वविद्यालयेन संस्कृतभाषाशिक्षणाय कुशलभाषाशिक्षकाणां निर्माणार्थम् अखिलभारतस्तरीयम् एकविंशतिदिवसीयम् आवासीयशिक्षकप्रशिक्षणम् आयोक्ष्यते।
प्रशिक्षणस्य उद्देश्यानि-
- कुशलसंस्कृतभाषाशिक्षकाणां निर्माणम् ।
- संस्कृतमाध्यमेन संस्कृतभाषाध्यापनकौशलवृद्धिः ।
- सरलमानकसंस्कृतेन पाठयितुं नैपुण्यसम्पादनम् ।
- आधुनिकपद्धत्या संस्कृतभाषाध्यापनाय प्रशिक्षणम् ।
- संस्कृतशिक्षणे नवाचाराणां प्रयोगः ।
शैक्षिकार्हता- कस्मिन्नपि विषये स्नातकोत्तीर्णता/स्नातकोत्तरोत्तीर्णता ।
अपेक्षितार्हता- संस्कृतभाषावगमने भाषणे पठने लेखने च पटुत्वम् ।
वयोमितिः - अधिकाधिकं 35 वर्षाणि (01.06.2026 दिनाङ्कपर्यन्तम्)
आवेदनम् -
गुगलफार्ममाध्यमेन आवेदनपत्रं पूरणीयम्। आवेदनपत्रस्य Link अधः वर्तते। ईमेलमाध्यमेन पत्रालयमाध्यमेन वा प्रेषितम् आवेदनपत्रं नैव अङ्गीकरिष्यते ।
आवेदनतिथिः - 01.01.2026 दिनाङ्कतः 05.02.2026 दिनाङ्के यावत् ।
लिखितपरीक्षा- Online माध्यमेन लिखितपरीक्षा स्वीकरिष्यते। लिखितपरीक्षायां क-खण्डे 60 अङ्कानां बहुविकल्पात्मकप्रश्नाः ख-खण्डे 40 अङ्गानां च प्रबन्धात्मकप्रश्नाः भविष्यन्ति। परीक्षां लेखितुं साधैंकहोरात्मकः कालः दास्यते। परीक्षार्थिना निश्चितसमयाभ्यन्तरे परीक्षापत्रं समर्पणीयम्। ख-खण्डस्य उत्तराणि हस्तलिखितानि स्युः, टङ्कितानि उत्तरपत्राणि नैव अङ्गीकरिष्यन्ते। द्वयोः खण्डयोः उत्तरम् अनिवार्यतया लेखनीयम्। एकस्मिन्नपि खण्डे उत्तरं न लिख्यते चेत् अनुत्तीर्णता भविष्यति। केनचित् कारणेन उत्तरपत्रं न समर्पितं चेत् विश्वविद्यालयः तदर्थम् उत्तरदायी न भविष्यति। लिखितपरीक्षा 01.03.2026 तमे दिनाङ्के आयोजयिष्यते। आवेदकेभ्यः परीक्षाविषये विवरणम् ईमेलमाध्यमेन पूर्वमेव सूचयिष्यते ।
प्रश्नपत्रस्वरूपम् - शब्दरूपाणि, धातुरूपाणि, सर्वनामानि, संख्या, कृदन्ताः, पूरणप्रत्ययाः, अव्ययानि, कारकम्, वाच्यम्, सन्धिः, समासः, प्रबन्धलेखनम् इत्यादिविषयकाः प्रश्नाः भवेयुः ।
मौखिकपरीक्षा- लिखितपरीक्षायाम् अन्यूनं 50% अङ्कान् प्राप्तवद्भयः एव मौखिकपरीक्षार्थम् अवसरः दास्यते। मौखिकपरीक्षायां संस्कृतसम्भाषणक्षमतायाः अध्यापनकौशलस्य च परीक्षणं करिष्यते। मौखिकपरीक्षा मार्चमासस्य तृतीयसप्ताहे/चतुर्थसप्ताहे सम्भाव्यते। एतद्विषये अधिकं विवरणम् ईमेलमाध्यमेन प्रेषयिष्यते ।
प्रशिक्षणम्- मौखिकपरीक्षायाम् अन्यूनं 50% अङ्कान् प्राप्तवद्भयः एव प्रशिक्षणं दास्यते। प्रशिक्षणमिदम् आवासीयं भविष्यति। प्रशिक्षणवर्गम् आगन्तुं गमनागमनव्ययः प्रशिक्षार्थिभिः स्वयं निर्वाढव्यः भवेत्। प्रतिभागिभ्यः आवास भोजनव्यवस्था विश्वविद्यालयपरतया प्रशिक्षणस्थाने एव करिष्यते। प्रशिक्षार्थिभिः विश्वविद्यालयेन आयोजविष्यमाणे एकविंशतिदिवसीये प्रशिक्षणवर्गे पूर्णतया उपस्थितैः भाव्यम्, प्रशिक्षणवर्गस्य सर्वे नियमाः च दृढतया पालनीयाः। मध्येप्रशिक्षणं बहिर्गमनं सर्वथा निषिद्धम्। प्रशिक्षणस्थानं भारते यत्र कुत्रापि भवेत्। प्रशिक्षणावधेः स्थानस्य च विषये यथाकालं सूचना ईमेलमाध्यमेन प्रेषयिष्यते। प्रशिक्षणोत्तरपरीक्षाम् उत्तीर्णवत्सु केषाञ्चन वरीयताक्रमेण विश्वविद्यालयस्य अपेक्षानुगुणं संस्कृताध्ययनकेन्द्रेषु अध्यापनावसरः भवितुम् अर्हति।
आवेदनस्य सूत्रम्- https://forms.gle/vorkq1qMpmqtN7rM9
सम्पर्कसूत्रम् - 011-35010261 (प्रातः सार्धनववादनतः सायं षड्वादनपर्यन्तम्) pathatusamskritam@gmail.com
.png)