OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, February 23, 2026

 मलेष्यायां भूकम्पः - रिक्टर् मापिन्यां ७. १ तीव्रता।

कुलालम्पूर्> मलेष्याराष्ट्रे अद्य प्रत्युषसि १२. ५७ वादने [प्रादेशिक समयः] महान् भूकम्पः दुरापन्नः। रिक्टर् मापनाङ्के ७. १ तीव्रता अङ्किता। बोर्नियो द्वीपस्थे सांबाप्रान्ते आसीत् भूकम्पः। 

  कोट्टा किणबालु नगरात् १०० कि मी दूरे उत्तरपूर्वीयप्रदेशः भूकम्पस्य प्रभवस्थानमिति यू एस् जियोलजिकल् सर्वे संस्थया निगदितम्। भूकम्पात् जायमानस्य जनापायस्य विनाशस्य विशदांशाः न लब्धाः।

 टि-२०विश्वचषकः।

'सूपर् ८' मध्ये भारतस्य पराजयः। 

द्वारकोपलब्धौ आह्लादं प्रकाशयन्तौ दक्षिणाफ्रिकाक्रीडकौ। 

अहम्मदाबादः> टि-२०विश्वचषकस्य 'सूपर् ८' नामकक्रीडायाः प्रतिद्वन्द्वे दक्षिणाफ्रिका भारतं ७६ धावनाङ्कैः पराजापयत। 'सूपर् ८' मध्ये भारतस्य प्रथमस्पर्धा आसीत्। उत्क्षेपनिर्णयम् उपलभ्य कन्दुकताडनं कृतवत् दक्षिणाफ्रिकादलं २० क्षेपणचक्रेषु ९ क्रीडकाणां विनष्टे १८६ धावनाङ्कान् सम्प्राप। प्रत्युत्तरक्रीडायां १८. ५ क्षेपणचक्रेषु १११ धावनाङ्कान् सम्पाद्य भारतस्य सर्वे क्रीडकाः बहिर्गताः। 

  ३५ कन्दुकैः ६३ धावनाङ्कान् सम्पादितवान् डेविड् मिल्लर् नामकः दक्षिणाफ्रिकाक्रीडकः क्रीडाप्रवीरः जातः। दक्षिणाफ्रिकायै यान्सणः २२ धावनाङ्कान् विसृज्य चतुरान् द्वारकान् सम्पादितवान्।

Sunday, February 22, 2026

 टि-२० विश्वचषकः - सूपर् ८ आरब्धम्। 

अद्य भारतं × दक्षिणाफ्रिका। 

भारतदलम्। 

अहम्मदाबादः> टि-२० विश्वचषकस्य 'सूपर् ८' नामके प्रपूर्वान्त्य चक्रे अद्य अहम्मदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणे भारतं दक्षिणाफ्रिकया सह स्पर्धिष्यते। 

  प्राथमिकचक्रे संघप्रवीररूपेण एव भारतं दक्षिणाफ्रिका च सूपर् ८ चक्रं प्राविशताम्। एकैकस्य दलस्य विजयचतुष्टयम् उपालभत। अतः प्रतिद्वन्द्वः कठिनो भविष्यतीति मन्यते।

 भारत-बङ्लादेश बस् यानसेवा पुनरारभ्यते।

अगर्तला> बङ्लादेशे जातायां राजनैतिकास्थिरतायां संवत्सरैकं यावत् स्थगयिता भारत-बङ्लादेश बस् यानसेवा पुनरारब्धुं प्रक्रमाः अभवन्। बङ्लादेशद्वारा अगर्तला - कोल्कोत्ता मार्गे अस्ति बस् यानसेवा। 

  परीक्षणार्थं शनिवासरे बस् यानसेवा समारब्धा। कतिपयदिनेषु अपि परीक्षणात्कसेवा अनुवर्तिष्यते। परिणामविशकलनानन्तरं सप्ताहे सेवात्रयम् इतिरीत्या सेवा विधास्यते इति अधिकृतैः निगदितम्।

 षट् राज्यानाम् अन्तिमा मतदान्यावलि‌ः प्रकाशिता। 

नवदिल्ली>  समग्रमतदान्यावलीपरिष्करणस्य [SIR] अनन्तरं षट् राज्यानां केन्द्रप्राशसनप्रदेशानां च नूतना मतदान्यावलिः निर्वाचनायोगेन प्रकाशिता। केरलं, गोवा, छत्तीसगढ, मध्यप्रदेशः, राजस्थानं, अन्तमान् निकोबार् इत्येतानां आवलिः प्रकाशिता। 

 गुजरातः, लक्षद्वीपः, पुतुच्चेरी इत्येतेषां मतदान्यावलिः पूर्वमेव प्रकाशिता आसीत्। सर्वेषु राज्येषु लक्षशः मतदानिनः प्राथमिकावलीतः बहिर्नीताः वर्तन्ते। अधिकतमाः मतदानिनः गुजराते एव निराकृताः - ६८,१२,७११।

Saturday, February 21, 2026

 ट्रम्पस्य गर्वे प्रहरः 

एकपक्षीयः आयातशुल्कः नियमविरुद्ध इति यू एस् सर्वोच्चन्यायलयः। 

डोनाल्ड ट्रम्पः ।

वाषिङ्टणः> शुल्कं मुख्यायुधं कारयन् यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः भौगोलिकराष्ट्राणि विरुध्य विधत्तमानं वाणिज्ययुद्धं नियमविरुद्धमिति अमेरिकायाः सर्वोच्चन्यायलयेन विहितम्। ट्रम्पस्य एकपक्षीयः आयातशुल्कविधिः संहतिसंविधानस्य [Federal] लङ्घनम् इति नीतिपीठेन आदिष्टम्। मुख्यन्यायाधिपस्य जोण् रोबर्टस्य नेतृत्वे विद्यमाने नवांगोपेतपीठे षट् न्यायाधीशाः विधिम् अनुकूलितवन्तः; अतियाथास्थितिकाः  त्रयः प्रतिकूलितवन्तश्च। 

 यू एसस्य नीतिसंविधानानुसारं शुल्ककरादीन् विधातुमधिकारः प्रतिनिधिसभायां निक्षिप्तः अस्ति। सभायाः अनुज्ञां विना राष्ट्रपतेः विशेषाधिकारमुपयुज्य प्रक्रमान् स्वीकर्तुं राष्ट्रपतेः अधिकारः नास्तीति न्यायालयेन प्रोक्तम्।

 धनदानं प्रीणनम्। 

निर्वाचनवाग्दानानि कठिनतया विमृश्य सर्वोच्चन्यायालयः। 


नवदिल्ली> निर्वाचनात् ईषत्पूर्वं नागरिकाणां संख्यानं प्रति धनराशिदानमभिव्याप्य राज्यानां निश्शुल्कवाग्दानानि [Freebies]  सर्वोच्चन्यायालयः निशितरीत्या विमृशति। क्षेमराष्ट्रमिति स्थितिम् आलक्ष्य निष्किञ्चनानां कृते निश्शुल्कानां प्रदानम् अनुमोदितव्यम्। किन्तु धनहीनान् अतिरिच्य सर्वेषां राज्यनिवासिनां कृते समानरूपेण प्रदानोद्घोषणम् इत्येतत् प्रीणनं अर्थात् भ्रष्टाचारः एव खलु  इति न्यायालयेन पृष्टम्। राष्ट्रप्रगतये हानिकारकाः एतादृशप्रक्रमाः पुनःपरिशोधनीयाः इति मुख्यन्यायाधिपः सूर्यकान्तः अध्यक्षरूपेण वर्तमानेन पीठेन निर्दिष्टम्। 

  आर्थिकावस्थामनादृत्य सर्वेभ्यः परिवारेभ्यः विद्युच्छक्तिं निश्शुल्कं दातुं तमिलनाट् सर्वकारस्य निर्णये तत्रत्यस्य Power distribution corporation इत्यस्य अभियाचिकायां केन्द्रसर्वकारं प्रति अधिसूचनापत्रं [notice] सम्प्रेष्य अस्ति सर्वोच्चनीतिपीठस्यायं तीव्रपरामर्शः। न केवलं तमिलनाटे अपि तु राष्ट्रे विपुलतया इयं प्रवणता दृश्यते तस्यां वयम् आशङ्काकुलाः इति नीतिपीठेन प्रस्तुतम्।



Friday, February 20, 2026

 ए ऐ उच्चशिखरम्। 

२५. ५ लक्षं कोटि रूप्यकाणां निक्षेपः निर्णीतः।

नवदिल्ली> दिल्ल्यां सम्पद्यमाने अन्ताराष्ट्रिय कृृत्रिमबुद्धिमत्ता [ ए ऐ]  उच्चशिखरसम्मेलने २५. ५ लक्षं कोटि रूप्यकाणां निक्षेपः अस्मिन् क्षेत्रे भारताय दृढीकृतः। शिखरसम्मेलने भागं कृतवतां बहुराष्ट्रसंस्थानां राज्यानां च प्रख्यापनं भाविनि प्रतीक्षमाणान् निक्षेपांश्च अभिव्याप्य ५८. २ लक्षं कोटि रूप्यकाणां निक्षेपः स्यादिति केन्द्रप्रशासनप्रवक्तृभिः उक्तम्। 

  जियो रिलयन्स् संस्थया सप्तवर्षाभ्यन्तरे ए ऐ क्षेत्रे १० लक्षं कोटि रूप्यकाणां निक्षेपं  करिष्यति इति मुकेष् अम्बानी उक्तवान्। अदानी ग्रूप् ९. १२ लक्षं कोटि, आमसोण् ३. १९ कोटि इत्येवं रीत्या निक्षेपः भविष्यतीति तत्तदधिकारिभिः प्रोक्तम्।

 रञ्जि ट्रोफी क्रिकट्

अन्त्यस्पर्धायां कर्णाटकं जम्मु-काश्मीरं च। 

लख्नौ> रञ्जि ट्रोफी नामकस्य राष्ट्रियक्रिकट् प्रतिद्वन्द्वस्य अन्त्यस्पर्धायां जम्मु-काश्मीरराज्यं कर्णाटकराज्येन सह स्पर्धिष्यते। जम्मु-काश्मीरस्य ६७ संवत्सराणां क्रीडाचरित्रे प्रथमतया एव रञ्जिट्रोफी क्रिकटस्य अन्त्यस्पर्धायां दलस्य प्रवेशः। कोल्कोत्तायां सम्पन्नायां पूर्वान्त्यक्रीडायां शक्तं वंगदलं षट् द्वारकैः पराजापयित्य अस्ति जम्मु-काश्मीरस्य पदक्षेपः। 

  कर्णाटकं तु उत्तराखण्डेन सह सम्पन्नायां क्रीडायां समस्थितिमभजत। किन्तु कर्णाटकेण प्रथमचरणे प्राप्तमाधिपत्यं अन्त्यप्रवेशाय सहायकमभवत्। अन्तिमस्पर्धा कुजवासरे सम्पत्स्यते।

Thursday, February 19, 2026

 टि-२० विश्वचषकः।

भारतम् अपराजितत्वेन 'सूपर् ८'मध्ये। 

अर्धशतकं लब्ध्वा क्रीडाप्रवीरः जातः शिवं दुबे।

अहम्मदाबादः> टि-२० विश्वचषकक्रिकट् स्पर्धायां ए संघे अन्तर्भूतं भारतं प्राथमिक चक्रे सर्वाः स्पर्धाः विजित्य संघजेता जातम्। ह्यः सम्पन्ने प्रतिद्वन्द्वे नेतर्लान्टं १७ धावनाङ्कैः पराजापयत। 

  प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १९३/६। नेतर्लान्टः २० क्षेपणचक्रेषु १७६/७। भारतक्रीडकः शिवं दुबे क्रीडाप्रवीरः अभवत्। ६६ धावनाङ्कान् द्वारकद्वयं च शिवं दुबे प्राप्तवान्।

 युक्रेन-रष्या

शान्तिचर्चा पराजिता।

जनीवा> रूस-युक्रेनयुद्धस्य वर्षचतुष्टयपूर्तीकरणाय पञ्चदिनेषु अवशिष्टेषु जनीवानगरे सम्पन्ना दिनद्वयात्मिका शान्तिचर्चा निष्फला जाता। युद्धनिराकरणं, तस्य पर्यवेक्षणम् इत्यादिविषये अनुकूलनमभवत्तर्हि युद्धे निगृहीतानां भूप्रदेशानां प्रत्यर्पणविषये निर्णयः नाभवत् इति यूक्रेनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्की अवोचत्। 

  युक्रेनस्य पूर्वीयस्य डोणेस्टेस्क् इति तन्त्रप्रदेशस्य नियन्त्रणं स्वस्मै भवितव्यमिति रष्यायाः वादः युक्रेनेन नाङ्गीकृतः। रष्यायाः भाविकालीनाक्रमणेभ्यः सम्पूर्णसुरक्षां अदीयमाने कस्मिन्नपि सन्धौ हस्ताक्षरं न करिष्यतीति युक्रेनेन असन्ग्धतया प्रोक्तम्।

 ब्रह्मपुत्रनद्याः अधः रेल्, वीथीसुरङ्गमार्गः आगच्छति। 

नवदिल्ली> राष्ट्रे प्रथमतया नद्याः अधस्तात् युगलनालिकासुरङ्गमार्गस्य निर्माणं सम्पत्स्यते। असमराज्ये ब्रह्मपुत्रनद्याः अधस्तात् १५ .७९ कि मी दैर्घ्ये वीथी-रेल् सुरङ्गमार्गः इति बृहद्विकासाभियोजना समारभ्यते। 

 जलस्याधः भारते प्रथमः विश्वस्मिन् द्वितीयः च वीथी-रेल् सुरङ्गः भवति एषः। असमः, अरुणाचलप्रदेशः, नागालान्टः इतरेभ्यः उत्तरपूर्वीयराज्येभ्यश्च प्रयोजकीभविष्यति इयं परियोजना। इदानीं सञ्चर्यमाणः २४० कि मी दूरं ३३. ७ कि मी इति न्यूनीकर्तुं शक्यते। 

  १८,६६२ कोटि रूप्यकाणि अस्याः अभियोजनायाः व्ययः भविष्यतीति वृत्तान्तमिदं वार्ताहरमेलने ब्रुवन् अश्वनीवैष्णवः उद्घोषितवान्।

Wednesday, February 18, 2026

 टि-२० विश्वचषकः।

सप्त दलानि 'सूपर् ८' इत्यस्मिन् प्राविशन्। 


भूतपूर्वप्रवीरः आस्ट्रेलिया बहिर्गता।   

कोलम्बो> पुरुषाणां टि-२० क्रिकट् विश्वचषकस्पर्धापरम्परायाः चतुर्थांशश्रेणीसमानस्य सूपर् ८  स्तरस्य सप्त दलेषु निर्णीतेषु भूतपूर्वः विश्वप्रवीरः आस्ट्रेलिया संघः प्राथमिकचक्रे एव परम्परायाः बहिर्गतः। ओसीसदलान्तर्भूते बी संघे अयर्लान्ट-सिम्बाब्वे दलयोः स्पर्धा वृष्टिकारणात् न सम्पन्ना इत्यतः प्राप्ताङ्कश्रेण्यां सिम्बाब्वे आस्ट्रेलियायाः अग्रे वर्तते। 

  सूपर् ८ श्रेणीं प्रविष्टानि दलानि - ए संघात् भारतं, बी संघात् श्रीलङ्का, सिम्बाब्वे, सीतः वेस्ट इन्डीस्, इङ्गलाण्टः, डीतः दक्षिणाफ्रिका, न्यूसिलान्टः।

 टि-२० विश्वचषकः।

सम्पूर्णविजयाय भारतम्।

नेतर्लान्टं प्रति स्पर्धा सायं सप्तवादनतः। 

अहम्मदाबादः> टि-२० विश्वचषकस्य ए संघे भारतं स्वस्य अन्तिमस्पर्धतया  नेतर्लान्टेन स्पर्धिष्यते। बुधवासरे सायं सप्तवादने अहम्मदाबादस्थे नरेन्द्र मोदी क्रीडाङ्कणे अस्ति प्रतिद्वन्द्वः। 

  अद्यतनस्पर्धामपि विजित्य संघे अपराजितं विजयं भारतं लक्ष्यीकरोति। भारतस्य ११ दले कानिचन परिवर्तनानि प्रतीक्षन्ते।

 पि एस् एल् वि पराजयान्वेषणाय समितिः। 

हैदराबादः> इस्रो संस्थायाः अस्य वर्षस्य प्रथमविक्षेपणं पि एस् एल् वि - सि ६२ इत्यस्य पराजयकारणम् अन्वेष्टुं समितिः रूपीकृता। भूतपूर्वः केन्द्र शास्त्रोपदेष्टा प्रोफेसर् को विजयराघवः अध्यक्षः, ऐ एस् आर् ओ संस्थायाः भूतपूर्वः अध्यक्षः एस् सोमनाथः उपाध्यक्षः च भूत्वा अस्ति समितिः। प्रधानमन्त्रिणः निर्देशानुसारमेव समितिरूपीकरणमिति सूच्यते। 

  पि एस् एल् वि विक्षेपणदौत्यं द्विवारं पराजितमित्यतः राष्ट्रसुरक्षा उपदेष्टा अजित् डोवलस्य नेतृत्वे कश्चन संघः अनन्तपुरी वि एस् एल् वी संस्थां सन्दृश्य निदेशकादिप्रमुखैः सह मेलनमकरोत्। तदनन्तरं प्रधानमन्त्रिणे प्रतिवेदनं समर्मितम्। तस्य परिणाम एव समितिरूपीकरणमिति सूच्यते।

Tuesday, February 17, 2026

 सि सुरेष् कुमारः 'शर्माजी'पुरस्कारेण मानितः। 

संस्कृताध्यापनप्रचारणे उत्कृष्टकर्मणे दीयमानः पुरस्कारः। 



कोष़िक्कोट्> संस्कृतभाषाप्रचारकः, कविः, पत्रिकाप्रवर्तकः इत्येवंरूपेण विराजितः स्वर्गीयः पण्डितरत्नं वि कृष्णशर्मा वर्यस्य नाम्नि दीयमानः शर्माजीपुरस्कारः अस्मिन् वर्षे सि सुरेष् कुमाराय दीयते।  कोष़िक्कोट् नेटुवण्णूर् सर्वकारीयविद्यालये शिक्षकः सः संस्कृतभारत्याः  ऊर्ज्वलः प्रवर्तकः केरल संस्कृताध्यपकफेडरेषन् इति संघटनस्य राज्याध्यक्षश्च भवति। 

   संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन दीयमानः भवति एषः पुरस्कारः। अतीतानि ३० वर्षाणि यावत् संस्कृतशिक्षणक्षेत्रे वर्तमानान् शिक्षकान् राजनैतिकपक्षपातित्वं विना समायोज्य तेषां छात्राणां च क्षेमाय नेतृत्वमावहन् प्रवर्तमानः अस्ति। 

 पुरस्कारनिर्णयसमित्या प्रोक्तं यत् संस्कृताध्यापनमण्डले प्रचरणक्षेत्रे च सुरेश कुमारेण कृतस्य महत्वपूर्णस्य प्रवर्तनस्य अङ्गीकारो भवत्येषः पुरस्कारः।  महामहोपाध्यायः डो जि गङ्गाधरन् नायर्, पण्डितरत्नं   डो पि के माधवः, पण्डितरत्नं डो एम् पि उण्णिकृष्णः, डो पि के शङ्करनारायणः, डो ई एन् ईश्वरः इत्येतैरुपेत्या  समित्या पुरस्कारः निर्णीतः।


Latest news Latest news

 टि-२० विश्वचषकः।

लङ्कावीर्ये आस्ट्रेलिया पदभ्रष्टा। 

शतकं प्राप्तवान् पात्तुं निसाङ्कः। 
अस्य विश्वचषकस्य प्रथमशतकं पत्तुम निसाङ्काय। 

आस्ट्रेलियायाः स्थानं प्रतिसन्धिस्तरे।

कोलम्बो> स्तोभजनकया क्रीडया क्रीडाङ्कणं रोमहर्षपुलकितं कृतवतः श्रीलङ्कीयक्रीडकस्य पत्तुम निसाङ्कस्य वीरतया आस्ट्रेलिया श्रीलङ्का आस्ट्रेलियां पराजापयत। बी संघात् श्रीलङ्का 'सूपर् ८' श्रेणीं प्राविशच्च। 

  अष्ट द्वारकाणां विजय एव श्रीलङ्कया स्वायत्तीकृतः। प्राप्ताङ्कसूचना- आस्ट्रेलिया २० क्षेपणचक्रेषु १८१ धावनाङ्काः। श्रीलङ्का १८ क्षेपणचक्रेषु १८४/२।  प्रथमचरणे श्रीलङ्कायाः पत्तुम निसाङ्केन विपरीतदिक्धावनेन  कृतं डयननिग्रहणं [flying catch] विश्वचषकस्य चरित्रे श्रेष्ठनिग्रहणेषु अन्यतममिति मन्यते, तत्तु आस्ट्रेलियायाः पतनस्य हेतुश्चाभवत्। आस्ट्रेलियायाः ग्लेन् माक्स् वेलः [२२] एव निसाङ्केन बहिर्नीतः।   अनन्तरं, श्रीलङ्कायाः कन्दुकताडने प्रारम्भकक्रीडकः निसाङ्कः   ५२ कन्दुकेषु १०० धावनाङ्कान् सम्पाद्य अपराजितः अभवत्। तस्य शतके १० चतुष्काणि ५ षट्कानि च सन्ति। क्रीडाप्रवीश्च पत्तुम निसाङ्कः एव।

 अमेरिका–यूरोप् संघयोः वाणिज्य-सन्धयः युवजनानां कृते महान् अवसरः प्रदास्यते – प्रधानमन्त्री नरेन्द्रमोदी

    नवदिल्ली> अमेरिका तथा यूरोपीयसंघेन सह भारतस्य वाणिज्य-सन्धयः देशस्य युवजनानां कृते महान् अवसरं प्रदास्यन्ति इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। वाणिज्य-शृङ्खलानां वैश्विक-संयोजनम्, विकसित-राष्ट्राणां विपणिषु सुगम-प्रवेशः च एतासां सन्धीनां प्रमुख-विशेषताः स्तः। निर्माणक्षेत्रे, सेवाक्षेत्रे, वस्त्र-उद्योगे, पादुकनिर्माण-उद्योगे, वैद्युत-उपकरण-उद्योगे, यन्त्रविद्या-सम्बद्ध-उत्पादनेषु च नूतनाः अवसराः भविष्यन्ति।

  'मेक् इन् इन्टिय' (Make in India) योजनया लघु-मध्यम-उद्योगानां मध्ये आत्मविश्वासः ऊर्जा च वर्धितौ। “निर्दोषता, निष्प्रभावता” इति अस्माकं नीति:—दोषरहितं पर्यावरणानुकूलं च उत्पादनम्। दूरभाषा-युक्ति-निर्माणात् आरभ्य विमान-यान-क्षेत्रपर्यन्तं बह्व्यः वैश्विक-संस्थाः भारतीय-लघु-मध्यम १-उद्योगान् स्वमूल्य-शृङ्खलासु समावेशयन्ति।

   जैविक-औषध-क्षेत्रे, भारत-अर्धचालक-अभियाने, वैद्युत-उपकरण-अङ्ग-निर्माण-योजनायां, दुर्लभ-भूतत्त्व-मार्गेषु, रसायन-उद्यानिषु च विशेष-प्राधान्यम् प्रदत्तम्। एतेन वृत्ति-अवसराः वर्धिष्यन्ते, निवेशः अपि वर्धिष्यते, भारतस्य भविष्यं च अधिकं सुदृढं भविष्यति इति प्रधानमन्त्री उक्तवान्