ट्रम्पस्य गर्वे प्रहरः
एकपक्षीयः आयायशुल्कः नियमविरुद्ध इति यू एस् सर्वोच्चन्यायलयः। 
डोनाल्ड ट्रम्पः ।
वाषिङ्टणः> शुल्कं मुख्यायुधं कारयन् यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः भौगोलिकराष्ट्राणि विरुध्य विधत्तमानं वाणिज्ययुद्धं नियमविरुद्धमिति अमेरिकायाः सर्वोच्चन्यायलयेन विहितम्। ट्रम्पस्य एकपक्षीयः आयातशुल्कविधिः संहतिसंविधानस्य [Federal] लङ्घनम् इति नीतिपीठेन आदिष्टम्। मुख्यन्यायाधिपस्य जोण् रोबर्टस्य नेतृत्वे विद्यमाने नवांगोपेतपीठे षट् न्यायाधीशाः विधिम् अनुकूलितवन्तः; अतियाथास्थितिकाः त्रयः प्रतिकूलितवन्तश्च।
यू एसस्य नीतिसंविधानानुसारं शुल्ककरादीन् विधातुमधिकारः प्रतिनिधिसभायां निक्षिप्तमस्ति। सभायाः अनुज्ञां विना राष्ट्रपतेः सविशेषाधिकारमुपयुज्य प्रक्रमान् स्वीकर्तुं राष्ट्रपतेः अधिकारः नास्तीति न्यायालयेन प्रोक्तम्।