OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 3, 2026

 इरान-इस्रयेलयुद्धं व्याप्यते। 

पश्चिमेष्या कलुषायते। 

इराने ५५५ मरणानि, लबनने ३१, गल्फराष्ट्रेषु अष्ट। 


दुबाय्> इरानं विरुध्य यू एस्-इस्रयेलयोः युद्धं लबननमपि व्याप्तम्। इरानाय सहयोगमुद्घोषयत् लबनीयसायुधसंघटनं हिस्बुल्ला नामकं इस्रयेलस्य उत्तरपार्श्वे आक्रमणमारब्धम्। प्रत्युत्तररूपेण लबनने ह्यः इस्रयेलेन कृतेन आक्रमणेन ३१ जनाः मृताः। 

  खमीनेः वधस्य प्रतिकाररूपेण इस्रयेलं गल्फराष्ट्रस्थानां यू एसस्य सेनानिलयानि प्रति च इरानेन आक्रमणं कठिनीकृतम्। इरानस्य आक्रमणे   यू एस् सैनिकाः हताः। इस्रयेले हतानां संख्या ११ अभवत्।

  इराने एकं चीनीयमभिव्याप्य ५५५ जनाः मृताः। १३० इरानीयनगराणि आक्रमणाधीनानि जातानि।  'एलिमेन्टरि' विद्यालये हतानां बालिकानां संख्या १६५ अभवत्।