OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, March 2, 2026

 आन्ध्रप्रदेशे स्फोटकनिर्माणशालायां स्फोटनं - २१ जनाः मृताः।

वेट्ल पालं> आन्ध्रप्रदेशे काकिनटा जनपदे वेट्ल पालम् इत्यत्र स्फोटकनिर्माणशालायां दुरापन्ने महास्फोटने २१ जनाः मृताः। अष्ट जनाः तीव्रतया तप्ताः जाताः। शनिवासरे मध्याह्ने आसीत् दुर्घटना। 

  तत्रत्याः श्रमिकाः एव मृताः। मृतान् प्रत्यभिज्ञातुं डि एम् ए परिशोधनमावश्यकमिति सूच्यते। राज्यस्य बृहत्तमा दुर्घटना एषा इति कथ्यते। दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः इत्यादयः अनुशोचितवन्तः। मृतानां परिवाराय धनसाह्यम् उद्घोषितम्।