OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 1, 2026

 इराने यू एस्-इस्रयेलयोः आक्रमणम्। 

इराने बोम्बाक्रमणे विद्यालयः नाशितः; ८५ बालिकाः हताः। इरानस्य प्रतिप्रहरे गल्फराष्ट्राणि आक्रमितानि। 

टेहराने दुरापन्नं स्फोटनम्। 

टेह्रानः> आणवपरियोजनां त्यक्तुं न सज्जते इत्यारोप्य इरानराष्ट्रं प्रति अमेरिकायाः सहयोगेन इस्रयेलः व्योमाक्रमणमकरोत्। प्रादेशिकसमयानुसारं शनिवासरे प्रभाते ८. १५ वादने आसीत् आक्रमणम्। राजधानी टेहरानः, इसफहान्, खोम्, कराज्, केर्मन् षाह् इत्यादिस्थानेषु महास्फोटनानि जातानि। 

  दक्षिणेराने बालिकानाम् 'एलिमेन्टरि' विद्यालये बोम्बानि पतित्वा ८५ बालिकाः मृत्युमुपगताः। ९३  छात्राः व्रणिताः। 

  यू एसस्य पश्चिमेष्यायां वर्तमानान् निलयान् विरुध्य इरानस्य अग्निशस्त्राक्रमणम् अभवत्। बहरिन्, अबुदाबी, दुबाय्, कुवैट्, रियाद् [सौदि अरेब्या], सिरिया, इराख् इत्येतेषु प्रदेशेषु बोम्बस्फोटनानि जातानि। अनेके हताः इति सूच्यते।