टि-२० विश्वचषकः।
सम्पूर्णविजयाय भारतम्।
नेतर्लान्टं प्रति स्पर्धा सायं सप्तवादनतः।अहम्मदाबादः> टि-२० विश्वचषकस्य ए संघे भारतं स्वस्य अन्तिमस्पर्धायै नेतर्लान्टं प्रति स्पर्धिष्यते। बुधवासरे सायं सप्तवादने अहम्मदाबादस्थे नरेन्द्र मोदी क्रीडाङ्कणे अस्ति प्रतिद्वन्द्वः।
अद्यतनस्पर्धामपि विजित्य संघे अपराजितं विजयं भारतं लक्ष्यीकरोति। भारतस्य ११ दले कानिचन परिवर्तनानि प्रतीक्षन्ते।
.png)