OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 2, 2026

 आयत्तोल्ला खमीनी हतः। 


इरानस्य प्रतीकारे गल्फे ४ मरणानि। 

टेहरानः> इरानस्य सर्वोच्चनेता आयत्तोल्ला अली खमीनी (८६) यू एस्-इस्रयेलयोः संयुक्ताक्रमणे हतः। राजनगरे टेहराने  खमीनेः वासस्थानं कार्यालयं चाभिव्याप्य वर्तमानं भवनसमुच्चयं प्रति शनिवासरे प्रभाते १०. ३० वादने विधत्तेन व्योमाक्रमणेन आसीत् तस्य निहननम्। 

  इरानस्य रक्षामन्त्री असीस् नासिर सादे, सेनामुख्यः अब्दुल् रहीम मौसवी, खमीनेः उपदेष्टा अली शम्खानी, इरानस्य Revolutionary Guard Core (IRGC) इत्यस्य नेतृमुख्यः मुहम्मद पाक्पुर् इत्येते च मृताः इति इरानराष्ट्रेण दृढीकृतम्। 

  इरानराष्ट्रस्य नीतिन्यायव्यवस्थायाः सर्वाधिकारी, सेनाविभागानां नेतृमुख्यः, धार्मिककार्यविभागस्य च मुख्याध्यक्षः इत्येवं रूपेण  परमोन्नतनेता इति स्थानम् अलंकुर्वन्नासीत् आयत्तोल्ला अली खमीनी। १९८९ तमे वर्षे आसीत्तस्य स्थानारोहणम्। 

  खमीनेः निर्याणे इरानेन ४० दिनात्मकं राष्ट्रीयदुःखाचरणं, सप्त दिनानां सामाजिकविरामश्च उद्घोषितः। 

  खमीनेः हत्यायां राष्टस्य प्रतिकारः भविष्यतीति  इरानस्य 'ऐ आर् जी सी' इत्यनेन प्रख्यापितम्। दुबाय् [यू ए ई], दोहा [खत्तर्], मनाम [बहरिन्], कुवैट् इत्यादिषु गल्फराष्ट्रेषु विधत्ते आक्रमणे चत्वारः मृताः। नैकानि भवनानि विशीर्णानि जातानि।