OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, March 2, 2026

 टि-२० विश्वचषकः।

सञ्जु सांसणः अग्रे अनयत् [९७*/५०]।

विजयेन भारतं प्रपूर्वान्त्ये।

विन्डीसं ५ द्वारकैः पराजापयत। 

विन्डीसं विरुध्य भारतस्य विजयानन्तरं सञ्जू सांसणः। 

कोल्कोत्ता> सञ्जू सांसण् नामकस्य केरलीयस्य क्रिकट् क्रीडकस्य अत्युज्वलः कल्पनावैभवः! भारताय विजये अनिवार्ये तस्य ताडनवैभवेन [५० कन्दुकैः ९७* धावनाङ्काः] टि-२० विश्वचषकस्य सूपर् ८ प्रतिद्वन्द्वे वेस्ट् इन्डीसदलं पञ्च द्वारकैः पराजित्य भारतं पूर्वान्त्यचक्रं प्राविशत्। सञ्जू सांसणः क्रीडाप्रवीरः जातः।

  प्राप्ताङ्कसूचिका - विन्डीसः २० क्षेपणचक्रेषु १९५/४। भारतं १९. २ क्षेपणचक्रेषु १९९/५। गुरुवासरस्य पूर्वान्त्यस्पर्धायां भारतं इङ्गलाण्टेन सह स्पर्धिष्यते। बुधवासरे सम्पत्स्यमाने प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे दक्षिणाफ्रिक्का-न्यूसिलान्टयोः स्पर्धा भविष्यति।