OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 3, 2026

 पश्चिमेष्यासंघर्षस्य प्रत्याघातः - तैलेन्धनमूल्यम् उद्गच्छति। 

मुम्बई>  पश्चिमेष्यायां संघर्षे तीव्रे आगोलविपण्याम् असंस्कृत तैलेन्धनस्य मूल्यम् उद्गच्छति। इरानस्य परमोच्चनेतुः आयत्तोल्ला खमेनीवर्यस्य हत्यानन्तरं सोमवासरे असंस्कृत तैलेन्धनस्य मूल्ये १०% मितस्य वर्धनमभवत्। अन्ताराष्ट्रिय व्यवहाराङ्कनस्य [Bench mark]  'ब्रेन्ट् क्रूड्' इत्यस्य मूल्यं अयोभाण्डं [Barrel] प्रति ८२ डोलर् मितं वर्धितम्। दिनेनैकेन ९. १३ डोलरस्य वर्धनम्! 

  अन्ताराष्ट्रियतैलेन्धनगमनागमने निर्णायकप्रभावेन वर्तमानायां 'होर्मुस्' सामुद्रधुन्यां तिस्रः तैलमहानौकाः आक्रमणाधीना‌ः इति वृत्तान्तेनैव तैलविपणी ज्वालयते। इरानस्य दक्षिणपार्श्वे वर्तमानेन होर्मुस् सामुद्रिकसङ्कोचेन महानौकाः न गन्तव्याः इति इरानस्य जागरूकतानिर्देशः वर्तते च। अपि च, सौदि अरेब्यायाः बृहत्तमा तैलसंस्करणशाला 'आराम्को' इत्यस्याः रास् तनूरा नामके स्थाने   ड्रोण् आक्रमणमभवदिति वार्ता अस्ति। तैलसंस्करणशालायाः प्रवर्तनं स्तब्धमिति सौद्या निगदितं च। पश्चिमेष्यराष्ट्राणि विरुध्य इरानेन कृतेन आक्रमणेन तैलविपण्याम् अतिक्लेशं भविष्यतीति सूच्यते।