केरलम्।
एस् एस् एल् सि, +1 परीक्षाः गुरुवासरे आरप्स्यन्ते।
अनन्तपुरी> केरलराज्ये दशमीकक्ष्यायाः सामाजिकपरीक्षा - एस् एस् एल् सि - तथा +1छात्राणां वार्षिकपरीक्षा च मार्च् पञ्चमदिनाङ्के आरप्स्यते। +2 वार्षिकपरीक्षा षष्ठदिनाङ्के च आरप्स्यते। प्रश्नपत्रिकावितरणं सम्पूर्णमभवदिति शिक्षामन्त्री वी शिवन् कुट्टिः पत्रकारसम्मेलने न्यवेदयत्।
मेय् मासस्य तृतीयसप्ताहे एस् एस् एल् सि परिणामम् उद्घोषयिष्यति।