केरलम्।
मुण्टक्कै-चूरल् मला ग्रामस्य पुनर्जनिः।
सर्वकारेण कृतस्य वयनाट् पुरपत्तनस्य समुद्घाटनं सम्पन्नम्।
प्रथमचरणे १७८ भवनानां कुञ्चिकादानं आधिकारिकप्रमाणपत्रसमर्पणेन सह निरवहत्। 
वयनाट्दुरन्तातिजीवितानां कृते केरलसर्वकारेण निर्मितस्य भवनसमुच्चयः।
कल्पट्टा> २०२४ जूलै ३० तमे दिनाङ्के दुरापन्ने भूविच्छेदे प्रलये च नामापि अनवशिष्य नाशितस्य वयनाट् जनपदस्थस्य मुण्टक्कै-चूरल् मला प्रदेशस्य पुनर्जनिः गतदिने समभवत्। भवनरहितानां ग्रामवासिनां कृते निर्मितस्य पुरपत्तनस्य [Township] प्रथमचरणस्य समुद्घाटनं मुख्यमन्त्रिणा पिणरायि विजयेन कृतम्। कल्पट्टानगरसमीपे 'एल्सण् एस्टेट्' [Elson Estate] मध्ये संरचिते नगरसंस्थापने उद्दिष्टेषु ४१० भवनेषु १७८ भवनानां निर्माणं सर्वथा पूर्तीकृत्य तावतां गुणभोक्तॄणां कृते कुञ्चिकादानं तथा स्थानस्य स्वामित्वाधिकारपत्राणां समर्पणं च रविवासरे सम्पन्नम्।
प्रतिपरिवारं सप्त 'सेन्ट्' मितं भूमिः तस्यां सहस्रचतुरश्रपादमितं भवनं च लभते। प्रतिभवनं प्रग्रीवं,महानसः, शयनकक्षद्वयं,स्वागतकक्षः, पठनप्रकोष्ठः, शौचालयः ,सम्भरणकक्षः च विद्यन्ते। भवनेषु एप्रिल् मासे वासम् आरब्धुं शक्यते।