होर्मुस् धुनीं पिधाय इरानस्य प्रतीकारः।
७०० + महानौकाः स्थगिताः। 
होर्मुस् जलमार्गः।
इराने मरणानि ७८७।
टेहरानः> इरानं विरुद्ध्य यू एस्-इस्रयेलयोः युद्धे पञ्चमदिनं प्रविष्टे प्रतीकारप्रक्रमरूपेण तैलेन्धनवाहकमहानौकानां सञ्चारमार्गः 'होर्मुस्' समुद्रसङ्कोचः इरानेन पिहितः। नियन्त्रणमुल्लङ्घ्य समुद्रसङ्कोचेन गम्यमाणाः पण्यमहानौकाः प्रज्वालयिष्यन्ते इति इरान् रवलूषणरि गार्ड् कोर् [I R G C] इत्यनेन भीषा प्रख्यापिता। सप्तशताधिकाः पण्यमहानौकाः पेर्ष्यासमुद्रे लग्नाः वर्तन्ते इति वृत्तान्तमस्ति।
होर्मुस् धुन्याः नियन्त्रणं ऐ आर् जि सी संघटनस्यैव वर्तते। प्रथमतया एव पूर्णतया समुद्रसङ्कोचस्य पिधानम् इरानेन क्रियते। होर्मुसस्य पिधानं तीव्रमूल्यवर्धनस्य कारणं भविष्यतीति आशङ्कते।
तथा च इराने इतःपर्यन्तं ७८७ जनाः व्योमाक्रमणेन मृताः। लबनने ५२ मरणानि जातानि। २४६ जनाः आहताश्च। यू एस् सैनिकानां मृत्युसंख्या षडभवत्। इरानस्य प्रत्याक्रमणे गल्फराष्ट्रेषु ९० जनाः मृत्युमुपगताः।