OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 16, 2017

तलाखत्रितयं दण्ड्यापराधः - मन्त्रिसभया अङ्गीकृतः। 
         नवदिल्ली > एककाले एव त्रिवारं 'तलाख्' उक्त्वा वैवाहिकबन्धस्य तिरस्कारः [तलाख् ई बिद्दत्] दण्ड्यमानः अपराध इति व्यवस्थां क्रियमाणस्य देयकस्य केन्द्रमन्त्रिसभायाः अङ्गीकारः। देयकं विधानसभायाः सम्पद्यमाने शीतकालसम्मेलने अवतारयिष्यते इति मन्त्रिणा रविशङ्करप्रसादेन निगदितम्। वाचा , लिखितेन, 'इलक्ट्रोणिक्'माध्यमद्वारा च तलाखत्रयं निरुध्यमानमस्ति निर्दिष्टमाणं विधेयकम्।
        गृहमन्त्रिणः राजनाथसिंहस्य नेतृत्वे आयोजिता मन्त्रितलसमित्या सिद्धाय Muslim women protection of rights of marriage bill इत्येतस्य संक्षिप्तरूपाय एव अङ्गीकारः दत्तः। इस्लाममहिलानां क्षेमं एव इदं विधायकं लक्ष्यीकरोति।
इन्तोनेष्यराष्ट्रे शक्तः भूचलनः, सुनामि जलोपप्लवस्य पूर्व सूचना
           जक्कार्त> इन्तोनेष्यदेशस्य जकार्त सीमायां गतरात्रौ जायमाने भूकम्पे स्थावर-जङ्गमवस्तूनां नाशः अभवत् । मनुष्यापायः अभवत् इति आवेदनम् अस्ति चेदपि विशदांशानि न लब्धानि। केचन प्रदेशेषु 'सुनामि'प्रलयाघातसुचना प्रसारिता अस्ति। रिक्टर् मापिकायां ६.५ एव भवति अस्य भूकम्पस्य शक्तिः। जावा प्रदेशस्य पश्चिम भागः भवति भूकम्पस्य प्रभव केन्द्रः।

Friday, December 15, 2017

प्रधानमन्त्रिणा आईएनएस कलवरी राष्‍ट्राय समर्पितवान्
       मुम्बै>प्रधानमन्त्री नरेन्‍द्रमोदी मुन्बय्यां समायोजिते समारोहे नौसैन्यबलस्य आईएनएस कलवरी इत्याख्य: जलपोत: राष्‍ट्राय समर्पितवान् ।
        अत्रावसरे देशवासिभ्य: वर्धापनानि वितरता प्रधानमन्त्रिणोक्तं यत्  आईएनएस कलवरी ‘मेक इन इंडिया’ कार्यक्रमस्य परिणाम: वर्तते। अनेन जलपोतेन  आईएनएस भारतीयनौसैन्यबलस्य शक्ति:  सुदृढ़ा भविष्यति । श्रीमोदिना प्रोक्तं यत् २१ शताब्दी  एशियामहाद्वीपीया कथ्यते इति। अस्यां शताब्द्यां विकासमार्ग: हिन्दुमहासमुद्रात्‌ प्रवर्तते। अत: प्रशासनस्य नीतिषु हिन्दमहासागरस्य विशेषस्थानं वर्तते। प्रधानमन्त्रिणा राष्ट्रसुरक्षायै समर्पितानां प्रति आभार: प्रकटित:।
गुजरात्, हिमाचल् भा जा पा कृते।
 कोण्ग्रस् दलं गुजरात राज्ये अवस्थां सम्यक् कारयति।
        नवदेहली> गुजराते हिमाचले च भा जा पा नाम दलाय शासनं प्राप्स्यति इति ऊहगणनाफलानि (एक्सिट् पोल्)। गुजरात राज्ये द्वि वाराभ्यां जाते सम्मतिदाने अवसिते सति ऊहगणनाफलानि बहिरागतानि । गुजरात राज्ये १८२ विधानसभामण्डलानि तथा हिमाचल् प्रदेशराज्ये ६८ विधानसभामण्डलानि च सन्ति। २०१२ तमस्य गुजरात् निर्वाचने भा जा पा दलाय ११९ स्थानानि  कोण्ग्रस् ५७ स्थानानि च प्राप्तानि।। हिमाचल् राज्ये कोण्ग्रस् दलाय ३६ स्थानानि भा जा पा दलाय २६ स्थानानि च प्राप्तानि।
 गुजरात् निरेवाचन एकेसिट् पोल् फलानि एवम्।

टैंस् नौ।
भा ज पा शासनं संरक्षेत्। १०९ स्थानानि पर्यन्तं प्राप्स्यति। कोण्ग्रस् स्वस्थितिं सम्यक् पालयिष्यति।। ७० स्थानानि पर्यन्तं प्राप्स्यन्ति।

रिप्पब्ल्क् टी वी।
भा जा पा १०८, कोण्ग्रस् ७८

सीवोट्टर्।
भा जा पा ११६, कोण्ग्रस् ६४

न्यूस् एक्स्।
भा जा पा ११०-१२०, कोण्ग्रस् ६५-७५

इण्डिया टुडे।
भा जा पा ९९-११३, कोण्ग्रस् ६८-८४, अन्ये १-४
इण्या टुडे सर्वेक्षणानुसारं हिमाचल् राज्ये ६८ स्थानेषु ५५ स्थानानि भा जा पा प्राप्स्यति। कोण्ग्रस् नाशं प्राप्स्यति।
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्
राष्‍ट्रियहरितप्राधिकरणेन स्‍पष्‍टीकृतं यत् तेन दक्षिणकश्‍मीरे अमरनाथतीर्थस्‍थलं मौनक्षेत्रत्वेन नैवोद्घोषितम्। प्राधिकरणाध्‍यक्षस्य न्‍यायमूर्ते: स्‍वतन्त्रकुमारस्य नेतृत्‍वयुतेन पीठेनोक्तं यत् केवलं हिमनिर्मितस्य शिवलिङ्गस्य समक्षमेव जना: तूष्णीं भवन्तु। इत: प्राक् प्राधिकरणेनोक्तमासीत् यत् अमरनाथतीर्थस्य निकटस्थक्षेत्रे यदि जना: शान्तिपूर्वकं स्थास्यन्ति चेत् अनेन हिमस्‍खलनावरोधने लिङ्गस्य प्राचीनस्‍वरूपस्य संरक्षणे साहाय्यं भविष्यति ।
कुलभूषणाय नयतन्त्रसाहाय्यं दातुं   न शक्यते - पाकिस्थान्।
             हेग् >चारवृत्तिमारोप्य पाकिस्थानेन मृत्युदण्डाय विहितः भारतस्य नौसेनाधिकारी कुलभूषण् यादवः नयतन्त्रसाहाय्यमर्हतीति भारतस्य अभियाचना अन्ताराष्ट्रनीतिन्यायालये [ऐ सि जे] पाकिस्थानेन निराकृता। कुलभूषणद्वारा सङ्कलिताः सूचनाः समाहर्तुमेव भारतेन इयमभियाचना उन्नीता इति पाकिस्थानेन ऐ सि जे मध्ये उक्तम्।
              यादवस्य मृत्युदण्डनिरासाय नयतन्त्रसाहाय्यलब्धिव्यवहाराय च भारतेन ऐ सि जे संस्था प्राप्ता आसीत्। अतः मृत्युदण्डनस्य क्रियाविधिः ऐ सि जे संस्थया जडीकृतः आसीत्। नयतन्त्रसाहाय्यस्य विषये प्रतिवचनाय पाकिस्थानं प्रति निरदिशच्च। अस्य प्रतिवचने एव भारतादेशः निरस्तः।

Thursday, December 14, 2017

गुजरात्ते द्वितीयस्तरमतदानम् आरब्धम्
              अहम्मदाबाद्> प्रधानमन्त्रिणः नरेन्द्रमोदिनः जलविमानयात्रा तथा नियुक्त कोण्ग्रस् अध्यक्षस्य राहुलगान्धिनः दृश्यवाहिनी-प्रस्तुत्यनन्तरं जायमानानां विवादानां पश्चात् अद्य द्वितीया मतदानक्रिया प्रचलति। उत्तर-मध्य गुर्जरस्य चतुर्दशजनपदेषु त्रिणवति मण्डलेषु निर्वाचने २.२२ कोटि मतदानिनः अद्य तेषाम् अभिमतानि प्रकाशयन्ति। प्रधानमन्त्री मोदी अहम्मदाबादस्थ निशान् विद्यालये मतदानं करिष्यति। भा ज पा राष्ट्रियाध्यक्षः अमित् षा नारायण् पुरे, एल् के अध्वानि खानपुरे, धनमन्त्री अरुण् जैट्टिली वेजल् पुरे, कोण्ग्रस् दलस्य राज्याध्यक्षः भरत सोलङ्की खेड जनपदस्य बोर्सादे च मतदानं करिष्यन्ति।
रामसेतुः मनुष्यनिर्मितः - अमेरिकीय वैज्ञानिकदृश्यवाहिनी।
              नवदिल्ली > भारतश्रीलङ्कयोः मध्ये सागरे वर्तमानः रामसेतुः मनुष्यनिर्मितः इत्युक्त्वा अमेरिकीय दृश्यवाहिन्या दृश्यखण्डः प्रसारितः। तया वाहिन्या प्रसारिते दृश्यखण्डे रामसेतुः प्रकृत्या जातः न, नूनं मनुष्यनिर्मितः इति सप्रमाणं विशदीकरोति।
          हैन्दवानां विश्वासानुसारं रामसेतुः सत्यं वा इति प्रश्नः अस्मिन् प्रस्तुतदृश्यखण्डे प्रस्तूयते। वैज्ञानिकैः सः सत्यमिति उच्यते इति विशदीक्रियते दृश्यखण्डे। उपग्रह-चित्राणि संवीक्ष्यते चेत् सेतोः अस्वाभाविकता अवगम्यते इति च उच्यते दृश्यखण्डे।
          पञ्चसहस्रं (५०००) संवत्सरात् पूर्वं निर्मितम् अयं सेतुः तस्मिन् काले अतिमानुषिककर्म इति भासते। सेतुनिर्माणाय उपयुक्तानां पाषाणखण्डानां कालः तस्मिन् विद्यमानेभ्यः सिकताकणेभ्यः प्राचीनः इति च वैज्ञानिकप्रमाणेन विशदीक्रियते। विद्यमानानां पाषाणखण्डानां कालः सप्तसहस्रं (७०००) संवत्सराः किन्तु तस्मिन्  विद्यमानानां सिकताकणानां प्राचीनत्वं चतुस्सहस्रसंवत्सराः इति च दृश्यखण्डे उच्यते। सिकताकणानि पश्चात्काले स्वाभाविकया रीत्या निक्षिप्तानि स्युः इत्यपि दृश्यवाहिन्याः अनुमानं प्रस्तूयते।
दोक्ला सङ्घर्षेण भारत-चीनाबन्धः सङ्कटे निपतितः - चीनामन्त्री। 
         नवदिल्ली > दोक् ला सीमामण्डले संवृत्तः सङ्घर्षः भारत - चीनादेशयोः सौहृदसम्पर्के  सन्दिग्धताम् अजनयदिति चीनायाः विदेशकार्यमन्त्री 'वाङ् यि ' उक्तवान्। नवदिल्यां भारतस्य विदेशकार्यमन्त्रिण्या सुषमा स्वराज् वर्यया सह मेलने आसीत् तस्यायं परामर्शः।
          वार्ताहरेण पि टि ऐ प्रतिनिधिना प्रकाशितं यत्   तदानीन्तनघटनाभ्यः कृत्याकृत्यविवेकः जातः, इतःपरं तादृशानिष्टव्यवहारोद्यमाय न यतिष्यते इति 'यि'वर्येण उक्तम्। रष्या, चीना , भारत विदेशकार्यमन्त्रिणां मेलने भागभागित्वं वोढुमेव 'वाङ् यि' भारतं प्राप्तः।

Wednesday, December 13, 2017

राजनेतृन् विरुध्यापराधिकप्रकरणानां वादश्रवणाय विशेषन्यायालानां स्थापना     
-पुरुषोतमशर्मा
            नव दिल्ली> केन्द्रसर्वकारेण  उच्चतमन्यायालये प्रस्तुते एकस्मिन् शपथपत्रे प्रोक्तं यत्रा राजनेतृन् विरुध्यापराधिकप्रकरणानां वादश्रवणाय द्वादशविशेषन्यायालया: स्थापयिष्यन्ते । उच्चतमन्यायालये प्रस्तुतायां याचिकायां दोषिणाम् आजीवन-निर्वाचनप्रतिभागितायां निषेध: अपि अध्यर्थित: केन्द्रीयप्रत्यक्षकरमण्डलेन उच्चतमन्यायालयाय पिहिते पुटके  लोकसभाया: सप्त संसद् सदस्यानाम् अथ च अष्टनवति विधायाकानां नामानि समर्पितानि आसन् । एतेषां सम्पत्ति: निर्वाचनद्वये भूरि संवर्धिता: आसीत् । प्रोक्तं च यत्  केन्द्रीयप्रत्यक्षकरमण्डलेन अन्वीक्षणं प्रवर्तते ।
        अवधेयमस्ति यत् लोकसभाया: १८४ सदस्यान् , राज्यसभायान् ४४ सदस्या:, ४०७८ विधायकान् च विरुध्य आपराधिकप्रकरणानि सन्ति ।
गुजरातविधानसभानिर्वाचनम् - मतदानं गुरुवासरे

- हेमन्त जोशी 
        गुजरातविधानसभाया: द्वितीयान्तिमचरणाय मतदानं गुरुवासरे भविष्यते। अस्मिन् चरणे राज्यविधानसभाया: उत्‍तरमध्‍यक्षेत्रयो: त्रिनवति आसनेभ्य: प्रात: अष्टवादनात् सायं पञ्चवादनं यावत् मतदानानि भविष्यन्ति । अस्मिन् चरणो द्वाविंशति: लक्षाधिकद्विकोटि मतदातार: एकपञ्चाशदधिक-अष्टशतं प्रत्याशिनां भाग्‍यस्य निर्णयं करिष्यन्ति। निर्वाचनायोगेनोक्तं यत् शान्तिपूर्णमतदानाय राज्यो सुरक्षाया: दृढोपाया: सन्ति । अस्माकं वार्ताहरेण सूचितं यत् द्वितीयान्तिमचरणाय प्रचाराभियनं गतदिने सम्पूर्णमभवत् ।
हिमपातेन काश्मीर सानुप्रेदेशाः प्रथक् अभवन् , पञ्चसैनिकाः अदृश्याः।
       श्रीनगरम्>काश्मीरस्य अतीत्यकायां कठिना हिमपातेन पञ्चसैनिकाः अप्रत्यक्षाः अभवत्I कुप्वार जनपदस्य नौगमदेशो द्वौ , बन्दिप्पोर जनपदस्य गुरेसिले कन्सल्वान् उपक्षेत्रे त्रयः च निरीक्षणपर्यटनस्यमध्ये हिमपातेन अदृश्याः जाताः। सैनिकानां कृते अन्वेषणं प्रचलत् अस्ति। हिमपाताधिक्येन त्वरितवेगेन अन्वेषणे कष्टता अनुभूयते।
        श्रीनगर विमाननिलयः स्तगितः। हिममेघा: दृष्टिपरिधिमपि लघ्वीकुर्वन्तः सन्ति इत्येव कारणम्। पूञ्च्, रजौरी, षोपियान् जनपदान् संबन्ध्य वर्तमानः मुगल् मार्गः  श्रीनगर-जम्मु राष्ट्रियमार्गः च हिमपातेन वृष्टिपातेन च पिधानं कृतम्। इयं अवस्था दिनद्वयं यावत् अनुवर्तिष्यते इति पर्यावरणविभागेन उक्तम्I
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता "संस्कृतं जनभाषा भवेत्" इति आमुखपटलसमूहे प्रत्येक-रविवासरे भवति । एषा प्रतियोगिता प्रत्येक रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दशप्रश्नाः सन्ति । अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति। सहायका: पण्डितः दीपक: शास्त्री, अमित: ओली, मञ्जु भट्टाचार्य:, डॉ. सन्ध्या ठाकुर:, डॉ. योगेशव्यास: शिवांगी शर्मा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारं च स्त: । गत रविवासरे १०/१२/२०१७ तमे दिनाङ्के प्रतियोगितायाम् आहत्य ३२० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता भूपेशः जोशी (उत्तराखंड), द्वितीया विजयिनी कुनी साहु (ओडिशा), तृतीय विजेता
संतोषकुमार: चौधरी (बिहार) च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं संस्कृतसमाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं लप्स्यते । यदा भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारपक्षत: प्रथमविजेते उपहारस्वरुपे धार्मिक-पुस्तकं मेलिष्यति ।
     आगामी प्रतियोगिता १७/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
उन्मादकवस्तूनि ग्रहीतुं साह्यायै लक्षशः रुप्यकाणि  सम्मानं दीयते- केन्द्र सर्वकारः।
          नवदिल्ली> विवरणानां दानेन उन्मादक वस्तूनां ग्रहणे सर्वकारस्य साहायं कुर्वतां सामान्य जनानां सर्वकारीयोद्योगस्थानां च निष्कृतिदानाय उद्युक्तः अस्ति केन्द्र आभ्यन्तरमन्त्रालयः। एतत् अनुबन्धतया नूतना मार्गरेखा  मन्त्रालयेन प्रकाशिता विद्यते। साह्येन गृहीतानाम् उन्मादक वस्तूनां मानमनु सृत्य एव भविष्यति निष्कृतेः मूल्य निर्णयम् । २४० रुप्यकाणि आरभ्य २.४० लक्षपर्यन्तं प्रतिफलराशिरूपेण लब्धुमर्हति इति IANS वार्ताहर संस्थया आवेदितम्। विविधानाम् उन्मादकवस्तूनां नामानि प्रतिकिलोमितस्य प्रतिफलराशिः च प्रकाशिता अस्ति। सर्वकारीयोद्योगिनां तेषां सेवनकाले विंशतिलक्ष-रुप्यकपर्यन्तम् अनेनमार्गेण सम्माननराशिवत् लब्धुमहर्ता अस्ति। उन्मादकवस्तु विनिमयस्य निष्कासनं समूलं कर्तव्यमिति दृढनिश्चयेन भवति एतावत् क्रियाविधि:।
सांस्कृतीय विज्ञनस्य निराकरणं नयुक्तम् - केरलस्य मुख्यमन्त्री 
          कालटी > अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्करस्य जन्मग्रामे १९९२तमे वर्षे समारब्धस्य श्रीशङ्कर संस्कृतविश्वविद्यालयस्य 'रजतजूबिलि' आघोषः केरलराज्यस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटितः। अस्माकं पूर्वसंस्कृतेः विज्ञानानि संस्कृतभाषायामेव विद्यमानानि सन्तीत्यतः संस्कृतीयविज्ञानस्य निराकरणं न युक्तमिति पिणरायि विजयेन उक्तम्।
     ज्ञानस्य दिग्विजय एव श्रीशङ्करेण कृतः। ज्ञानेन अज्ञानान्धकारं निर्माजयितुमासीत् तस्य दिग्विजययात्रा। अतः तस्य महात्मनः नाम्नि स्थापितस्य विश्वविद्यालयस्य उत्तरदायित्वमपि नान्यदस्तीति मुख्यमन्त्रिणा स्पष्टीकृतम्।
     भूतपूर्वाः उपकुलपतयः आर्. रामचन्द्रन् नायर्, डो. एन् पि उण्णी, डो. के एस् राधाकृष्णः, डो. जे प्रसाद्, डो. एम् सि दिलीप् कुमारः इत्येते कार्यक्रमे$स्मिन् समादृताः।।

Tuesday, December 12, 2017

दोक्ल देशे चीनेन सैन्यः विन्यस्यते,
जाग्रतायां भारतम्।
            नव दिल्ली > भारत-चैनयोः दोक्ल नाम सीमादेशे चीनेन सैनिकानां विन्यासम् अकुर्वन्। भारम् अपि समान सैन्यप्रक्रियायै उद्युक्तः। अतिशैत्यः एव अनुभूयते सीमायाम्। तथापि चीनेन उपाष्टशातोत्तरं (१८००) सैनिकाः विन्यस्ताः।
         ओगस्ट्मासस्य अन्तिमवासर-पर्यन्तं सङ्घर्षः आसीत् अस्मिन् प्रदेशे। उभययोः राष्ट्रयोः सेनाः सम्मुखीक्त्य तिष्टन्तः आसन्। चीनेन प्रदेशेस्मिन् एकाक्षविमानानां कृते द्वौ अवरोहणचत्वरः निर्मितः। सैनिकानां कृते वासप्रकोष्टाः अपि मिर्मिताः सन्ति। मार्गानां स्थितिः बलवत् कृतः च।
         भारत-चीन-रष्य राष्ट्राणां त्रिराष्ट्र चर्चायैः भागं कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ्यि इदानीं दिल्यां सन्निहितः अस्ति। दोक्ल चीनस्य अधीनदेशः इति चीनस्य प्रतिरोधवक्त्रा केणल् वुक्कियानेन  ह्यः उक्तम्।
राहुल् गान्धी कोण्ग्रस् राजनैतिकदलाध्यक्षः ।
          नवदिल्ली> राहुल्गान्धी कोण्ग्रस् दलस्य अध्यक्षत्वेन नियुक्तः I निर्वाचन समिति अध्यक्षेण मुल्लप्पल्लि रामचन्द्रेण क्रियाविधिमनुसृत्य नियुक्तिः प्रख्यापिता। अन्ये यःकोऽपि निर्वचने न स्पर्धिताः इत्यनेन आसीत् राहुलस्य निर्वाचनम्। शनिवासरे प्रातः ११ वादने पदारोहः भविष्यति। ए ऐ सि सि स्थाने आयोक्ष्यमाणे विशेषकार्यक्रमे एव स्थानारोहसमारोहः। कोण्ग्रस् प्रवर्तकसमिति: अपि सन्दर्भे अस्मिन् आयोक्ष्यते । एकोनविंशति संवत्सरानन्तरमेव कोणग्रस्-अध्यक्षस्थानाय निर्वाचनम्।
अन्तर्जालस्य वेगः भारते न्यूनातिन्यूनम्। 'ब्रोड्बान्ट'स्य वेगेन ७८तम स्थाने।
        नवदिल्ली> अन्तर्जालवेगता मापने  भारतं बहुपृष्ठतः एव। अमेरिका, यु के , चीनः तथा आर्थिकायेन भारतस्य पृष्टतः स्थास्यमानेषु राष्ट्रेष्वपि इतानीं अन्तर्जालवेगः इतोऽपि अधिका वर्तते। 'फिक्सट् ब्रोडबान्ट्' अपि वेगतागणने अष्टचत्वारिंशतत् स्थाने एव। 'स्पीड् टेस्ट् ग्लोबर् इन्टक्स्' नाम संस्थया कृताध्ययनानुसारमेव इयं गणना।
         जंगम-दूरवाण्यां  प्रतिनिमेषस्य  62.66 एं बि एव भवति | अन्तर्जाल वेगेन नोर्वै एव विश्वे प्रथमस्थानमावहति। भारतस्य स्थानं १०९ तममेव। वेगमापकानुसारं ८.८० एम् बि भवति भारतस्य सामान्यवेगः।  नेतर्लान्ट् 53.01 एम् बि द्वितीयः, ऐस् लान्ट् 52.78 तृतीयः ,  यु ए इ‍ 46.83 एम् बि नवमः, कानड 39.58 एम् बि चतुर्दशतमः, चीनः 31.22 एम् बि एक त्रिंशत्तमः , यु के 26.75 एम् बि  त्रिचत्वा रिंशत्तमः,  अमेरिक्का 26.32 एम् बि चतुश्चत्वारिंशत्तम स्थाने च भवन्ति।

Monday, December 11, 2017

शरीरे हृदयद्वयः- हृद्रोगचिकित्सायां नूतनमार्गेण सह भारीयवैद्याः ।
        चेन्नै> हृदयरोपणमवश्यं किन्तु आन्तरिकावयवानां दोषेण न शक्यते। सन्दर्भेस्मिन् एतान् मरणवक्त्रात् रक्षितुमपि न शक्यते। इदानीं अस्याः समस्यायाः परिहारत्वेन नूतना चिकित्साक्रमः भारतीय वैधैः आरचितः। अधिकतया नूतनहदयं सन्निवेश्य एव नूतनचिकित्साविधिः। चेन्नै देशस्थाः  हृद्रोगवैद्याः एव प्रयत्नं कुर्वन्तः सन्ति। तैः कृतानि परीक्षणानि सफलतां प्राप्स्यन्ते।    परीक्षणार्थं द्वयोः शुनकयोः हृदययोः  कृते अधिकौ हृदयौ संयोजितौ। निविष्टः हृदयः शरीरे पूर्वं आसीनयोः  हृदययोः साह्यं अकुरुताम् । शुनकयोः उदरे एव हृदयः न्यक्षिप्तः। हृदयधमनिद्वारा उभौ हृदयौ बन्धितौ च। परीक्षणं विजयमासीत्। मानव हृदयेषु परीक्षणं कर्तुं अनुज्ञायै तिष्टन्तः सन्ति इदानीं वैद्याः।
           पि बालाजि, के एम् चेरियान्, मधुशङ्कर् आदयः वैद्याः एव अस्मिन् परीक्षणे भागभाजः अभवन्। चेन्नैस्थ फ्रोन्टियर् लैफ् लैन् चिकित्सालये एव इदं विशेषानुसन्धानं प्रचलत् ।
नियमान् विगणय्य अवश्यक्षेत्रे  कर्म करान् विन्यस्यते ।
नवदिल्ली >  पट्टिकाशकट-कर्मकरेषु प्रतिशतं पञ्चविंशति (२५%) कर्म कराणां नियुक्तिः नियमान् विगणय्य एव भवति इति रयिल् आयोगस्य निरीक्षणम्। नियमलङ्घन न जायते इति प्रबलंकर्तुं मण्डलीय कार्यालयाः निर्दिष्टाः अधुना। रयिल् संस्थायाः ८९००० संख्याकानां कर्मकराणां कर्मवितरण व्यवस्था प्रबन्धकव्यवस्था संविधानात् एव मण्डलीय कार्यालयाः उपयुज्यन्ते। लोक्को पैलट्, गार्ड् आदि प्राथमिक-विभागकर्मकराः एव अस्मिन् अन्तर्भवति। नियमानुसारं निर्वाचितेन सह अवश्यकान् अपि योजयितुं शक्यते। योजनं तेषां स्वास्थ्यः कर्मकुशलता च परिगण्यभवतु इति नियमः। किन्तु तं नियमं विगणय्य एव नियुक्तिः इति इदानीन्तन आवेदनस्य कारणम्। एषा नियुक्तिः सुरक्षायै भीषा भविष्यति इति आशङ्क्यते रयिल् आयोगेन।

Sunday, December 10, 2017

पेट्रोल् - मेथनोल् संयोजनाय केन्द्रं ; मूल्य-मलिनीकरणन्यूनीकरणं लक्ष्य। 
      अन्तरिक्षमलिनीकरणं तथा मूल्यं च न्यूनीकर्तुं पेट्रोल् तैलेन सह 'मेथनोल्' नामकं रासवस्तुं संयोजयितुं योजना आविष्क्रियते इति केन्द्रगतागतमन्त्रिणा नितिन् गड्करिवर्येणोक्तम्। आगामिनि लोकसभासम्मेलने एतदधिकृत्य प्रख्यापनं भविष्यतीति मुम्बय्यां कस्मिंश्चित् कार्यक्रमे तेन स्पष्टीकृतम्।  प्रतिशतं  पञ्चदश मेथनोल् संयोजितपेट्रोल् तैलस्य उपयोगेन मलिनीकरणस्य मानं प्रतिशतं पञ्चदशमितं न्यूनीकर्तुं शक्यते। चीनाराष्ट्रे एतादृशतैलस्य मूल्यं सप्तदश रूप्यकाणि प्रति लिटर् भवति। भारते तु द्वाविंशति रूप्यकाणि कर्तुं शक्यते इति सः प्रतीक्षां प्रकाशितवान्। 
     सप्ततिसहस्रं कोटि रूप्यकाणां व्ययं भाव्यमानानां पेट्रोल् संस्करणशालानां स्थाने मेथनोल् निक्षेपा -धिष्ठितसंरम्भाणां योजनायै परिचिन्तितुं पेट्रोलियं मन्त्रालयं प्रति आदिष्टमस्ति - तेनोक्तम्।
अपूर्वशोणितदानाय भारतपौरः। रक्तदानेन सोदरत्‍वं प्रकाशितम्।
               दोह > रक्तदानस्य आदर्शरूपः इव निधीष् रघुनाथः। केरले कण्णूर् जनपदस्थः भवति एषः। कुवैत् देशे आतुरालये आसन्नप्रसवा स्त्रीणां कृते आसीत् रक्तदानम्। कर्णाटकस्वदेशिनी भवति एषा। अस्याः रक्तः अपूर्व-रक्तपटल-विभागे अन्तर्भवति। मुम्बै श्रेण्याम् अन्तर्गतोऽयम् अपूर्व विभागः सहस्रेषु चत्वाराणाम् एव अस्ति। अतः शस्त्रक्रियायै रक्तस्य दौर्लभ्यम् अनुभूताः च। तथा सामूहिक-माध्यमद्वारा अन्वेषणम् आरब्धम्। खत्तर् मध्ये उद्योगं कुर्वन् अस्ति निधीषः। तस्य रक्तः अनुयोज्यः इति ज्ञात्वा खत्तरतः शीघ्रं प्रवेशनुमतिपत्रम् आयोज्य कुवैत् जाबरिय्य रक्त-संभरणालयं प्राप्य रक्तदानम् अकरोत् च। शस्त्रक्रिया यथाकालं प्राचलत्। इदानीम् अपत्येन सह माता ससुखं वसति। भारतस्य प्रवासिजनाः निधीशस्य प्रवृत्तिं सधन्यवादं स्मरन्ति।

Saturday, December 9, 2017

गुजरात् विधानसभानिर्वाचनं - प्रथमसोपानं मतदानमद्य। 
           अहम्मदाबाद् > गुजरात् विधानसभायाः १८२ अङ्गपरिमितेषु स्थानेषु ८९ स्थानानि प्रति अद्य मतदानं भविष्यति। सौराष्ट्रा, दक्षिणगुजरात्, कच्च् इत्येतासु प्रविश्यासु १९ जनपदेषु एवाद्य निर्वाचनं प्रचलदस्ति। ९७७ स्थानाशिभ्यः २.१२कोटि मतदानिनः स्वाधिकारं प्रयोजयन्ति। २४,६९८ मतदानस्थानानि सन्ति। मतदानयन्त्रैः सह 'विविपाट्' यन्त्राण्यपि उपयुज्यन्ते। भा ज पा - कोण्ग्रस् दलयोः प्रतियोगिता एव प्राधान्येन दृश्यते। भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय राहुलगान्धी च प्रचारणनेतृत्वमावहतः।  निर्वाचनस्य द्वितीयसोपानं डिसम्बर् १४तमे दिनाङ्के भविष्यति।
वैय्यक्तिक-निगूढता संरक्षणीया। जयललितायाः अङ्गुलीमुद्रां स्वीकर्तुमादेशः निवारितः।
                  नव दिल्ली > निर्वाचनानुबन्धतया जायमान अलीकान् विरुध्य न्यायव्यवहारे तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः अङ्गुल्याः मुद्रां अवश्यकम् इत्युक्त्वा तमिल्नाट् राज्यस्य उच्चन्यायालयेन कृतस्य आदेशस्य बाधा। अङ्गुलीमुद्रायैः बंगलूरु पारप्पन कारागृहाधिकृताय तथा UIDI संस्थां प्रति च दत्तस्य अदेशस्य एव बाधा अभवत् । सर्वोच्च न्यायालयेन एव बाधां आदिशत्। न्यायव्यवहारश्रवणाय मुख्यन्यायाधिपः दीपक् मिश्रः, न्यायाधिपाः, एम् एम्. खान् विक्कर्, डि. वै चन्द्रचूढः च उपविष्टाः आसन्। षोडशेत्तर दिसहस्र (२०१६) तमे कृते 'तिरुप्रंकुण्ड्रं' उप निर्वाचने अलीकारोपणम् अवरोध्य आसीत् व्यवहारः।  निर्वाचने स्पर्धित: बि शरवणः एव न्यायव्यवहारं कृतः।  तस्मिन् समये जयललिता अतुरालये चिकित्सायाम् आसीत्। अतः अङ्गुली मुद्रायां सत्यः नास्ति  इत्यासीत् व्यवहारास्पदा  घटना। किन्तु निधनानामपि वैय्यक्तिक-निगूढता अस्ति। अतः जयललितायाः अनुमतिं विना अङ्गुलीमुद्रा उपयुज्य वा वैयक्तिक निगूढता उद्घाटयितुं नशक्यते इति सर्वोच्चन्यायालयेन अक्तम्।