बिहारम्।
सम्राट् चौधरिः नूतनमुख्यमन्त्री।
सम्राट्चौधरीराज्यपालस्य समक्षं शपथवाचनं करोति।
पट्ना> बिहारराज्यस्य भाजपा नेता सम्राट् चौधरिः राज्यस्य नूतनमुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। लोकभवने सम्पन्ने कार्यक्रमे राज्यपालः सय्यिद् अदा हस्नैरः शपथं कारितवान्। बिहारस्य २१ तमः मुख्यमन्त्री सम्राटः राज्ये भाजपादलस्य प्रथममुख्यमन्त्री अस्ति।
द्वौ उपमुख्यमन्त्रिणौ च शपथं कृतवन्तौ - जे डि यू दलस्य नेतारौ विजयेन्द्र प्रसादः, विजयकुमार चौधरी च। दशाब्दद्वयाधिककालं यावत् मुख्यमन्त्रिपदम् ऊढवान् जे डि यू नेता नितीष्कुमारः राज्यसभासदस्यः अभवत् इत्यतः एव राज्ये शासनपरिवर्तनम् जातम्।