OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 15, 2026

 छत्तीसगढः।

ऊर्जनिलये स्फोटनं - ११ जनाः मृताः।


रायपुरं> छत्तीसगढे शक्तिजनपदस्थे ऊर्जनिलये दुरापन्ने स्फोटने ११ कर्मकराः मृताः।  २२ श्रमिकाः आहताः।  उत्क्वथनस्थाल्याः (boiler) स्फोटनेन आसीत् घुर्घटना।स्फोटनस्य हेतुः न स्पष्टीकृतः। 

 आहतेषु बहवानामवस्था कठिनतरा वर्तते। अतः मृत्युसंख्या वर्धिष्येत। सोमवासरे अपराह्ने सिंगित राय् ग्रामे 'वेदान्ता लिमिटड् पवर् प्लान्ट्' नामके ऊर्जनिलये आसीदियं दुर्घटना।