४२ मावोवादिनः आत्मसमर्पणं कृतवन्तः।
हैदराबादः> कमान्डर् पदीयम् अभिवाप्य ४२ मावोवादिनः तेलङ्कानायाम् आयुधैः सह आत्मसमर्पणं कृतवन्तः। अनेन तेलङ्कानाराज्यं मावोवादविमुक्तमभवत् इति आरक्षणसेनायाः डि जि पी पदीयः शिवधर रेड्डी इत्यनेनोक्तम्। पञ्च ए के - ४७ यन्त्रभुषुण्डयः आरक्षणसेनां प्रति हस्तान्तरीकृताः।