यू एस् - इरान् चर्चा पराजिता।
इस्लामबादः> लोकेन आकाङ्क्षया पर्यलोकिता यू एस् - इरानराष्ट्रयोः शान्तिचर्चा अनिर्णयेन समाप्ता। इस्लामबादे शनिवासरे आरभ्य २१ होराः यावत् दीर्घिता चर्चा परस्परारोपणप्रत्यारोपणेन विफला जाता। कतिपयविषयेषु मतैक्यं जातमपि होर्मुस् सामुद्रधुनिः, इरानस्य आणवप्रकरणम् इत्यादिषु विषयेषु मतसमन्वयं नाभवदिति सूच्यते।
आणवप्रकरणं परित्यक्तुं न सन्नद्धमिति इरानस्य मर्कटमुष्टित्वं शान्तिसन्धेः प्रतिकूलाय अभवदिति यू एस् संघनेता उपराष्ट्रपतिः जे डी वान्सः अवदत्। इराने विश्वासमर्पयितुं यू एसेन न शक्तमिति इरानीयसंघस्य नेता मुहम्मद बगेर घालिबाफनामकः प्रोक्तवान्।