OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, December 31, 2017

उत्तरकोरियादेशेनोक्तं २०१८ तमे वर्षे पुन: प्रक्षेप्यास्त्रपरीक्षणं करिष्यति 
पुरुषोत्तमशर्मा
          उत्तरकोरियादेशेन शनिवारे अमेरिकां संचेतयता प्रोक्तं यत्   ‘यावत् संयुक्तराज्यामेरिकाया: तस्य शक्तिशालिबलानां च न्यूक्लियर इति भय: भविष्यन्ति' तावत् उत्तरकोरिया निज प्रक्षेप्यास्त्रपरीक्षणं नैव निराकरिष्यति । 

     कोरियाया: आधिकारिकेन वार्ताभिकरणेन स्पष्टीकृतं यत् आगामि वर्षे अपि तत्रत्यप्रशासनं प्रक्षेप्यास्त्राणां परीक्षणं करिष्यति । अवधेयमस्ति यत्  उत्तरकोरियया सितम्बरमासे सर्वतो शक्तिसम्पन्नपरमाणुपरीक्षणं कृतमासीत् । एतदतिरिच्य जुलाई मासे नवंबरमासे च   समुद्रे त्रीणि परीक्षणानि कृतान्यासन्। तत: परं विविधपाश्चात्यदेशै: तस्मै व्यापारिकप्रतिबंधा: स्थापिता: आसन्, तत: परमपि उत्तरकोरियया स्वीय परमाणुकार्यक्रम: यथावत् प्रवर्तित:। 

           अत: अनुमीयते यत् उत्तरकोरिया निज प्रौद्योगिकीक्षमतामालक्ष्य उत्तेजित: वर्ते अमेरिकया सह युद्धं भविष्यति चेत् असौ तत् निराकरणाय सज्जित: विद्यते ।
अन्तर्जालीय क्रयविक्रये महती वञ्चना। २१७०० अभियाचनाः अस्मिन्  वर्षे। 
        नवदिल्ली> अन्तर्जालीय क्रयविक्रये महती वञ्चना  संभवति। अस्मिन् संवत्सरे २२७०० अभियाचनाः अस्मिन् वर्षे पञ्जीकृताः सन्ति इति इलट्रोणिक्स् आन्ट् इन्फर्मेषन् डेक्नोलजि मन्त्री रविशङ्करः राज्यसभायाम् न्यवेदयत्। क्रेडिट् कार्ट् , डेबिट्कार्ट्, इन्टर्नेट् बैंकिङ्, अन्तर्जाल क्रयविक्रयः इत्येतान् अनुबन्ध्य वञ्चना दोषारोपेण भवति अभियाचना । आवेदित अभियाचनानुसारं १५५ कोटि रुप्यकाणां वञ्चना अभवत् इति च मन्त्री अवदत्| वित्तकोश सेवनमण्डले सैबर् सुरक्षां भीषां च अधिकृत्य वित्तकोशेभ्यः विविध सर्वकारीय विभागेभ्यः च ज्ञानम् आवश्यकम् इति मन्त्रिणा सभायाम् उक्तम्।

Saturday, December 30, 2017

उत्तराखण्डे इस्लामधर्माध्ययनकेन्द्रेषु इतःपरं संस्कृतं च। 
          रुद्रापुरम् > धार्मिकं भिन्नतां कुत्सितचिन्तां वा विना संस्कृतभाषाम् अध्ययनविषयं कर्तुमुत्सहन्ते उत्तराखण्डराज्यस्थानि इस्लामधर्माध्ययनकेन्द्राणि [मद्रसाः]। आगामि अध्ययनसंवत्सरादारभ्य इस्लामविद्यालयेषु इतरेषु धर्माध्ययनकेन्द्रेषु च संस्कृताध्ययनम् आरप्स्यते। विदग्धान् उपयुज्य आयुर्वेदं योगं च पाठयिष्यति। 
          'मद्रासक्षेमसंघस्य' अधीने २०७ मद्रसाः उत्तराखण्डस्य विविधजनपदेषु विद्यन्ते। डराडूण् , हरिद्वार्, नैनिटाल्, उद्धंसिंहनगरम् इत्येतस्थासु मद्रसासु २५,००० छात्राः पञ्जीकृताः सन्ति। संस्कृताध्यापकनियुक्तिमभ्यर्थयन् मद्रसासंघाधिकारी मुख्यमन्त्रिणे त्रिवेन्द्रसिंह रावत् वर्याय निवेदनं समर्पितवान्। 
           धार्मिकविषयैः सह आङ्गलं, शास्त्रं, गणितमित्यादयः विषयाः छात्रैः शिक्षन्ते। तैः विषयैः  सह काञ्चित् प्राचीनभारतीयभाषामपि अध्यापयितुमुद्देश्यः एव एतादृशनिर्णयस्य हेतुरिति सङ्घस्य अध्यक्षः सिब्ते नबिवर्यः उक्तवान्। बहवः संस्कृतभाषापण्डिताः उत्तराखण्डस्थेस्लामजनेषु सन्तीति तेनोक्तम्। अस्य राज्यस्य द्वितीया अनुशासनभाषा भवति संस्कृतम्।
'एकात्मतायात्रा'यै प्रौढोज्वलप्रारम्भः।
आदिशाङ्‌करस्य जन्मभूमौ कलट्यां भाषामणः शिवराजसिंहचौहानः
         कोच्ची > नर्मदानद्याः तीरे ओङ्कारेश्वरे भारतीय सांस्कृतिकैक्यस्य प्रतीकत्वेन स्थाप्यमाणाय श्रीशङ्करस्य प्रतिमास्थापनाय तस्य कुलभवनाङ्णात् सङ्कलितया मृदा सह आदिशङ्करसन्देशवाहिनी नामिका एकात्मतायात्रा प्रारब्धा।
        मध्यप्रदेशसर्वकारेण स्थाप्यमाणायाः प्रतिमायाः निर्माणार्थं मुख्यमन्त्री शिवराजसिंहचौहानः सकुटुम्बं एरणाकुलं जनपदे पिरवं प्रदेशस्थं  आदिशङ्कराचार्यस्य मातृभवनं – मेल्प्पाष़त्तूरिल्लं – प्राप्य जगद्गुरोः अवतारेण पादस्पर्शनेन च पवित्रीकृतं मृदंशं सङ्कलितवान्। चिन्मया अन्तर्देशीयकेन्द्रमिति विख्याते आदिशङ्करनिलये यत्र आचार्यस्य जन्म अभवत् तस्मिन् प्रकोष्ठे वर्तमानस्य अनिर्वापितदीपस्य पुरतः पूजां प्रार्थनां च कृत्वा एव चौहान् वर्यः मृत्कुम्भं स्वीकृतवान्। 
         प्रतिमास्थापनात् पूर्वं मध्यप्रदेशसर्वकारः चिन्मयामिषन् संस्था च मिलित्वा एव आदिशङ्करसन्देशवाहिनी इति नाम्नि एकात्मयात्रा आयोजिता। मुख्यमन्त्रिणः धर्मपत्नी साधनासिंहचौहान् पुत्रः कार्तिकेयसिंहचौहान् इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
एकात्म यात्राया: जनवरी मासस्य नवमदिनाङ्के विदिशामण्डले प्रवेशः
-एम् पि इन्फो

  भोपालः>मध्यप्रदेशस्य मुख्यमन्त्री शिवराज सिंह चौहानेन समारब्धा  एकात्मयात्रा  जनवरी मासस्य नवमदिनाङ्के विदिशा मण्डले प्रवेशं करिष्यति च एकादश जनवरी मासे विदिशा जिला मुख्यालये जनसंवादस्य उपरान्ते भोपालाय प्रस्थानं करिष्यति। एकात्म यात्राया: भव्यम् आयोजनं च व्यापकं प्रचारं प्रसाराय ह्य: एसएटीआई इत्यस्य कैलाश सत्यार्थी सभागृहे गोष्ठी आहूता कृता। गोष्ठ्याम् एकात्म यात्राया: मार्गं सूचिकाया: विस्तृतं विवरणं दत्तम्। व्यापकं प्रचारं प्रसारस्य हेतु: ग्रामाणां भित्तिषु लेखनकार्यम्, मुख्य: जनसंवाद: स्थलेषु क्रियमाणा: व्यवस्थाभि: अवगत: कारित:।

  नगरपालिका अध्यक्ष: श्री मुकेश टण्डन: उक्तवान् यत् निकायं क्षेत्राणां सर्वेभ्य: वार्ड इत्येतेभ्य: एक: एक: कलश: पवित्रा मृत्तिका जनसंवाद: स्थलेषु संग्रहिता कारयिष्यते। निकायं क्षेत्रे यात्राया: भव्यं स्वागताय जनानाम् आह्वानं कृतम्। जिलाधीश: श्री अनिल सुचारी एकात्म यात्राया: मार्गं सूचिकाया: संबंधे विज्ञापितवान् यतृ नव जनवरी मासस्य प्रात:काले साँची त: एकात्म यात्रा विदिशा मण्डले प्रवेशं करिष्यति। नगरस्य विभिन्नं संगठनानि, सामाजिकं संस्थाभि: सह सह धार्मिकं संगठनानां प्रतिनिधय: यात्रायां सम्मेलिता: भविष्यन्ति। अस्मिन् काले विदिशा, गुलाबगंजं मैरिज गार्डन, बासौदा नौलखी मंदिरम्, सिरोंज श्री कृष्ण गौशाला, लटेरी थाना परिसरे जनसंवादा: भविष्यन्ति। विदिशायाम् एकादश जनवरी मासे मुख्य: संवाद: कार्यक्रम: भविष्यति। अस्मिन् कार्यक्रमे मुख्यमंत्री एवं राष्ट्रीय: स्वयंसेवक: संघस्य सरसंघचालक: सम्मेलितौ भविष्यत:।

गोष्ठ्यां विदिशा जिला व्यापारं महासंघस्य अध्यक्ष: श्री मुन्ना भैया जैन:, श्री संदीप डोंगर सिंह सहिता: अन्या: जनप्रतिनिधय:, गणमान्या: नागरिका: एवं यात्रा हेतु: नियुक्ता: ग्रामं समन्वयका: च विभिन्नं विभागानाम् अधिकारिण: कर्मचारिण: उपस्थिता: आसन्।

रसकणिका

बालकः - किमर्थं रोदिषि ??
बालिका- परीक्षायां न्यूनाः अङ्का लब्धाः मया अतः ...।
बालकः- तथापि कति अङ्का: प्राप्ता: ??
बालिका - केवलं 88 प्रतिशतम्..
बालकः- अयि! ईश्वरात् बिभेहि.....एतावतेषु अङ्केषु तु द्वौ बालकौ  उत्तीर्णौ भवितुं शक्नुतः ।

Friday, December 29, 2017

तलाखत्रितयनिरोधनविधेयकं लोकसभया अङ्गीकृतम्। 
                   नवदिल्ली > एकवारेण तखाखत्रयम् उक्त्वा वैवाहिकबन्धस्य निरासः [तलाख् इ बिद्दत्त्] अभिशंसापराधेन व्यवस्थाप्यमानं विधेयकं भारतलोकसभया अङ्गीकृतम्। विधेयकस्य व्यवस्थानुसारं तलाखत्रयमुक्वा विवाहबन्धस्य विच्छेदः क्रियते चेत् संवत्सरत्रयपर्यन्तं कारागारवासः आर्थिकदण्डश्च विधीयते। 
              केन्द्रमन्त्रिणा रविशङ्करप्रसादेन इदं विधेयकमवतारितम्। इदं विधेयकमनुसृत्य  वाक्यैः, [लिखित- वाचनरूपैः] इलक्ट्रोणिक् माध्यमैः , मार्गान्तरैः च क्रियमाणं तलाख् नीतिविरुद्धमस्ति। तलाखविधेयाः महिलाः तदाश्रिताः बालकाश्च  जीवनांशमर्हन्ति।
अफ्गानिस्थाने आत्मघात्याक्रमणं - ४० मरणानि। 
               काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरस्थे सांस्कृतिकनिलये गतदिने संवृत्ते आत्मघात्याक्रमणे चत्वारिंशत् जनाः हताः। पञ्चाशदधिकाः आहताः। आक्रमणस्य उत्तरदायित्वं इस्लामिकस्टेट् संस्थया स्वीकृतम्।  काबूलस्थानां इस्लामधर्मस्य षियाविभागानां सांस्कृतिककेन्द्रं 'ताबायान्' लक्ष्यीकृत्य आसीदाक्रमणम्।
पाकिस्थानेन कुल्भूषणस्य परिवारः अपमानितः; "देशः ऐकमत्येन तिष्ठतु”- सुषमा स्वराज्
लिषा सी. आर्

        नवदिल्ली> देशः ऐकमत्येन कुल्भूषण् जाधवस्य परिवारेण साकं तिष्ठतु इति विदेशकार्यमन्त्रिणी सुषमा स्वराज् महाभागया उक्तम्। पाकिस्थानः कुल्भूषण् यादवस्य परिवारं प्रति मानवबहुमतिं अलंघयत्। अमुं विषयमधिकृत्य भारतस्य प्रतिषेधः पाकिस्थानं प्रति प्रकटितः इति राज्यसभायां सा उक्तवती। जाधवस्य पत्न्याः मातुः च मङ्गलचिह्नानि, पत्न्याः सीमन्तस्थकुंकुमं च मार्जयित्वा विधवारूपेण कुल्भूषणस्य पुरतः अनयताम्। कुलभूषणस्य कुटुम्बस्य अपमानीकरणं पाक्किस्थानस्य लक्ष्यम्। पाक्किस्थानं विरुद्ध्य  प्रतिषेधः करोतु इति पार्ल्मेन्ट् समूहान् सा आह्वानं कृतवती।
 
      कुल्भूषणस्य पत्न्याः पादुके क्यामरा, चिप् इत्यादि उपकरणानि निवेशितः इति पाक्देशस्य आरोपणानि परिहासार्हाणि अयं पादुकं धृत्वा एव ते द्वे विमानमार्गेण यात्रां कृत्वा पाक्देशं गच्छतः। अस्य परिवारं प्रति पाक्देशस्य प्रवृत्तिः मनुष्यत्वरहितेन एव। साडिकायाः स्थाने 'साल्वार् कम्मीस्' धर्तुम् निर्बन्धिता अभवत् जाधवस्य माता। तयोः समीपे स्थितवन्तौ द्वौ पाक् अधिकारिणौ मराठीभाषायां भाषणं कर्तुं अनुज्ञा न दत्तवन्तौ, किन्तु पुनः मराठी भाषायां भाषणं कृतवती इत्यनेन इन्टेर्कोम् प्रवर्तनरहितम् अकुरुताम्। विपक्षदलनेता गुलांनबि आज़ाद् च पाक्देशस्य इदं हीनकृत्यं विमर्शितवान्। तैः देशस्य सर्वाः स्त्रियः। अपमानिताः इत्यपि सः अवदत् अन्ये सर्वे विपक्षदलनेतारः च पाक्देशस्य प्रवृत्तिं प्रति विप्रतिपत्तिं  सभायां उक्तवन्तः।

Thursday, December 28, 2017

ओखी दुरिताश्वासाय १३३कोटि रूप्यकाणाम् अनुज्ञा कृता। 
             अनन्तपुरी > ओखीचक्रवातदुष्प्रभावबाधितेभ्यः त्रयस्त्रिंशदधिकशतकोटि रूप्यकाणां साहाय्यम् अनुज्ञापयिष्यतीति केन्द्रसङ्घेन उक्तम्। ४२२ कोटिरूप्यकाणि राज्यसर्वकारेण अर्थितानि। केन्द्रगृहमन्त्रालयस्य उपसचिवस्य विपिन् मालिक् वर्यस्य नेतृत्वे आगतः सङ्घः त्रिधा विभज्य केरलस्य विविधेषु दुरन्तबाधितप्रदेशेषु सन्दर्शनमकरोत्। सन्दर्शनं पूर्तीकृत्य श्वः दिल्लीं प्रतिगमिष्यति।
सेन्ट् पीट्टेर्स् बर्गे विस्फोटः
लिषा सी.आर्
       मोस्को> रष्यायां सेन्ट् पीट्टेर्स् बर्ग् व्यापार केन्द्रे  आपन्ने विस्फोटे दश जनाः क्षतजाः अभवन्। विपुलापणकेन्द्रे अयं विस्फोटः जातः इति रष्यादेशस्य वार्तासंस्थया आवेदितः। किन्तु विस्फोटे कोऽपि  मृताः वा इति आवेदने नास्ति। विपुलापणकेन्द्रे सङ्क्रयणाय आगताः  जनाः एव विस्फोटनेन क्षतजाः। चत्वारः जनाः आतुरालये प्रविष्टाः। अयं विषयमधिकृत्य रष्यादेशस्य सुरक्षा अधिकाारिणा अन्वेषणं आरब्धम्। नववत्सरपर्वानुबन्धतया नगरेषु महान् जनसम्मर्दः आसीत्। एतान् जनान् उद्दिश्य आसीत् वा स्फोटः इति न व्यक्तः। स्फोटनानन्तरं प्रदेशात् जनाः निष्कासिताः। ’प्ररक्रे स्टोक्’ नाम विपुल्लापणकेन्द्रे एव स्फोटः जातः।
इस्रयेलः पलस्तीनः, एते द्वे राष्ट्रे भवतु - मार् पाप्पा 

'मार् पाप्पा'- वत्तिक्कान् राष्ट्रस्य सेन्ट् पीट्टेर्स् देवालये सम्पन्ने क्रिन्तु जयन्ती शिश्रूषामध्ये  येशुदेवस्य बलरूप प्रतिमां हस्ते आदाय )
             वत्तिक्कान् सिट्टी > इस्रायेल- पलस्तीनौ  उभौ राष्ट्रौ स्वतन्त्र राष्ट्रौ भूत्वा पश्चिम-एष्याखण्डस्य समस्यायाः परिहारः कर्तव्यः इति फ्रान्सिस् मार् पाप्पया उक्तम् । यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पेण  जरुसलें देशः इस्रायेलस्य राजधानित्वेन प्रख्यापितायां  अवस्थायां सङ्घर्षान् निर्मार्जयितुं शान्तिसंवादः पुनरारम्भणीयः इत्यपि मार्पाप्पवर्येण निर्दिष्टम्।
          इस्रयेलपालस्तीनयोः समस्यया जायमानकलहः अनुवर्त्यते चेत् पश्चिमेष्यायाः शिशवः एव कष्टतायां पतन्ति। अतः उभौ राष्ट्रौ अचिरादेव चर्चां कृत्वा तेनविषयपरिहाराय शुभ मार्गः भुयात् इति प्रार्थयामहे इति सन्दर्भेस्मिन्  पाप्पवर्येण उक्तम्। विश्वे सर्वत्र अशन्तिः वर्धते। युद्धभीषायाः वातः सर्वत्र वाति।  जायमानेषु  युद्धेषु शिशवः एव अधिकं कष्टम् आवहन्ति। तेषां निरालम्बानां शिशूनां मुखे मार्गालये प्रवेशं अलभमानस्य येशुदेवस्य एव मुखं दृष्टव्यम् इति तेन उद्बोधितम्।

Wednesday, December 27, 2017

अष्टनवति वयसि स्नातकोत्तर-बिरुदम्I
          पाट्ना (पाटलीपुत्रम्)> अर्थशास्त्रे अष्टनवति वयसि स्नातकोत्तर बिरुदम् सम्पादितवान्  राजकुमार वैश्यः नामकः लोकेतिहासपुस्तके स्थानं आवहति। ज्ञानार्जने वार्धक्यं न बाधा इति तेन प्रमाणीक्रियते। नालन्द ओप्पण् विश्वविद्यालयस्य भवति बिरुदम्। 
       १९४० तमे एषः नियमबिरुदं सम्पादितवान्। किन्तु कुटुम्बस्य आर्थिकक्लेशेन अध्ययनम् अनुवर्तितुम् अशक्तः आसीत्। अस्मिन्  वार्धक्येपि स्नातकोत्तरबिरुदाय पञ्जीकृतवान् इत्यनेन 'लिंका बुक् आफ्  वेल्ड् रेक्कोर्ड् मध्ये अस्य महोदयस्य नामः उल्लिखितः आसीत्।
नौकानिपातेन षट् बालकाः मृताः। 
         मलप्पुरं > केरले मलप्पुरं जनपदे चङ्ङरंकुलं प्रदेशस्थे तटाके नौका निपात्य षड्बालकाः मृताः। मृतेषु पञ्च परिवारैकभूताः भवन्ति। नरणिप्पुष़प्रदेशस्थे माप्पालिक्कल् भवने वेलायुधः [५५]  तस्य तथा सहोदरयोः च अपत्यैः साकं तटाकपरिदर्शनार्थं स्वस्यैव लघुनौकायां प्रस्थितः आसीत्। प्रातिवेशिकौ द्वौ बालकौ चास्ताम्। यात्रामारभ्य १५ मीटर् यावत् दूरे अतीते बालकाः नौकायाः  एकमेव पार्श्वमुपवेशिताः इति दुर्घटनाकारणमिति सूच्यते। नौका तु षण्णाम् उपवेशनपरिमिता आसीत्। तत्स्थाने नव जनाः आसन्निति च दुर्घटनाकारणं मन्यते। 
       धीवरः वेलायुधः तटाके नौकाचालने च परिचयसम्पन्नः इत्यतः बान्धवानां निरुत्साहवचनानि अनादृत्य स्वगृहमभ्यागतानां बालकानाम् अभिलाषपूर्तीकरणाय उद्युक्तः अासीत्। परन्तु दशकानां संवत्सराणाम् परिचयसम्पत्तिः तस्य धैर्यश्च निष्फलतां प्राप।

Tuesday, December 26, 2017

भारते प्रतिरोध-विश्वविद्यालयः स्थापयिष्यते।
           नवदिल्ली> प्रतिरोध मण्डेलेषु अधुनिकशिक्षा - नूतना साङ्केतिकता च लक्षीकृत्य भारतम् विश्वविद्यालयस्य स्थापनाय सन्नद्धम् अभवत्।  प्रतिरोधानुसन्धानं तथा नयतन्त्राध्ययनेन सह विविधाः विषयाः च अध्ययन विभागे अन्तर्भावयति। भारतीय राष्ट्रिय प्रतिरोध विश्वविद्यालयः इति विद्यालयस्य नाम निश्चितम्। गुड्गावस्थ बिमोल नाम देशे भविष्यति विश्वविद्यालयस्य केन्द्रः।  भारतस्य प्रप्रथमप्रतिरोधविद्यालयः भवति एषः। आगामि मन्त्रिसभा मेलने विश्वविद्यालयस्य प्रवर्तनाय अनुज्ञा लभतेI
हिमाचले जयराम् ठाक्कुरः मुख्यमन्त्री; शपथसमारोहः श्वः। 
        षिम्ला > हिमाचलप्रदेशे मुख्यमन्त्रिरूपेण भा ज पा सदस्यः जयराम ठाक्कुरः निर्णीतः। सप्ताहं यावत् अनुवर्तमानायाः परिचर्चायाः अन्ते एव जयरामस्य मुख्यमन्त्रिपदं प्रख्यापितम्। मुख्यमन्त्रिपदमलङ्कृतवान् प्रेम्कुमार् धूमालः अस्मिन् निर्वाचने पराजितः आसीत्। नियुक्तमुख्यमन्त्रिणः शपथसमारोहः श्वः षिम्लायां 'रिड्ज्' क्रीडाङ्कणे भविष्यति।
गुर्जरेषु विजय रूपाणि अद्य शपथं स्वीकरिष्यति।
         अहम्मदाबाद् > अद्य गुजरात्त् राज्यस्य  मुख्यमन्त्रिपदे शपथं कृत्वा आरुह्यते विजयरूपाणिना। उपमुख्यमन्त्री पदे नितिन् पट्टेलः च भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी, भा ज  दलस्य राष्ट्रियाध्यक्षः अमित् षा, भा ज  दलेन शासितराज्यस्य मुख्यमन्त्रिणः, केन्द्रमन्त्रिणश्च गान्धिनगरस्थ सचिवालय चत्वरे आयोक्ष्यमाणे मेलने भागभाजः भविष्यन्ति।
            राज्यपालः ओं प्रकाश् कोह्लीवर्यः शपथवाक्यं प्रवक्ष्यति। नूतनाङ्गानाम् मन्त्रिसभायाम् अधिकं प्राधिनिध्यं भविष्यति। जैनधर्मानुयायी भवति विजयरूपाणि।
रष्याराष्ट्रपतिनिर्वाचनम् पुटिनस्य प्रतियोगिनम् अयोग्यः अकरोत्।
         मोस्को> आगामि संवत्सरे प्रचरिष्ययमाणे राष्ट्रपति निर्वाचने स्पर्धितुकामो व्लाडिमिर्  पुटिनस्य प्रतियोगी अलक्स् सि नवोणिः अयोग्यः जातः।  रष्याराष्ट्रस्य निर्वाचनाध्यक्षेण अयोग्यत्वं ज्ञापितम् च। अलक्सि इत्याख्यस्य उपरि विद्यमानान् अपराधित्वााभियोगान् परिगणय्य एव आसीत् निर्वाचनायोगाध्यक्षस्य क्रियाविधयःI त्रिंशत् आयोगाङ्गेषु द्वादशानां मतः अलक्सिं विरुध्य आसीत्I एक चत्वारिंशत् वयस्कः अलक्सि नवोणिः सर्वजनिक-योगाः पदसञ्चलनादयाश्च नियमन्विरुद्धतया  आयोजिताः इत्यनेन कारागाारे ग्रहीतः।  अत एव निर्वाचने व्लाडिमिर् पुटिनः विजयी भविष्यति।
सरहस्यं जाधवस्य जीवनवृत्तम्। पाक् दृष्ट्या  गुप्तचर:  भारतीयदृष्ट्या वणिक्।
-पुरुषोत्तमशर्मा

        नवदिल्ली >महाराष्ट्रस्य साङ्गल्यां गतशताब्दीये सप्ततितमे वर्षे  अप्रैलमासस्य षोडशे दिनाङ्के लब्धजन्म: भारतीयनौसेनाया: प्राक्तन कमाण्डर् इति पदभाजनीभूत:   कुलभूषणजाधव: पाकिस्तानेन षोडशोत्तरद्विसहस्रतमे वर्षे मार्चमासस्य तृतीये दिनाङ्के बलूचिस्तानात् निगडितः आसीत्। पाकिस्तानेनाक्षिप्तं यदसौ भारतीयगुप्तचरः वर्तते, यो हि  (रिसर्च एंड एनालिसीस् विंग ) (रॉ) विभागाय कार्यं करोति स्म । 
        निगडनस्य 20 दिनानन्तरं  पाकिस्थानेन जाधवस्य स्वीकृते: तथाकथितं  वीडियो इति दृश्याङ्कनमपि प्रसारितमासीत् , तत: परं सार्धत्रिमासानन्तरं  अप्रैलमासस्य दशमे दिने  फील्ड्  जनरल् कोर्ट् मार्शल् इति न्यायालयेन तस्मै मृत्युदण्ड: श्रावितः।
ओडीषाराज्ये नालिकाकूपे पतिता बालिका रक्षिता।
          भुवनेश्वरम् > ओडीषादेशे नालिकाकूपे पतिता बालिका सप्तघण्टायाः प्रयत्नस्य अन्ते रक्षिता अभवत्। अङ्कुळ् जनपदस्य गुलासर् ग्रामे एव घटनेयं जाता। राधा साहु नामिका बालिका प्रभाते नववादने क्रीडा वेलायामेव नालिकाकूपे पतिता। अग्निशमनसेनान्यः अधिक-परिश्रमेण तां अरक्षन् । पञ्चदश-पाद-परिमितः आसीत् अयं नालिकाकूपः। तस्मिन् षट्पाद परिमिते गर्ते स्थगिता सा इत्येनेन सजीवं बहिरानेतुं प्रभवति इति अग्निशमन सैनिकाः अवदन्। कूपस्य समीपे अन्यत् गर्तं निर्माय तेनमार्गेण एव बालिकाम् अरक्षत् ।  कूपस्य पिधानं नासीत् इति एव घटनायाः कारणम् ।

Monday, December 25, 2017

दल्ली मेट्रोरेल् संस्थायाः 'मजन्त लैन्' मार्गः प्रधानमन्त्रिणा उद्घाटितः।
            नवदिली > दक्षिणदिलीदेशस्य कल्काजि तथा नोयिडा देशस्य बोट्टाणिक्कल् गार्डन् च मिथ संबन्ध्य भवति दिल्ली मेट्रोयान-संस्थायाः नूतनमार्गः। मजन्त लैन् इति नामाङ्कितः अयं मार्गः प्रधानमन्त्रिणा नरेन्द्र मोदिना उद्घाटितः। नोयिडातः ओख्ल पक्षिसङ्केतपर्यन्तं धाव्यमानं नूतनं मेट्रो रेल् यानं ध्वजवीजनेन उद्घाटितः च । अनन्तरं  प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथेन सह नोयिडातः पक्षिसङ्केतपर्यन्तं यात्रां कृतवान् ।
उपनिर्वाचने सफलतां प्राप्य भा ज पा, अरुणाचले बंगाले च कॉग्रस् दलस्य पराजयः
       नवदिल्ली>  कॉग्रस् दलात् द्वाै स्थानौ संगृह्य एकं प्रतिपाल्य च भा ज पा दलीयाः पुरोगच्छन्ति। इदानीम् अरुणाचलस्य ६० अङ्ग सभायां कॉग्रस्  एकाङ्गत्वेन परिणितम्। भा ज पा दलं एकोन पञ्चाशत् ( ४९) अङ्गैः परिपुष्टाः च।
          उत्तरप्रदेशस्य 'सिक्कन्द्र' मण्डलं भा ज पा दलेन परिपालितम्। भा ज पा दलस्य अजित् सिंहपालः 11,861 संख्यामितं सम्मतिं  अधिकं संप्राप्य विजयीभूतः। बंगाले सबाङ् मण्डले कॉग्रस् दलस्य पराजयः अभवत् 1957 आरभ्य काङ्ग्रस्‌दलस्य शक्तिकेन्द्रः आसीत् इदं मण्डलम् ।
समारब्धः कार्यानुभव-प्रशिक्षण-वर्गः
         त्रिश्शिवपेरुर्> केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे समारब्धःI डिसम्बर २५तः जनुवरि २ पर्यन्तं प्रचाल्यमानस्य वर्गस्यास्य उदघाटनं गुरुवायूर् परिसरस्य भूतपूर्व प्राचार्यः एम् ए बाबुवर्य: कृतवान्। दशदिनात्मकप्रशिक्षणे भारतस्य विभिन्नभागेभ्यः समागताः ४० अध्यापकाः भागं वहन्ति। प्रशिक्षणे संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगः अपि अस्ति।

Sunday, December 24, 2017

राजस्थाने लोकयानं नदीं पतित्वा ३३यात्रिकाः मृताः। 
        जय्पुर् > राजस्थानराज्ये  शतपादपरिमितात् सेतोः लोकयानं नदीं पतित्वा त्रयस्त्रिंशत् यात्रिकाः यमपुरिं प्राप्ताः। मथोपुरजनपदे सवायि डुबिग्रामे एवेयं दुर्घटना। नष्टनियन्त्रणं लोकयानं सेतोः आवेष्टकस्तम्भान् प्रभञ्ज्य 'बनास्' नदीं पतितमासीत्। 
         मृतेषु सप्त महिलाः चत्वारः बालकाश्च अन्तर्भवन्ति। यात्रिकेषु भूरिशः उत्तरप्रदेशतः मध्यप्रदेशतश्च सवायि मथोपुरस्थं रामदेवमन्दिरं  प्रस्थिताः तीर्थाटकाः आसन्निति आरक्षकाधिकारिणा अनूपसिंहेन उक्तम्। लोकयानस्य अमितशीघ्रता हिमाच्छादनं च दुर्घटनाहेतुरिति मन्यते।