OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 8, 2018

कलोत्सवनगर्यां संस्कृतप्रदर्शिनी अद्भुतम् उद्पादयति। 
-दिलीप् वयनाट्
नटी मालविका संस्कृत प्रदर्शिन्याः उद्‌घाटनं करोति।
     तृश्शिवपेरूर् > केरलस्य कौमारकलोत्सवेन जाज्वल्यमानायां 'पूरनगर्यां' संस्कृतोत्सवमनुबध्य विशिष्टा संस्कृतप्रदर्शिनी सज्जीकृता। ५८ तम राज्यस्तरीय विद्यालय-कलोत्सवस्य प्रथमवेदिकायाः समीपे आरब्धा प्रदर्शिनी प्रशस्तचलनचित्राभिनेत्र्या मालविकया उद्घाटिता।
         अत्र संस्कृतभाषायां विद्यमानानां मासिकीनां तथा 'आन्ट्रोय्ड् आप्' सङ्केतानां, चित्रीकरणानां, ह्रस्वचलच्चित्राणां, संस्कृतचलच्चित्राणां च विपुलं प्रदर्शनं सम्पद्यते।संस्कृतोत्सवायोजनसमित्याः नेतृत्वे 'भरतमुद्रा' संस्कृतमासिक्याः 'नः लैव् सान्क्रिट्' इत्यस्य च सहयोगेनैव प्रदर्शिनी समायोजिता।  केरले प्रथमतया अस्ति  शताधिकसंस्कृतमासिकीनाम् एतादृशं प्रदर्शनं सज्जीकृतम्। तथा च समीपकाले एव प्रदर्शनाय सिद्ध्यमानानां संस्कृतचलच्चित्राणां ह्रस्वचित्राणां विवरणात्मकप्रदर्शनानां च लघुविवरणमपि प्रदर्शितानि सन्ति।
 एकताया: अखण्डतायाश्च कृते संस्कृतम् आवश्यकम् - एस.डी. शर्मा
वार्ताहर: - दीपक् शास्त्री

              जयपुरम् > संस्कृतभारती जयपुरपक्षत: जनवरीमासस्य षष्टदिनाङ्के मानसरोवरे स्थिते आदर्श-विद्या-मन्दिरे "जनपद-संस्कृतसम्मेलनस्य" आयोजनम् अभवत्। सम्मेलनस्य अध्यक्षरूपेण राजस्थान-सार्वजनिक-प्रन्यास-मण्डलस्य सभापति: श्री एस.डी.शर्मणा उक्तं यत् भारतस्य एकताया: अखण्डतायाश्च कृते संस्कृतभाषायाः आवश्यकता अस्ति। भारत: पुनः विश्वगुरु करणार्थं संस्कृतस्य प्रचार-प्रसार: आवश्यक: वर्तते। मुख्यातिथि: आईएएस के.के.पाठकेन संस्कृतभाषायाः महत्वविषये उक्तं यत् संस्कृतभाषाया: विश्वस्य सर्वा: भाषा: उद्धृताः सन्ति। एषा अद्यतनीया वैज्ञानिकि भाषा अस्ति आगामी बौद्धिकतायाः युगः वर्तते। अस्मिन् अवसरे प्रान्तस्य सम्पर्कप्रमुख: श्रीरघुवीर शर्मणा उक्तं यत् अद्यतनीय समाजे यदि संस्कृतं व्यवहारिकी भाषा न भविष्यति तर्हि आगामी संतते: संस्कृते: नाशस्य आक्षेप: अस्माकमुपरि आरोपिष्यति।
                कार्यक्रमस्य संयोजनम् श्रीप्रकाश शर्मणा कृतम्। समारोहे अन्ये अतिथय: जगद्गुरु-अवधबिहारी देवाचार्य:, संस्कृत-भारत्या: क्षेत्रीय-सङ्गठनमंत्री: श्री हुल्लास चन्दः, आरएसएससङ्गठनस्य क्षेत्रीय-बौद्धिकशिक्षणप्रमुख: श्रीकैलाशचन्दः, राजस्थानसंस्कृतविश्वविद्यालयस्य साहित्यविभागस्य सहायकाचार्य: डॉ• उमेश नेपाल: च एते सर्वेSपि स्वकीय विचारान् अप्रकटयन् । उभयो: सत्रयो: मध्ये मनमोहकेन सांस्कृतिककार्यक्रमेण सर्वेषाम् जानानाम् मानोरंजनं कारितम्। सम्मेलनस्य प्रतिवेदनं जयपुरमहागरस्य मन्त्री: श्रीसन्तोष: शर्मणा प्रस्तुतम्। सम्मेलनस्य सम्पूर्ण-प्रबंधनं जयपुर-प्रान्तस्य प्रचारप्रमुख: जनपदस्य पालक: च घनश्याम हरदेनियाँ इत्येनेन दृष्टम्। कार्यक्रमे प्रान्तमंत्री: श्री चन्द्रशेखर: शर्मा, प्रान्तप्रचार-प्रमुख: , विभाग-संयोजक: श्रीकानाराम जाट:, सहसंयोजक: श्रीअभिनव उपाध्याय:,सम्मेलन समिते: अध्यक्ष: बिरदीचन्द चौधरी: उपाध्यक्ष: अजय रावत:, अमितभारद्वाज:, मनीषशर्मा, महेंद्रशर्मा, रविशर्मा, दीपकशास्त्री आदय: बहवः कार्यकर्तार: संस्कृतप्रेमिणश्च उपस्थिता: आसन्।

Sunday, January 7, 2018

उत्तरभारते अतिशैत्येन ७१ मरणानि। 
         लख्नौ > उत्तरप्रदेशसहितेषु उत्तरभारतराज्येषु अतिशैत्यं प्रबलमनुवर्तते। उत्तरप्रदेशे गतदिने न्यूनतमः तापमानः डिग्रीत्रयपरिमितः आसीत्। विविधेषु जनपदेषु अतिशैत्यं शीतवायुवातनं च वर्तते।  यूपि राज्ये इतःपर्यन्तं ७१ जनाः अतिशैत्येन मृतिमुपगताः। सर्वकारस्य निर्देशमनुसृत्य वीथीपार्श्ववासिनाम् अनाथानां कृते अभयस्थानानि सज्जीकृतानि।
गोखाद्यकुम्भकोणं - लालुप्रसादस्य सार्धत्रिसंवत्सराणां कारागारदण्डः। 
           राञ्ची > गोखाद्यकुम्भकोणविषये द्वितीये व्यवहारे आर् जे डि दलस्य अध्यक्षः तथा बीहारस्य भूतपूर्वमुख्यमन्त्री लालुप्रसादयादवः सार्धत्रिसंवत्सराणां कारागारवासाय दशलक्षं रूप्यकाणां आर्थिकशुल्काय च दण्डितः। राञ्चीस्थस्य सविशेषसिबिऐ न्यायालयस्यायं विधिः। लालुं विना इतरे १५ पुरुषाः अपि दण्डिताः। 
        पशुपरिपालनपरिचयः वर्तते इत्यतः अपराधिनां विवृतं कारागृहम् उचितमिति न्यायाधीशेन शिवपालसिंहेन निरीक्षितम्। लालुप्रसादः अधुना व्याजविधेयकानि उपयुज्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि अपहृतवान् इत्यस्मिन् व्यवहारे दण्डितः सन् राञ्च्यां 'बिर्सा मुण्डा' सेन्ट्रल् कारागृहे बन्धितः अस्ति।

Saturday, January 6, 2018

अन्तर्जालस्य शक्तिः वर्धापयितुम् बृहत्तरः उपग्रहः विक्षिप्यते- ऐ एस् आर् ओ।
‍    नवदिल्ली > प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'डिजिट्टल् इन्त्या' योजना सक्षात्कर्तुमुद्दिश्य बृहत्तमः उपग्रहः विक्षेपणाय सज्जः अभवत् । षट् टण् भारमितः अस्य नाम जि साट्ट् ११ इति एवI भारतेन निर्मितेषु उपग्रहेषु अधिक-भारयुक्तः उपग्रहः भवति अयम् । ग्राम ग्रामान्तरेषु उपग्रहाधिष्ठितः अन्तर्जालसेवा उत्कृष्ठरीत्या  प्रदातुं शक्यते अनेन।
       फ्रञ्च् एरियन् ५ इति उपग्रह विक्षेपणिम् उपयुज्य भविष्यति विक्षेपणम् । ५०० कोटि रुप्यकव्ययेन निर्मिते उपग्रहे चतुर्मीट्टर् बृहद्दीर्घाकारेण निर्मितः चत्वारि सौरोर्जपुटानि सन्ति। भारतेन इतःपर्यन्तं विक्षिप्तानां  उपग्रह-वार्ता-विनिमयोपग्रहाणाम् आहत्य या क्षमता अस्ति सा क्षमता अस्य उपग्रहस्य अस्तीति अस्य विशेषता।.
 भारतं गतचतुस्संवत्सरेभ्यः न्यूनतमं वृद्धिमानमुपगच्छति। 
           नवदिल्ली > वर्तमाने आर्थिकसंवत्सरे भारतस्य आर्थिकवृद्धिः प्रतिशतं ६.५ परिमितं न्यूनीभविष्यतीति 'सेन्ट्रल् स्टाटिस्टिक्स्' कार्यालयेन अनुमीयते। गतचतुर्षु संवत्सरेषु भविष्यमाणं न्यूनतमं वृद्धिमानं [जि डि पि] भविष्यति एतत्।   मुद्रानिरासस्य अनन्तरं जि एस् टि शुल्कविन्यासस्य आयोजन  च भारतीयार्थिकव्यवस्थायाः पश्चाद्गमनस्य कारणमिति सामान्यतया निर्णीयते।
नवं दशरूप्यकपत्रं अवतरिति।     
लिषा सि आर्
          नवदिल्ली> भारतीय रिज़र्व् बैंक् नव दशरूप्यकचीकाः अवतरति। महात्मागांधी श्रेणिस्थानि नूतनानि रूप्यकपत्राणि  चाकलेयस्य कपिशवर्णयुक्तानि भवन्ति। रुप्यकपत्राणां पृष्टभागे  अशोकचक्रस्य चित्रं च आलिखितम्।
        प्रथमे  वारे शतकोटिः रुप्यकपत्राणि एव अवतार्यन्ते। इदानीं प्रचलितानां  दशरूप्यकाणां पत्राणांं उपयोगः अनुवर्तयितुं शक्नुमः इति भारतीय रिज़र्व्  बैंक् संस्थया  ज्ञापितम्। २००५ तमे वर्षे एव इदानीं प्रचाल्यमानानां रुप्यकपत्राणां रूपरचना अभवत्।
केरलस्य 'पूरनगर्याम्'  कौमारोत्सवस्य अद्य प्रारम्भः।
      तृश्शिवपेरूर् > एष्याभूखण्डस्य बृहत्तमा कौमारमेला इति प्रसिद्धा केरल-राज्यस्तरीय विद्यालयकलोत्सवः अस्मिन् वारे पूरनगरी  (उत्सवनगरी) इतित प्रसिद्धे तृश्शिवपेरूर् नगरे षष्ठदिनाङ्कादारभ्य दशमदिनपर्यन्तं प्रचलिष्यति। ५८ तमा राज्यस्तरीयोत्सवः भवत्ययम्।
            'तेक्किन् काट्' क्रीडाङ्कणे सज्जीकृतायां मुख्यवेदिकायां अद्य प्रभाते दशवादने मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं करिष्यति। विजयिनां कृते प्रथम-द्वितीयादि स्थाननिर्णयः नास्ति। प्रतिशतं ८० अङ्काः यैः प्राप्स्यन्ते तेषां सर्वेषां  'A' Grade तथा चषकश्च  लभते।
कोलाहलेन सभाक्रमाः  स्तंभनं क्रियते इति राज नीतिः न। - वेङ्कय्यनायिडु:
         प्रतिषेधप्रक्रमाणाम् आयोजनेन विधानसभायाः प्रवर्तनेषु विघ्नं कृताः सामाजिकाः स्वात्मचिननं करणीयम् । सभायाः स्तम्भनं  सर्वदा क्रियते इत्येतत् न शोभना राजनीतिः। राज्यसभाध्यक्षः वेङ्कय्यनायिडुः उक्वान्I विधानसभायाः शीतकालीनोपवेशनस्य समापनात् पूर्वं भाषमाणः आसीत् उपराष्ट्रपतिः। प्रधानमन्त्री अपि अवसरेस्मिन् सन्निहितः आसन् । सभायाः ३४ मूल्यभूताः प्रवर्तनहोराः एवं  विपक्षिदलानां कोलाहलेन विनष्टाः इति उपराष्ट्रपतिना उक्तम्।
सभाङ्कणं राजनैतिक दलानां कलहप्रदर्शनाय वेदिका मा भवतुI पौरधर्माणां पालनमेव अस्माकं कर्तव्यम् इति च तेन उक्तम् I

Friday, January 5, 2018

शिला तैलस्य मूल्यं त्रिंशन्मासाद् उच्चावस्थायां - सर्वेषां मूल्याधिक्यं फलम्
      दोह > राष्ट्रान्तर-विपण्यां शिलातैलस्य मूल्ये वर्धनं गतेभ्यः त्रिंशत् मासेभ्यः उच्चस्थरे अभवत् । 'ब्रेन्ट् क्रूड'स्य मूल्यं  गत दिने बारल् मितस्य (१५९ लिट्टर्) ६८.१३ डोलर् अभवत्। २०१५ मेय् मासस्य मूल्यक्रमे एव अधुनातन व्यापारः प्रचलति। तस्मिन् समये मूल्यम् बारल् परिमितस्य ६८.१९ डोलर्  आसीत्I 'ओपेक्' राष्ट्राणि तथा रष्या  च उत्पादने नियन्त्रणमकरोत् इत्यनेन, इतरे प्रमुखोत्पादकराष्ट्रे इराने सम्पन्नानि आक्रमणानि च मूल्यवर्धनस्य कारणत्वेन उच्यते। एष्या प्रत्यांश विपण्यां सम्पन्नं सूचिकावर्धनम् , अमेरिक्का, जापानः जर्मानी राष्ट्रेभ्यः लभ्यमानं अनुकूलं आर्थिकावेदनं च शिलातैलस्य मुल्यवर्धनाय साहायकानि कारणानि अभवन्।

Thursday, January 4, 2018

भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।
भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।

Wednesday, January 3, 2018

त्रितलाखविधेयकम् अद्य राज्यसभायाम्। 
              नवदिल्ली > एकवारतलाखत्रितयं अभिशंसापराधीयमानं विधेयकमद्य राज्यसभायां प्रस्तूयते। राज्यसभायां शासनपक्षस्य सुदृढा भूरिसंख्यता नास्तीत्यतः सर्वकारेण अनुरञ्जनश्रमः आरब्धः। परन्तु कोण्ग्रस् दलनेतृत्वे विपक्षदलैः विधेयकं 'सेलक्ट् कम्मिट्टि' समक्षसमर्पणाय  निर्देष्टुं निर्णयः कृतः।
सचिवालयेषु उपस्थितेः पञ्जीकरणं तर्जनीग्राही उपयुज्य प्रारब्धम् ।
                अनन्तपुरी> केरलस्य सचिवालये तर्जनीग्रहीम् उपयुज्य सर्वकारीयोद्योगिनां पञ्जीकरणं समारब्धम्। उद्योगिनां निष्कृतिः पञ्जीकरण-संविधानेन निबद्धः इत्यनेन सर्वे यथाकालं कार्यालये प्रविष्ठाः।  केचनानां विलम्बः अभन्। रेल्यानानि बिलम्बेन धावन्ति इत्येनन एव भवन्ति केचनानां विलम्बः। मन्त्रिणां  वैय्यक्तिक-कार्यकर्तॄणां कृते पञ्जीकरणे निर्बन्धः नास्ति। तथापि  केचन जनाः आंगुली पञ्जीकरणं कृतम् । मन्त्रिणः प्रधानसचिवः च  पञ्जीकरणात् विमुक्ताः। पञ्जीकरणोपकरणानि बहिः स्थापितम् इत्यनेन पञ्जीकरणानन्दरं केचन अन्यत्र गच्छन्ति। एतत् अपि परिहरणीयः अस्ति
परिसमाप्तः कार्यानुभव प्रशिक्षणवर्ग:
         त्रिश्शिवपेरूर्> राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे डिसम्बर 24तः समारब्ध:  केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: जनुवरि 2 दिनाङ्के परिसमाप्तःI  दशदिनात्मकप्रशिक्षणवर्गस्यास्य समापनसत्रे संस्कृतसंवर्धनप्रतिष्ठानस्य निदेशक: श्रीमान् चान्दकिरणसलूजा महोदय: समारोपभाषणमकरोत् । यदि संस्कृतं संस्कृतेन पाठयामः तर्हि संस्कृतस्य भविष्यम् उज्ज्वलॅ भविष्यति। तत् कार्यम् अध्यापकाधीनमेवl तदर्थमुपकारकमेवायंवर्गः। गुरुवायूर् परिसरस्य प्राचार्यस्य श्री - के पी केशवन् महोदयस्याध्यक्षे प्रवृत्तोऽयं कार्यक्रम: ॥

Tuesday, January 2, 2018

वेदगणितस्य साहाय्येन क्क्वाण्डम् कम्पूट्टिङ् गवेषणम् आरब्धम्।
डॉ पि के शङ्करनारायणः
            नवदिल्लि>भारतेषु नवसाङ्गेतिकविज्ञानमण्डले क्वाण्डम् विद्यायाः प्रवेशः। केन्द्र-शास्त्रसाङ्गेतिक -मन्त्रालयस्य अधीने वर्तमानम् क्वाण्डम् इन्फरमेषन् सयनस् आन्ड् डेक्नोलजि (QISAT) भवति अस्य नेतृत्वे। अनया संस्थया पूर्वमेव एदर्थम् निर्देशाः स्वीकृताः आसीत्।
          विविध सूप्पर् सङ्गणनम्  अपि अतिरिच्य क्वाण्डम् कम्पूट्टर् प्रवर्तते। साधारणतया कम्पूट्टर् यन्त्रद्वारा गणनावसरे बैनरिसंविधान-सहित बीट्ट् संविधानस्य उपयोगः प्रचलति। किन्तु  क्वाण्डे तु क्युबीट्टस्य उपयोगः भवति । उदाहरणतया अतीव  राससंयुक्तस्य घटना, प्रवर्तनं च विशदीकर्तुम् अत्यल्पसमयम् पर्याप्तम् ।
           उत्‍कृष्टयुक्त औषधस्य निर्माणम् अनेन साध्यम्। भारतमागतः सत्यनादल्ले अस्य सङ्गणकस्य भविष्यक्काल साध्यतां शलखितवान् । एतदर्थम् वेदगणितस्य योजनमपि ते चिन्तयन्तः सान्ति ।
सिन्धूनदीजलं पाकिस्थानाय प्रदातुं प्रक्रमाः दृढीक्रियते।
         काश्मीरम्> सिन्धू नद्याःजलं काश्मीरस्य कुतुवजनपदे संभरणं कर्तुं पद्धतिः आयोक्ष्यते भारतेन। भारतं प्रति आतङ्कवाद प्रसारणं कुर्वाणं पाकिस्थानं प्रति नयतन्त्रतले सुबलाः प्रक्रमाः स्वीकरोतिI षष्ट्यधिक एकोन विंशतिशततमे (१९६०) भारत पाकिस्थानौ मिलित्वा कृत सन्धिपत्रानुसारं सिन्धूनद्याः पोषकनद्याः जलं पूर्णतया उपयोक्तुम् अधिकारः भारतस्य अस्ति। सन्ध्यनुसारं एव पोषकनद्याः जलस्य उपयोगः क्रियते । सीमामुल्लंख्य नद्याः प्रवाहः स्तगयितुमुद्दिश्य लघुलघु सेतवः निमीय ३०००० हेक्टर्मितं भूमिः जलसेचनेन पुष्टीकरोति । द्विशतं मेगा वाट् विद्युच्छक्तिः च उत्पादयितुं च नवीनया याेजनया शक्यते। केन्द्र-जल-विभव आयोगेन पद्धतिः सर्वकारस्य पुरतः समर्पितः अस्ति।

Monday, January 1, 2018

आविश्वं जनाः नवसंवत्सरस्य स्वागतम् अकुर्वन्I  
               भारतसमयः सायं सार्धत्रिवादने पसफिक् समुद्रे किरिबात्ति द्वीपे आसीत् २०१८ संवत्ससरस्य प्रथम सन्दर्शनम्। तत्रत्यानां जनानाम् उपचारान् स्वीकृत्य ततः सार्ध चतुर्वादने न्यूसिलन्टस्य समावत्तिदेशे समागतः  संवत्सरः। ओक् लान्टस्य कै स्तम्भं परितः पञ्चनिमेषपर्यन्तं जायमान विस्फोटकादि आह्लाद निमिषेण दशसहस्रशाः जनाः २०१८ संवत्सरं स्वागतमकुर्वन्। 
एक घण्डाभ्यन्तरे ओस्ट्रेलिया देशस्य सिड्णि मेल्बण् नगरं प्रापवान् संवत्सरः।  विस्फोटकेन इन्द्रचापरूपं विरच्य आसीत् तत्रत्यानां स्वागत-समारोहः। अनन्तरम् एक घण्डाभ्यन्तरेण चीना, सिंहपुरम्, इन्टोनेष्या बंग्लादेशं च संक्रम्य भारतदेशं प्राप्तः।  भारतस्य प्रधान नगरेषु तारनिशादयः आयोजिताः आसन्।  भारतीयानाम् अर्घ्योपचारक्रमानास्वाद्य सार्ध एकवादने दुबाय् नगरं प्राप्तः।
 एक घण्डाभ्यन्तरेण मोस्को, माण्ड्रिड् च । यामस्य अन्तिमकालांशे सार्धचतुर्वादने रेम् नगरे पारीसे च प्राप्तः नवसंवत्सरः। पञ्च चत्वारिंशत् वादने लन्टनस्थाः तेषां स्वागतं सानन्दम् अकुर्वन्। इदानीं समयः सार्धदशवादनः अमेरिक्कां प्राप्य तत्रत्यानां स्नेहोष्मलतां लब्ध्वा सानन्दमास्वाद्य व्याप्यतेकालः विश्वमखिलम्।


सर्वेषां कृते सम्प्रतिवार्ता-पत्रिकायाः शुभकामनाः। गुरुपादैः अनुगृहीताः वयं भवन्तं अभिवादयामहे। 
“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता| आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं
जपुरे आवासीय संस्कृतभाषाबोधनवर्गस्य उद्घाटनम् जातम्
-दीपक्  शास्त्री
             जयपुरम्>स्कृत-भारती जयपुरविभागेन आवासीय-संस्कृत-भाषाबोधन-वर्ग: दिसम्बरमासस्य त्रिंशद्दीनाङ्कत: जनवरीमासस्य षड्दिनाङ्कपर्यन्तम् आयोज्यमानोऽस्ति। वर्गस्य उद्घाटनं रविवासरे प्रातः नववादने आदर्श- विद्यामन्दिरे, किरणपथ मानसरोवरे जातम्। उद्घाटनसत्रे मुख्यातिथिरूपेण स्थानीय:पार्षद: श्रीविष्णु लाटा, वर्गाधिकारीरूपेण श्रीप्रकाश शर्मा, जयपुरप्रांतस्य मन्त्री श्रीचन्द्रशेखर शर्मा, जयपुरविभागस्य सहसंयोजक: श्री अभिनव उपाध्यायश्च मञ्चे आसन्। कार्यक्रमस्यारम्भ: सरस्वतीवन्दना-ध्येयमन्त्र-वर्गगीतैश्च विधाय सञ्जातः। कार्यक्रमस्य मंचसञ्चालनम् रविशर्मणा कृतम्।
अतिथि जनै: संस्कृतं कथं जनभाषा भविष्यति? संस्कृतं किमर्थम् आवश्यकम्? वर्तमाने संस्कृतस्य का स्थितिः? संस्कृतज्ञानां किं दायित्वम्? इत्यादिकं सर्वं विषये सम्यक्तया आलोचितम्। श्रीविष्णु लाटा महोदयेन शिक्षार्थिन: संस्कृतं आध्यात्मिकञ्च प्रति प्रेरिता:। शिबिरस्य प्रतिवेदनं श्री प्रकाशशर्मणा उक्तम् अन्ते च सर्वेषां आगन्तुकानां धन्यवादज्ञापनम् कृतवान्। वर्गेस्मिन् राजस्थानराज्यस्य अनेकेभ्यः जनपदेभ्य: शिक्षार्थिन: भागं स स्वीकुर्वन्ति।
        उद्घाटनावसरे जयपुरप्रांतस्य सहमंत्री श्रीहजारी बैरवा, जयपुरप्रान्त-प्रचारप्रमुख: श्रीघनश्याम हरदेनिया, प्रान्त-सम्पर्कप्रमुख: श्रीरघुवीर शर्मा, जयपुरविभाग-संयोजक: श्रीकानाराम जाट, जयपुरमहानगर-मंत्री श्रीसन्तोष शर्मा, सहमंत्री श्रीमनोज शर्मा अन्ये च कार्यकर्तार: आसन्।

Sunday, December 31, 2017

जनपदेषु आदर्शप्रतिनिधिसभा आवश्यकी- नरेन्द्रमोदी।
लिषा सी आर्
    नवदिल्ली> भारतीय युवत्वस्य शक्तीकरणाय सर्वेषु जनपदेषु आदर्श प्रतिनिधिसभायाः आयोजनं आवश्यकमिति प्रधानमन्त्री नरेन्द्रमोदी। २०२२ तमे वर्षे "नवभारतम्’ इति आशयस्य साक्षात्कारणाय युवजनानां योगदानं आवश्यकमेव। अस्मिन् विषये आशय रूपीकरणाय एव आगस्त् मासस्य पञ्चदशा दिनाङ्के आयोक्ष्यमाणाः आदर्श प्रतिनिधिसभायाः लक्ष्यमिति ’मन् की बात्’ नाम प्रतिमास आकाशवाणी कार्यक्रमे  मोदी अवदत्।
  ’’सर्वेषु जनपदेषु प्रतिनिधिसभाया: समरम्भभः आवश्यकः। अष्टादश-पञ्चविंशति वयस्काः  युवजनाः एव प्रतिनिधिसभायाः अङ्गाः। नवभारतस्य निर्माणाय सहायकाः आशयाः निर्देशाः च तैः प्रतिनिधिसभायां वक्तव्यः।  २०२२ संवत्सरात् पूर्वमेव अस्माकं स्वातन्त्र्यसमरसेनानिभ्यः विभावितः भारतस्य निर्मार्णाय अस्माभिः  प्रयत्नः करणीयः इति मोदी अवदत्। सम्मतिदानाधिकारस्य विनियोगस्य आवश्यकतां अधिकृत्य मोदीना युवजनाः स्मारिताः।  जनतन्त्रव्यवस्थायाः मूलशक्ती एव  सम्मतिदानाधिकारः। अस्माकं मध्ये अतिप्रधान दिनमेव श्वः, जनुवरी १। एकविंशति तमे शतके जनिमलब्धान् सर्वान्‌  जनान्‌  जनतन्त्रव्यवस्थायाः भागं स्वीकर्तुं अहं स्वागतीकरोमि। लक्षशानां जनानां जीवने प्रकाशं प्रसारयितुं एकं सम्मतिदान प्रदानेन  शक्यते। देशस्य व्यव्स्थायाः परिवर्तनं कर्तु अपि अनेन शाक्यते इति च सः महोदयः अवदत्।
भारतस्य विप्रतिपत्या पालस्थीनेन सयीदेन साकं वेदिकायां भागं स्वीकृतः राजदूतः पाकिस्थानात् प्रत्याहूतः।
 वार्तालेखिका - लिषा सि आर्

         इस्लामाबाद्>  मुम्बै भीकराक्रमणस्य सूत्रधारेण हाफिस् सायिदेन साकं वेदीकायां भांगं  स्वीकृतः राजदूतः वलीद् अबु अली पालस्तीन् राष्ट्रेण प्रत्याहूतः। अस्मिन् विषये खेदभावं प्रकाश्यानन्तरमेव  तैः राजदूतस्य प्रत्याहूतविषयं  विज्ञापितम्।  लष्करेताेयिबानाम भीकरदलस्य  सहस्थापकः हाफिस् सयिदेन साकं पालस्तीन् देशस्य राजदूतः सामन्यजनानां पुरतः  प्रत्यक्षः अभवत् इत्यनेन कारणेन भारतदेशः पालस्तीनं प्रति प्रतिषेधः प्रकाशितवन्तः।  दिफा पाकिस्थान् कौण्सिल् नाम सयिदस्य राजनैतिकदलस्य नेतृत्वे आयोजितस्य पदसञ्चलनस्य उद्घाटन समारोहे आसीत् इस्रायेलस्य राजदूतस्य  भागभाक्तम् ।
 भारतदेशं विरुध्य तिष्ठन्तः चत्वारिंशत्  दलानां संयुक्तसंरभः एव 'दिफा इ पाकिस्थान्'।
        इस्रायेल् देशस्य राजधानीं जरुसलें प्रति स्थानान्तरीकरणं विरुध्य इस्लामिक् उच्चकोटी कर्तुं प्रधानमन्त्री षाहिद् खाक्वन् अब्बासियाः उपरि सम्मर्दं रूपीकरणाय आसीत् पदयात्रायाः आयोजनम्  यू.एन्, यू.एस्. च राज्यान्तरभीकरपट्टिकायां नामाङ्कितेन सयीदेन  साकं राजदूतस्य सान्निध्यं भारतीयनेतृणां मध्ये अत्भुतं उत्पादयत् ।  यू.एन् सभायां सम्पन्ने जरुसलों विषये कृतमतदानसन्दर्भे पालस्तीनदेशं अनुकूल्य  भारतदेशस्य मतदानानन्तरमेव आसीत्  राजदूतस्य इयं प्रवर्तिः।
विज्ञप्तिवाक्येषु बद्धः उपराष्ट्रपतिरपि। शून्यां पेटिकां लब्ध्वा वञ्चितः।
नवदिल्ली> विज्ञप्ति-वाक्यानां वञ्चनायां अयम् अपि वञ्चितः इत्युच्यते उपराष्ट्रपतिना वेङ्कय्यनायिटुवर्येण उक्तम्। शरीरस्य भारं न्यूनीकर्तुम्  उपकारकम् इत्युक्त्वा विज्ञापिता औषधगोलिकां क्रेतुम् उद्युक्तो भूत्वा १२३० रुप्यकाणि नष्टानि इति वेङ्कय्य महोदयेन उक्तम् । व्याज विज्ञप्तीनां निरोधनाय क्रियाविधयः विलम्बं विना स्वीकरणीयः इति निदेशः सर्वकाराय दातुं सन्दर्भे आसीत् उपराष्ट्रपतेः इदं ज्ञापनम्।
मानवजीवनसंरचना अपि शासनकर्तॄणाम् उत्तरदायीत्वम् - शिवराजसिंहचौहानः। 
           कालटी > न केवलम्  आतुरालयानां विद्यालयानां सेतूनां च निर्माणं किन्तु मानवजीवनसंरचना अपि शासनाधिकारिणां धर्म इति मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंह चौहान् वर्यः उक्तवान्। जगद्गुरोः आदिशङ्कराचार्यस्य अद्वैतदर्शनं सामान्यजनान् यापयितुम् आरब्धाम् एकात्मतायात्रां प्रति सञ्जातान् विमर्शान् उद्दिश्य एव तस्य विशदीकरणम्। कालट्याम् आदिशङ्करजन्मभूमिमन्दिराङ्गणे भाषमाणः अासीत् चौहान्वर्यः। 
           श्रीशङ्करस्य अष्टाधिकशतपादपरिमितं लम्बमानां प्रतिमां मध्यप्रदेशस्य नर्मदातीरस्थे  ओङ्कारेश्वरे स्थापयितुं  कालटीतः लोहं मृत्तिकां च संगृह्यमाणः कार्यक्रमः आसीत्। "विविधदिशाभ्यः भारतस्य सांस्कृतिकसमन्वयं कृतवान् महात्मा भवति श्रीशङ्करः। सार्वलौकिकदर्शनानां परिप्रेक्ष्यं शङ्कराद्वैते अन्तर्भूतमस्ति। शङ्करदर्शनस्य उत्कृष्टाध्ययनाय प्रचारणाय च अद्वैतवेदान्तसंस्थाः आरप्स्यन्ते" मध्यप्रदेशमुख्यमन्त्रिणा प्रोक्तम्। 
         जन्मभूमिस्थानस्थे श्रीशारद-गणेश-श्रीशङ्कर सन्निधौ आर्याम्बास्मृतिमण्डपे च सः प्रार्थनानिरतः अभवत्। पण्डिट् वसन्तरावु गाड्गिलः, श्रृङ्गेरिमठं निदेशकः ए . सुब्र्हमण्य अय्यर्, पि ई बि मेनोन् , स्वामि परमानन्दसरस्वती इत्यादयः कार्यक्रमे$स्मिन् सन्निहिताः आसन्।