OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 11, 2018

अय्यम्पुष़ हरिकुमाराय दीनदयाल्जी प्रतिभापुरस्कारः।
      कोच्ची > संस्कतभाषायाः कृते इतःपर्यन्तं दत्तं समग्रं योगदानं परिगणय्य 'सम्प्रतिवार्ता'याः मुख्यसम्पादकाय अय्यम्पुष़ हरिकुमाराय दीनदयाल् जी प्रतिभापुरस्कारः दत्तः। सेवाभारती नामिकया सन्नद्धसेवासंस्थया दीयमानः पुरस्कार एवैषः।
     बाबा अटोमिक् रिसर्च् केन्द्रस्य  भूतपूर्वस्य वरिष्ठ वैज्ञानिकस्य डो. सि के के नायर् वर्यस्य अध्यक्षत्वेन रूपवत्कृतया समित्या एव पुरस्कारः निर्णीतः। कविः, संस्कृतगान- नाटकचयिता , संस्कृताध्यापकः, अध्यापक प्रशिक्षणमण्डले अनेन कृतानि श्रेष्ठयोगदानानि , आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कार निर्णयः।  
     सेवाभारत्याः अङ्कमाली शाखायाः  सांवत्सरीयाघोषकार्यक्रमे  डो. साजन् नारायणन् वर्येण   पुरस्कारः दत्तः।
राष्ट्रियसुरक्षाबलस्य विशेषकार्यक्रमस्योद्घाटनम् I
 -पुरुषोत्तमशर्मा
     हईद्राबादः > गृहमन्त्री राजनाथसिंह: प्रावोचत् यत् देशे जम्मूकश्मीरमतिरिच्य प्रवर्तमानातङ्किगतिविधय: निराकृता:। असौ गतदिने हैदराबादं निकषा ईब्राहिमपट्टनम् क्षेत्रे एन्.एस्.जी इति राष्ट्रियसुरक्षा-बलस्य विशेषकार्यक्रमम् उद्घाटयति स्म  सामाजिकसञ्चारतन्त्रे आतङ्किगतिविधीनां वृद्धिमालक्ष्य अमुना राष्ट्रियसुरक्षाबलं निजसामरिकप्रौद्योगिकक्षमतानां विस्ताराय समाकारितम् ।
नववर्षाणाम् प्रतीक्षायाः अन्ते भारतसेनायै गोलिकास्त्रप्रतिरोधककञ्चुकप्राप्तिः।

     नवदिल्ली> गोलिकास्त्रप्रतिरोधकं कञ्चुकमावश्यकमिति भारतसेनायाः अपेक्षा नववर्षानन्तरम् सफला भविष्यति। भौमसेनायै एकम् दशांशम् अष्ट षट् ( 1.86) लक्षं गोलिकास्त्रप्रतिरोधकानि कञ्चुकानि क्रेतुम् प्रतिरोधमन्त्रालयः कयाचित् निर्माणशालया सह सम्मतिपत्रे हस्ताक्षरमदात्। ''भारते निर्माणम्''(मेय्क् इन् इन्ड्या) पद्धतिमनुसृत्यैव एतत् सम्मतिपत्रम्। नवत्रिंशदुत्तरषट्शतम् कोटिव्ययेन एस् एम् पी पी प्रैवट् लिमिटड् नाम कार्यशाला एव एतादृशकञ्चुकानां निर्मातारः।वर्षत्रयाभ्यन्तरे एव सम्पूर्णकञ्चुकानां निर्माणं समाप्य सेनायै वितरणं कुर्यादिति कार्यशालावक्तारः अवदन्। सेनामानदण्डाननुसृत्यैव निर्माणम्। बालिस्टिकसंरक्षणाय प्रवर्तमानम् बोरोण् कार्बैड् सेरामिककञ्चुके भविष्यति। एतदतिरिच्य हार्ड् स्टील् कोर् गोलिकास्त्रेभ्यः अपि संरक्षणं दातुं समर्थकं एतत् कञ्चुकम्।

Tuesday, April 10, 2018

'कोमण् वेल्त्' क्रीडाचक्रे भारतं तृतीयस्थानेन पुरोगच्छति। 
         गोल्ड् कोस्ट् > आस्ट्रेलिया राष्ट्रे सम्पद्यमानायां कोमण् वेल्त् राष्ट्राणां क्रीडापरम्परायां दशसुवर्णकीर्तिमुद्राभिः भारतं तृतीयस्थानं प्राप्तम्। ३९ सुवर्णैः सह आस्ट्रेलिया १०६ मुद्राभिः प्रथमस्थाने गच्छति। २२ सुवर्णानि प्राप्य ६३ कीर्तिमुद्राः प्राप्तम् इङ्लण्ट् राष्ट्रं द्वितीयस्थानं च आवहति।
छात्रयानम् अगाधगर्ते पतित्वा ३० मृताः। 
        षिम्ला > हिमाचलप्रदेशे कान्ग्र जनपदे विद्यालयछात्राणां बस् यानं 'आन्पूर् - चम्पा' मार्गमध्ये शतपादपरिमितं गर्तं पतित्वा २७ छात्रान् अभिव्याप्य ३० जनाः मृत्युमुपगताः। यानस्य चालकः, द्वे  अध्यापिके च मृताः। १३ छात्राणाम् अवस्था गुरुतरा वर्तते। 
    'वासिर् रामसिंह पठानिय' स्मारकविद्यालये शिक्षणं कुर्वन्तः नीचतर - उच्चतर स्तरीयाः छात्राः   एव दुर्घटनां प्राप्ताः। विद्यालयात् प्रतिनिवृत्तवेलायामासीत् इयं दुर्घटना।
 संस्कृतभाषा अन्यभाषायाः उपरि तिष्ठेत् - डा ई एन् ईश्वरः
        कोच्ची>    संस्कृतभाषा अन्यभाषायाः उपरि तिष्ठेत्। तदर्थं सर्वत्र संस्कृतभाषायाः प्रचारणं प्रसारणं च भवेत्। विश्वसस्कृत प्रतिष्ठानस्य एरणाकुलं जनपदस्तरीय समापन मेलने भाषमाणः आसीत् सः। न तु केवलम् अनौपचारिकस्थरे औपचारिकस्थरेपि अस्माकं हस्तः स्थापनीयः। प्रथमकक्षायां संस्कृतं स्वीकर्तुं, दशमकक्ष्यानन्तरं द्वितीयभाषारूपेण संस्कृतं स्वीकर्तुं, Degree, MA इत्यादि उन्नतपठनेपि संस्कृतं पठितुं सर्वान् प्ररयेयुः। उन्नतपठने कलालयेषु सर्वत्र चयनानन्तरं अवशिष्ठाः एव संस्कृतपठनाय आगच्छन्ति। तादृशानां हस्ते अस्माकं भाषा कीदृशं भविष्यति? ईदृशच्छत्रान्  अनन्यगतिगतया  छात्राणां न्यूनतया च उत्तीर्णं कारयितुं अध्यापके सम्मर्थः भविष्यति। एवं उत्तीर्णाः छात्राः विद्यालये पाठयति चेत् संस्कृतस्य गतिः का भवति? पठन्तः छात्राः पुनः संस्कृतं पठिष्यति वा इति चिन्तनीयः विषयः। अतः योग्याः पठनियं चेत् संस्कृतम् अध्येतुम् आवश्यकता (demand) भवेत्। तदर्थं सर्वान् प्रेरयामः इति सः सर्वान् चोदितवान् ।   डा. एटनाट् राजन् महोदयस्य अध्यक्षः अभवत् ।  शान्तिमन्त्रम् उक्त्वा सम्मेलनस्य समापनम् अकरोत्। 
मनुष्यस्य प्रथमसौरदौत्याय 'नास' संस्था - विक्षेपणं जुलाई ३१ दिनाङ्के।
         वाषिङ्टण् > मनुष्यस्य प्रथम-सौरदाैत्येन इतिहासस्य भागं भवितुं प्रयतते 'नास' संस्थया। सूर्यस्य बाह्यावरणं लक्षीकृत्य नास संस्थायाः कक्षया सह जुलाई मासस्य एकत्रिंशत् (३१) दिनाङ्के आकाशबाणः उद्गगमिष्यति। डल्ट ४ इति नामाङ्कितः अति शक्तः आकाशबाणे एव  कक्षा प्रेषयिष्यति। सूर्यस्य 'कोरोणा' इति बाह्यकवचम् अधिकृत्य अध्येतुमेव अयं दौत्यम्। इतःपर्यन्तं मनुष्यनिर्मितः कोऽपि वस्तुः सूर्यस्य समीपम् एतावत् न गतवन्तः।

        सूर्यस्य उपरितलात् अष्टनवति लक्षं किलोमीट्टर् दूरे भ्रमणपथे एव कक्षा सूर्यं परितः भ्रमणं करोति। फ्लोरिडायाः केन्नडि स्पेस् सेन्टर् नाम केन्द्रतः  एव विक्षेपणं भविष्यति। इयं योजनायाः सप्तवर्षस्य आयुः निश्चितः अस्ति।  सूर्यस्य बाह्यकवचम् अधिकृत्य, तथा नक्षत्रान् अधिकृत्य इदानीं विद्यमान-संशय-निवारणं  च लक्ष्यम्। पार्कर् इति नामाङ्कितः कक्षातः भविष्यकाले बाह्याकाश सञ्चारी, क्रित्रिमोपग्रहः एतयोः सुरक्षायै उपकारकं  ज्ञानम् च लब्स्यते| 

Monday, April 9, 2018

संस्कृताध्यापकाः परिवर्तनवक्तारः भवन्तु इत्याह्वयन्तं SRG सत्रं समारब्धम्। 
सर्वशिक्षा अभियानस्य कार्याधिकारी प्रकाश् बाबुः उद्घाटनं करोति।
     गुरुपवनपुरिः> केरलस्य प्राथमिकस्तरीयाध्यापकानां कृृते विरामकालशक्तीकरणमनुबन्ध्य राज्यस्तरीय तज्ञसंघ सत्रं [SRG] समारब्धम्। गुरुपवनपुरसमीपस्थे शिक्षकसदने आयोजितां पञ्चदिनात्मिकां परिशीलनपद्धतिं तृश्शिवपेरूर् जनपदीयस्य सर्वशिक्षा अभियानस्य कार्याधिकारी प्रकाश् बाबुः उद्घाटनं कृतवान्।  अध्यापकाः सामान्यतया समाजपरिष्करणस्य सूत्रधारिणः भवन्ति। संस्कृताध्यापकाः विशिष्य सांस्कृतिकपरिवर्तनस्यापि हेतुभूताः  इत्यतः कक्ष्याप्रकोष्ठैः समाजपरिवर्तनस्य वक्तारः भवन्तु इति उद्घाटकेन उदबोधयत्।  उद्घाटनसभायां बि पि ओ जयावर्या अध्यक्षा अभवत्। एम् जि राजशेखरः, विपिन् तोमसः, जे श्रीलता , श्रीकुमारः इत्येते भाषणमकुर्वन्। परिशीलनं शुक्रवासरे समापयिष्यति।

Sunday, April 8, 2018

कृणमृगहत्याविषयः - सल्मान् खान् प्रतिभूदानेन मुक्तः। 
          जोध् पुरम्  > कृष्णमृगहत्याविषये पञ्चसंवत्सरात्मककारागारवासेन दण्डितः प्रसिद्धः 'बोलिवुड्' चलनचित्रनटः सल्मान्खानः प्रातिभाव्यं प्राप्तः। शास्त्रीयप्रमाणस्य अभावः अस्तीति सन्मान् खानस्य वादं परिगणय्य एव जोध् पुरं सेषन्स् नीतिपीठस्य अयमादेशः। अपि च सल्मान् खानः सद्गुणसम्पन्नः भवतीति नीतिपीठेन निरीक्षितम्।   तथा च येन न्यायाधीशेन  सल्मान्खानः पञ्चवर्षीयकारागारं प्राप्तः तस्य स्थानान्तरमभवत्। सल्मानः मुक्तश्च।
सि बि एस् इ प्रश्नपत्रस्य गुप्तस्रवणम् - हिमाचलप्रदेशतः त्रयः ग्रहीताः 
          नवदिल्ली> सि बि एस् इ द्वादशकक्ष्यायाः  आर्थशास्त्र  परीक्षायाः प्रश्नपत्रस्य गुप्तस्रवणानुबन्धतया त्रयः गहीताः । दिल्ली विरलपातकान्वेषण विभागेन  एते ग्रहीताः। ग्रहीतेषु  एकः अध्यापकः द्वौ विद्यालयोद्योगिनौ च सन्ति इति ए एन् ऐ वार्ता संस्थया आवेदितम्। 
          कर्कश-प्रश्नकरणाय एते अपराधिनः राजधानीं नीताः। प्रश्नपत्रस्य हस्तलेखन प्रतिलिप्यः एव गुप्तेन स्रविताः इति प्राथमिकान्वेषणे दृष्टाः आसन्। अन्वेषणस्य विशदांशाः दिनाभ्यन्तरेण आवेदयिष्यते इति दिल्याः आरक्षकेण उक्तम्।  विभागेन उक्तम्।

Saturday, April 7, 2018

रष्याविरोधे पुनरपि तीक्ष्णक्रियाकलापैस्सह यू एस्।
-रम्या पि यु
      वाषिङ्टण्> रष्यायाः राष्ट्रियनेतृन् व्यवसायिनः च विरुद्ध्य   साम्पत्तिकोपरोधैः सह यू. एस्। शुक्रवासरे रष्याव्यवसायिनामुपरि यू. एस् नूतनोपरोधम् प्रायुङ्क्त। यू एस् निर्वाचने रष्यायाः योगदानं सम्बद्ध्य वार्तासु बहिरागच्छत्सु सत्सु एव उपरोधसन्निवेशः। रष्याशासनव्यवस्थया सह साक्षात् सम्बद्धानामुपरि तथा यू एस् राष्ट्रपतेः डोनल्ड् ट्रम्पस्य निर्वाचनप्रचरणेषु भागं स्वीकृतवताञ्च उपरि भवति यू. एस् उपरोधः। निर्वाचने रष्यासान्निद्ध्यं संसूच्य वार्तानामागमनस्य पश्चात् तीक्ष्णक्रियाकलापानां कृते ट्रम्पस्य उपरि यू एस् कोण्ग्रसेन सम्मर्दः कृतः। वर्तमानक्रियाकलापानामपि एतदेव कारणम्। राष्ट्रस्य उन्नतवर्गस्य कृते रष्यासर्वकारस्य प्रवर्तनमिति  यू एय् ट्रषरी अध्यक्षः स्टीवन् म्यूचिनःदोषम्  आरोपयत्। अत्याचारैः धनसम्पादनशीलाः एते। इतरराष्ट्राणि अस्थिराणि कर्तुं रष्यायाः कार्यक्रमान् इतोपि अङ्गीकर्तुं न शक्यते इत्यपि सः सूचितवान्।।
अरुण् जय्ट्ली आतुरालयं प्रविष्टः। 
     नवदिल्ली > केन्द्रवित्तकार्यमन्त्री अरुण् जय्ट्लिवर्यः वृक्करोगबाधितः नवदिल्ल्याम् 'एयिम्स्' [All India Institute of Medical  Sciences] आतुरालयं प्रवेशितः। अद्य तस्य वृक्कसंक्रमणशस्त्रक्रिया भविष्यति। जय्ट्लिवर्यः उत्तरप्रदेशात् राज्यसभां प्रति चितः अपि सत्यप्रतिज्ञां न कृतवान्।
दिल्यां धूलीवातः वृष्टिः च २४ विमानामि  मार्गं भ्रंशीकृतानिI
             नवदिल्ली> अतिशक्तया धूलीवातेन दिल्लीं प्रतिगम्यमानानि चतुर्विंशति विमानानि मार्गाणि परिवर्तितानि। विमाननिलयात् गन्तव्यानां विमानानां गमनानि निवारितानि इति ए एन् ऐ द्वारा आवेदितम्।  ४८ होराभ्यन्तरे शक्तया वार्षायाः वातस्य च सन्दर्भः भविष्यति इति वातावरणविभागेन आवेदितम्।  मर्गस्य दृश्यः आच्छादयित्वा एव धूलीवातः वाति इत्यतः वाहन-गतागतानि स्तगितानि। वृष्ट्या अत्युष्णात् समाश्वासः अभवत्l

Friday, April 6, 2018

स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानामपि अधिकारोस्तीति सौदी राजकुमारः।। 
- रम्या पि यु
             वाषिङ्टण्> स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानाम् अधिकारोस्तीति सौदी किरीटावकाशी मुहमद बिन् सलमानराजकुमारः। यू. एस् मासिक्यै 'द अटलान्टिक् ' कृते  प्रदत्ते अभिमुखे भाषमाणः आसीत् सः। 'पलस्तीनीयानाम् इस्रायलीयानां च स्वीयमृत्तिकायां जीवितुम् अधिकारः वर्तते इति मे मतिः। किन्तु स्थिरतासंरक्षणाय तथा सामान्यगत्या बन्धस्थापनाय च एकं समाधानसम्मतिपत्रमावश्यकम् भवति। जेरुसलेमस्य  विशुद्धदेवालयस्य स्थितौ पलस्तीनजनतायाः अधिकारसम्बद्धविषयेषु च अस्माकम् आशङ्काः वर्तन्ते। एषास्माकम् मतिः। केभ्यश्चित् इतरजनेभ्यः अस्माकम् अभिप्रायभिन्नता नास्ति'। जूतानां स्वीयपैतृकभूमौ जीवितुम् अधिकारोस्तीति चिन्त्यते वेति प्रश्नस्य  प्रतिकरणाय सन्नद्धः आसीत् सः। सौदीराष्ट्रेण एतावता इस्रयेल् किञ्चन राष्ट्रत्वेन नाङ्गीकृतम्। साहचर्येस्मिन् राजकुमारस्य प्रस्तावनायाः मानाः नैकाः।
          सामान्यशत्रुम् इरानं विरुद्ध्य इस्रयेल् सौदी अरेब्यया साकं  प्रवर्तयेदिति ऊहानाम् मध्ये एव सलमानराजकुमारस्य प्रस्तावना। स्वीयराष्ट्रोपरिमार्गेण  इस्रयेलम् प्रति वाणिज्यविमानसेवनाय गतमासे सौदी अरेब्यया  अनुमतिर्दत्ता। चरित्रपरा  एषा घटना इति इस्रयेलस्य कर्मकरैः एषा विशेषिता।।
डिजिट्टल् करन्सि- सन्दर्भः अवलोक्यते इति आर् बि ऐ।
     नवदिल्ली> 'बिट् कोयिन्' विनिमयमधिकृत्य वार्ताः शङ्काः च वर्तमाने सति साख्यक स्प्यकपत्राणां सन्दर्भः अवलोक्यते केन्द्रवित्तकोश संस्थया (RBI) दिनद्वयं यावत् प्रचाल्यमान नीत्यावेक्षण समितेः ( Monetary Policy Committee - MPC) उपवेशने एव निर्देशः समभवत्I 
         विविधराष्ट्रेषु विद्यमानेन  केन्द्रवित्तकोशेन इदानीं डिजिट्टल् रुप्यकपत्रमधिकृत्य चिन्तयति। आर् बि ऐ उपनिर्देशकेन बि पि कनुंगो महाभोगन उच्चते यत् विविध-मन्त्रलयस्य प्रमुखानां  समितिः आयोज्य  विषयेस्मिन् अध्ययनं कृत्वा  अवेदनं समर्पितुं निर्दिष्टः अस्ति। जूण् मासस्य अन्तिमसप्ताहे आवेदनं पूर्णं भविष्यति।
९५० कोटि  निमूल्यीकृतानां  रुप्यकपत्राणां कृते नूतनानि दातव्यानि इति नेपालः।
       काठ्मण्ड्ड > पञ्चाशतधिक नवशतं कोटि रूप्यकाणां निर्मूल्यीकृतानि रुप्यकपत्राणि भारतेन प्रतिदातव्यम् इति नेपालः निवेदयति। नेपालस्य प्रधानमन्त्री के पि शर्म ओलि भारत सन्दर्शनवेलायां न्यवेदिष्यति इति रोयिट्टर्स् वार्ताहरसंस्थ्यया आवेदितः। नेपालराष्ट्रस्थ संस्थाः व्यक्तयः च पार्श्वे स्थापितानां मिर्मूल्यीकृत-रुप्यकपत्राणां कृते नूतनपत्राणि स्वीकर्तुमेव नेपालस्य उद्यमः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ख्यापितेन रुप्यकपत्र मिर्मूल्यीकरणेन नेपालः-भूटान्  राष्ट्रौ कष्टे पतितौ अभवताम्। एतौ वाणिज्याय भारतस्य रुप्यकपत्राणि अधिकतया उपयुज्यन्ते। शुक्रवासरे समारभ्यमाणे भारतसन्दर्शन सन्दर्भे प्रधानमन्त्री नरेद्रमोदिनं तथा राष्ट्रपति रामनाथ कोविन्दं च मिलित्वा चर्चां कर्तुमेव शर्मा ओलिना निश्चितम्।

Thursday, April 5, 2018

भारते ज्ञानार्जितेषु भूरिजनाः उद्योगाय अयोग्याः।
         नवदिल्ली > ज्ञानार्जिताः युवकाः अधिकाः भारते वर्तते चेदपि तेषु भूरि जनाः विशेषतया तन्त्रांशविधानशास्त्र बिरुदधारिणः उद्योगायै अयोग्याः इति अध्ययनफलं प्रकाश्यते। विश्ववित्तालयेन तथा सान्फड् विश्वाविद्यालयेन च संयुक्ततया कृताध्ययने एव इदं दृष्टम्।  भरतस्य कलाशालातः बहिरानीतेषु अधिकाः उद्योगार्थिनः गुणविशिष्टतारहिताः इति तैः आवेदिताः। एतान् अपेक्षया रष्या राष्ट्रस्य तथा चीनस्य छात्राः उत्कृष्टाः इति आवेदने अच्यन्ते|   
          विश्वार्थिकालयस्य साह्येन टेक्निकल् एजूकेषन् क्वालिट्टि इंप्रूव्मेन्ट् इति कार्यक्रमस्य  भागतया एव अध्ययनं प्रवृत्तम्। अस्मिन् सप्ताहे एव आवेदनं केन्द्र मानवसंसाधन-मन्त्रालयाय समर्प्यते। आराष्ट्रं पञ्चसहस्रं प्रथमवर्ष तृतीयवर्षीययोः बि टेक् छात्राणां तथा निजीय संस्थातः चितानां २०० छात्राणां च कुशलतां समीक्ष्य एव आवेदनं सज्जीकृतम्। तन्त्रांशविधानशास्त्राध्ययनाय बह्व्यः कलालयाः निजीय क्षेत्रे स न्ति इति गुणविशषस्य अपचयस्य कारणत्वेन आवेदने उच्यते।

Wednesday, April 4, 2018

१००% विजयस्यकृते  ९ छात्राः विद्यालयात् निष्कासिताः।
          कोष़िक्कोट्> प्रतिशतं शतं विजयलक्ष्यं निधाय छात्राः  निष्कास्यन्ते। परीक्षायाः  पञ्चीकरणात् पूर्वम् एवम् अधार्मिकप्रक्रमाः विद्यालयाधिकृतैः क्रियन्ते। अध्ययनक्षमताराहित्यमेव कारणत्वेन उच्यते।
         करिपूर् एयर्पोर्ट् सीनियर्सेक्कन्टरि विद्यालयस्य नवम कक्ष्यायाः नवविद्यार्थिनः एव एवं बहिष्कृताः । एका विद्यार्थिनी च बहिष्कृतेषु अन्तर्भवति। शिशुवाटिकातः इतःपर्यन्तम् अत्रैव पठिताः एते। राक्षाकर्तॄणां परिदेवनस्य आधारेण चैल्ड् लैन् संस्थया घटनायां छात्रेभ्यः सत्यवचः स्वीकृतः। सि बि एस् सि विद्यालये अध्ययनाय एते अयोग्याः इति उक्त्वा एव छात्राः निष्कासिताः इति प्रमुख मलयाल भाषा पत्रिकायाः वार्ताहरान् प्रति एकस्य रक्षाकर्ता मनोजः अवदत् ।
     केन्द्र-शिक्षाधिकार-नियमान् अनुसृत्य दशमकक्षापर्यन्तं छात्रेभ्यः प्राथमिकशिक्षा याः दायित्वं  विद्यालयस्येव I दशमकक्षायां परीक्षाविजयः प्रतिशतं शतं कर्तुमुद्दिशय एव नवमकक्ष्यायाः केचन छात्त्राः एवं निष्कासिताः।

Tuesday, April 3, 2018

कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे। शुभप्रतीक्षया भारतसङ्घः।
        गोल्ड् कोस्ट्> एकविंशति (२१)तम कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे ओस्ट्रेलिया राष्ट्रस्य गोल्ड् कोस्ट् नगरे भविष्यति।  उद्घाटन-समारोहानन्तरं गुरुवासरे भविष्यति स्पर्धायाः समारम्भः। एप्रिल् मासस्य पञ्चदश (१५) दिनानि यावत् अनुवर्तन्ते क्रीडाः। कायिकस्पर्धाः एप्रिल् मासस्य अष्टमदिनाङ्कात्  समारप्स्यते। १९५ पुरुषाः १०५ स्त्रियः च भारतस्य विजयम् अभिलष्य क्रीडाङ्कणे अवतरिष्यन्ति।
       बाट्मिन्टण् क्रीडायां पि वि सिन्धु, सैना नेवाल्,  किदम्बी श्रीकान्त्, मल्लयुद्धे साक्षी मालिक् , कायिकक्रीडायां नीरज् चोप्र, वि नीन, नयन जयिंस्। मुष्टिथुद्धे मेरिकोम्,  विकास् कृष्ण, गोलिका प्रहारे जितु राय् नामकेषु एतेषु क्रीडकेषु   एव भारतस्य प्रतीक्षा 
विन्नी मण्डेला दिवंगता। 
Photo from -5news
         जोहन्नास्बर्ग् > दक्षिणाफ्रिक्काराष्ट्रस्य विमोचननायकस्य तथा भूतपूर्वराष्ट्रपतेः नेल्सन् मण्डेलावर्यस्य पत्नीपदमलङ्कृतवती विन्नी मण्डेला सोमवासरे दिवं गता। दक्षिणाफ्रिक्कायां वर्तितं वर्णविवेचनम् अवसादयितुं प्रवृत्ते आन्दोलने  मण्डेलावर्येण सह वीन्नी अपि सेनामुखे कार्यनिरता आसीत्। नवदक्षिणाफ्रिक्काराष्ट्रस्य माता इति विशेषणं प्राप्तवती विन्नी दीर्घकालेन रोगबाधिता आसीत्। तद्राष्ट्रस्य प्रशस्ततमे  राजनैतिकदम्पती आस्तां नेल्सन् मण्डेला विन्नी मण्डेला च।
दलितसंघानां भारतबंदे व्यापकाक्रमणम्। नव जनाः मृताः।
      नवदेहली- दलितजनानां पीडा रोधन नियमस्य दुरुपयोगस्य निरोधनाय उच्चतरनीतिपीठेन कृतान् संस्तुतीन् विरुद्ध्य आयोजिते भारतबंदे व्यापकं आक्रमणम्।मध्यप्रदेशकाज्ये मृतानां संख्या पञ्च जाता। पञ्चाब् राजस्थानम् बिहार उत्चरप्रदेशः झारखण्ड् इत्यादि राज्येषु अपि अक्रमघटनाः अभवन्।

Monday, April 2, 2018

काश्मीरः - ११भीकराः व्यापादिताः, द्वयोः सैनिकयोः वीरमृत्युः। 
     श्रीनगरम् > भीकरैः सुरक्षासैनिकैश्च सह सञ्जातेन  परस्परद्वन्देन तद्देशीयानां प्रक्षोभेण च जम्मुकाश्मीरप्रदेशः कलुषितः वर्तते। षोपियान् अनन्तनाग् जनपदस्थेषु त्रिषु प्रान्तेषु सञ्जातेषु प्रतिद्वन्देषु द्वौ सुरक्षासैनिकौ एकादश भीकराश्च मृत्युमुपगताः। चत्वारः सैनिकाः आहताः। 
     भीकरहत्यावृत्तान्तश्रनणेन तद्देशीयाः जनाः प्रक्षोभोत्सुकाः अभवन्। तान् प्रतिनिवर्तयितुं सैन्येन कृतेन प्रयत्नेन द्वौ देशवासिनौ हतौ। पञ्चाशत्कल्पाः जनाः व्रणिताश्च। लष्कर् ई तोय्बा, हिस्बुल् मुजाहिदीन् भीकराः एव हताः। शनिवासरादारभ्य एव प्रतिद्वन्दाः आरब्धाः। नैकाः भीकराः परं निलीयमानाः वर्तन्ते इति सैनिकवक्त्रा उक्तम्।

Sunday, April 1, 2018

इन्डोर् देशे यानस्य घट्टनेन अट्टः पतितः दशजनाः मृताः।
   इन्डोर्> मध्यप्रदेश राज्यस्य इन्डोर् देशे शनिवासरे रात्रौ अट्टगृहम् भग्नीकृत्य दशजनाः मृताः। पञ्च भग्नावशिष्टानाम् अन्तर्भागे बद्धाः इति आवेदनम्  आगच्छति। रक्षाप्रवर्तनानि अनुवर्तन्ते। रक्षितेषु द्वयोः अवस्था गुरुतरा एव।  अट्टगृहस्य पार्श्वे यानस्य घट्टनेन अपघातः जातः इति अनुमीयते। शनिवासरे रात्रौ सपाद नववादने (९:१५ ) आसीत् दुर्घटना।  कालान्तरेण अपघातावस्थायां प्राप्तः अट्टः असीत् अयम्। अट्टे भक्ष्यशाला वासप्रकोष्टाः च आसन्। तृतीय चतुर्थ वितानयोः उषिताः वासगृहोद्योगिनः अन्ये कर्मकराः च मृतेषु अन्तर्भवन्ति। दुर्घटनानन्तरं विलम्बं विना आरक्षकवृन्दैः अग्निशमनसेनया च रक्षाप्रवर्तनानि आरब्धानि। रक्षाप्रवर्तनानि आवेक्ष्यते इति राज्यस्य मुख्यमन्त्री शिवराज् सिंह चौहानः अवदत्।
जन्मग्रामस्य प्रेममनुभूय मलाला। 
              इस्लामबाद् > तालिबान् भीकराणां गोलिकाशस्त्राणि अतिजीव्य बालिकानां शिक्षायै नखशिखान्तं प्रवर्तमानायै नोबल् पुरस्कारजेत्र्यै मलाला यूसफ् सायि वर्यायै पाकिस्स्थानस्थः 'स्वात्' जन्मग्रामः प्रेमादरान् समार्पयत्भु भुषुण्डिशस्त्रपीडनानन्तरं ब्रिट्टन् राष्ट्रम् अघिवसन्ती मलाला गतदिने एव पाकिस्थानं प्राप्तवती। तदनन्तरं पितृभ्यां सोदराभ्यां पाक्मन्त्रिणा मरियम् औरङ्गसीबिना च सह स्वात् ग्रामं सम्प्राप्ता मलाला एकहोरां यावत् बन्धुभिः सुहृद्भिः च साकं व्यवहृतवती।

Saturday, March 31, 2018

जलपतितानां रक्षायै सहसा जलावगाहनं मा कुरु। 
 सहनिमज्जनेन मृत्युः स्यात्। तन्निवारयितुं मार्गाः।
मुरली तुम्मारुकुटि
(संभाव्यमानदुर्घटापन्न्यूनीकरणसंस्थायाः मुख्यः मुरली तुमारुकुडी संयुक्तराष्ट्रसमित्यां वातावरणसंरक्षणविभागे कार्यं करोति।) विशेषावेदनम्।     
             प्रतिसंवत्सरं विरामकाले बहवः बालकाः जले निमज्जनं कृत्वा मृताः भवन्ति। ग्रीष्मकालीनमध्यविरामवेलायां  साधारणतया बहवः निमज्जनेन मृताः इति आवेदनं प्रकाशितम् आसीत्I अतः प्रति ग्रीरीष्मष्विरामकालः मम भीतिकालः च। मुरली तुम्मारुकुटि स्वस्य मुखपुस्तिका द्वाार प्राकाशयत् । आगामि दिनानि एतादृशेन आवेदनेन सह आगमिष्यन्ति। वीथिदुर्घटनानन्तरं मरणसंख्यायां द्वितीयं स्थानं जलनिमज्जितदुर्घटनायाः एव।  जले निमज्जनेन मृतेषु  अधिकाः केरलेषु एव। प्रतिसंवत्सरं द्विशतोत्तरैकसहस्रं (१२००) जनाः मृताः भवन्ति। मार्गापघातनिधनम् अधिकृत्य गणना आरक्षकाणाम् अन्तर्जालपुटे अस्ति।  किन्तु निमज्जनेन मृतानां विषये प्रमाणीकृता रेखा नास्ति। सुरक्षा-निर्वहणमण्डलस्य कर्मकुशलताभावस्य प्रमाणमेतत् इति तेन संसूचितम्। एतदधिकृत्य संक्षिप्तविवरणमपि नास्ति। जनानां मार्गसुरक्षाबोधनं इव अस्मिन् विषये बोधयितुं कापि योजना नास्ति।  निवारणनिधिःइव नास्ति धनम्। 
            अतः बालकबालिकेभ्यः तेषां रक्षाकर्तृणां च जलसुरक्षाम् अधिकृत्य यथाकालम् उपदेशः  दातव्यः इत्यपि सः महोदयः वदति। १.अन्येषां जीवरक्षायै जलं प्रति कुर्दनं मास्तु। २. वस्त्राञ्जल द्वारा, दीर्धकाष्ठद्वारा रज्जु द्वारा वा रक्षाप्रवर्तनं करणीयम् । ३ रक्षाकर्तृभिः सह जलावतारणं भवतु ४.अपरिचिते जले कदापि मा गच्छतु ।
५ जलतरणं  पाठयतु बालकान्। विराम कालः एतदर्थं उपयुज्यताम् । (आवेदनं - मुख पुस्तिकात)