OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 9, 2018

संस्कृताध्यापकाः परिवर्तनवक्तारः भवन्तु इत्याह्वयन्तं SRG सत्रं समारब्धम्। 
सर्वशिक्षा अभियानस्य कार्याधिकारी प्रकाश् बाबुः उद्घाटनं करोति।
     गुरुपवनपुरिः> केरलस्य प्राथमिकस्तरीयाध्यापकानां कृृते विरामकालशक्तीकरणमनुबन्ध्य राज्यस्तरीय तज्ञसंघ सत्रं [SRG] समारब्धम्। गुरुपवनपुरसमीपस्थे शिक्षकसदने आयोजितां पञ्चदिनात्मिकां परिशीलनपद्धतिं तृश्शिवपेरूर् जनपदीयस्य सर्वशिक्षा अभियानस्य कार्याधिकारी प्रकाश् बाबुः उद्घाटनं कृतवान्।  अध्यापकाः सामान्यतया समाजपरिष्करणस्य सूत्रधारिणः भवन्ति। संस्कृताध्यापकाः विशिष्य सांस्कृतिकपरिवर्तनस्यापि हेतुभूताः  इत्यतः कक्ष्याप्रकोष्ठैः समाजपरिवर्तनस्य वक्तारः भवन्तु इति उद्घाटकेन उदबोधयत्।  उद्घाटनसभायां बि पि ओ जयावर्या अध्यक्षा अभवत्। एम् जि राजशेखरः, विपिन् तोमसः, जे श्रीलता , श्रीकुमारः इत्येते भाषणमकुर्वन्। परिशीलनं शुक्रवासरे समापयिष्यति।