OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 10, 2018

मनुष्यस्य प्रथमसौरदौत्याय 'नास' संस्था - विक्षेपणं जुलाई ३१ दिनाङ्के।
         वाषिङ्टण् > मनुष्यस्य प्रथम-सौरदाैत्येन इतिहासस्य भागं भवितुं प्रयतते 'नास' संस्थया। सूर्यस्य बाह्यावरणं लक्षीकृत्य नास संस्थायाः कक्षया सह जुलाई मासस्य एकत्रिंशत् (३१) दिनाङ्के आकाशबाणः उद्गगमिष्यति। डल्ट ४ इति नामाङ्कितः अति शक्तः आकाशबाणे एव  कक्षा प्रेषयिष्यति। सूर्यस्य 'कोरोणा' इति बाह्यकवचम् अधिकृत्य अध्येतुमेव अयं दौत्यम्। इतःपर्यन्तं मनुष्यनिर्मितः कोऽपि वस्तुः सूर्यस्य समीपम् एतावत् न गतवन्तः।

        सूर्यस्य उपरितलात् अष्टनवति लक्षं किलोमीट्टर् दूरे भ्रमणपथे एव कक्षा सूर्यं परितः भ्रमणं करोति। फ्लोरिडायाः केन्नडि स्पेस् सेन्टर् नाम केन्द्रतः  एव विक्षेपणं भविष्यति। इयं योजनायाः सप्तवर्षस्य आयुः निश्चितः अस्ति।  सूर्यस्य बाह्यकवचम् अधिकृत्य, तथा नक्षत्रान् अधिकृत्य इदानीं विद्यमान-संशय-निवारणं  च लक्ष्यम्। पार्कर् इति नामाङ्कितः कक्षातः भविष्यकाले बाह्याकाश सञ्चारी, क्रित्रिमोपग्रहः एतयोः सुरक्षायै उपकारकं  ज्ञानम् च लब्स्यते|