OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 1, 2018

इन्डोर् देशे यानस्य घट्टनेन अट्टः पतितः दशजनाः मृताः।
   इन्डोर्> मध्यप्रदेश राज्यस्य इन्डोर् देशे शनिवासरे रात्रौ अट्टगृहम् भग्नीकृत्य दशजनाः मृताः। पञ्च भग्नावशिष्टानाम् अन्तर्भागे बद्धाः इति आवेदनम्  आगच्छति। रक्षाप्रवर्तनानि अनुवर्तन्ते। रक्षितेषु द्वयोः अवस्था गुरुतरा एव।  अट्टगृहस्य पार्श्वे यानस्य घट्टनेन अपघातः जातः इति अनुमीयते। शनिवासरे रात्रौ सपाद नववादने (९:१५ ) आसीत् दुर्घटना।  कालान्तरेण अपघातावस्थायां प्राप्तः अट्टः असीत् अयम्। अट्टे भक्ष्यशाला वासप्रकोष्टाः च आसन्। तृतीय चतुर्थ वितानयोः उषिताः वासगृहोद्योगिनः अन्ये कर्मकराः च मृतेषु अन्तर्भवन्ति। दुर्घटनानन्तरं विलम्बं विना आरक्षकवृन्दैः अग्निशमनसेनया च रक्षाप्रवर्तनानि आरब्धानि। रक्षाप्रवर्तनानि आवेक्ष्यते इति राज्यस्य मुख्यमन्त्री शिवराज् सिंह चौहानः अवदत्।