OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 11, 2018

अय्यम्पुष़ हरिकुमाराय दीनदयाल्जी प्रतिभापुरस्कारः।
      कोच्ची > संस्कतभाषायाः कृते इतःपर्यन्तं दत्तं समग्रं योगदानं परिगणय्य 'सम्प्रतिवार्ता'याः मुख्यसम्पादकाय अय्यम्पुष़ हरिकुमाराय दीनदयाल् जी प्रतिभापुरस्कारः दत्तः। सेवाभारती नामिकया सन्नद्धसेवासंस्थया दीयमानः पुरस्कार एवैषः।
     बाबा अटोमिक् रिसर्च् केन्द्रस्य  भूतपूर्वस्य वरिष्ठ वैज्ञानिकस्य डो. सि के के नायर् वर्यस्य अध्यक्षत्वेन रूपवत्कृतया समित्या एव पुरस्कारः निर्णीतः। कविः, संस्कृतगान- नाटकचयिता , संस्कृताध्यापकः, अध्यापक प्रशिक्षणमण्डले अनेन कृतानि श्रेष्ठयोगदानानि , आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कार निर्णयः।  
     सेवाभारत्याः अङ्कमाली शाखायाः  सांवत्सरीयाघोषकार्यक्रमे  डो. साजन् नारायणन् वर्येण   पुरस्कारः दत्तः।