OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 10, 2018

 संस्कृतभाषा अन्यभाषायाः उपरि तिष्ठेत् - डा ई एन् ईश्वरः
        कोच्ची>    संस्कृतभाषा अन्यभाषायाः उपरि तिष्ठेत्। तदर्थं सर्वत्र संस्कृतभाषायाः प्रचारणं प्रसारणं च भवेत्। विश्वसस्कृत प्रतिष्ठानस्य एरणाकुलं जनपदस्तरीय समापन मेलने भाषमाणः आसीत् सः। न तु केवलम् अनौपचारिकस्थरे औपचारिकस्थरेपि अस्माकं हस्तः स्थापनीयः। प्रथमकक्षायां संस्कृतं स्वीकर्तुं, दशमकक्ष्यानन्तरं द्वितीयभाषारूपेण संस्कृतं स्वीकर्तुं, Degree, MA इत्यादि उन्नतपठनेपि संस्कृतं पठितुं सर्वान् प्ररयेयुः। उन्नतपठने कलालयेषु सर्वत्र चयनानन्तरं अवशिष्ठाः एव संस्कृतपठनाय आगच्छन्ति। तादृशानां हस्ते अस्माकं भाषा कीदृशं भविष्यति? ईदृशच्छत्रान्  अनन्यगतिगतया  छात्राणां न्यूनतया च उत्तीर्णं कारयितुं अध्यापके सम्मर्थः भविष्यति। एवं उत्तीर्णाः छात्राः विद्यालये पाठयति चेत् संस्कृतस्य गतिः का भवति? पठन्तः छात्राः पुनः संस्कृतं पठिष्यति वा इति चिन्तनीयः विषयः। अतः योग्याः पठनियं चेत् संस्कृतम् अध्येतुम् आवश्यकता (demand) भवेत्। तदर्थं सर्वान् प्रेरयामः इति सः सर्वान् चोदितवान् ।   डा. एटनाट् राजन् महोदयस्य अध्यक्षः अभवत् ।  शान्तिमन्त्रम् उक्त्वा सम्मेलनस्य समापनम् अकरोत्।