OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 11, 2018

नववर्षाणाम् प्रतीक्षायाः अन्ते भारतसेनायै गोलिकास्त्रप्रतिरोधककञ्चुकप्राप्तिः।

     नवदिल्ली> गोलिकास्त्रप्रतिरोधकं कञ्चुकमावश्यकमिति भारतसेनायाः अपेक्षा नववर्षानन्तरम् सफला भविष्यति। भौमसेनायै एकम् दशांशम् अष्ट षट् ( 1.86) लक्षं गोलिकास्त्रप्रतिरोधकानि कञ्चुकानि क्रेतुम् प्रतिरोधमन्त्रालयः कयाचित् निर्माणशालया सह सम्मतिपत्रे हस्ताक्षरमदात्। ''भारते निर्माणम्''(मेय्क् इन् इन्ड्या) पद्धतिमनुसृत्यैव एतत् सम्मतिपत्रम्। नवत्रिंशदुत्तरषट्शतम् कोटिव्ययेन एस् एम् पी पी प्रैवट् लिमिटड् नाम कार्यशाला एव एतादृशकञ्चुकानां निर्मातारः।वर्षत्रयाभ्यन्तरे एव सम्पूर्णकञ्चुकानां निर्माणं समाप्य सेनायै वितरणं कुर्यादिति कार्यशालावक्तारः अवदन्। सेनामानदण्डाननुसृत्यैव निर्माणम्। बालिस्टिकसंरक्षणाय प्रवर्तमानम् बोरोण् कार्बैड् सेरामिककञ्चुके भविष्यति। एतदतिरिच्य हार्ड् स्टील् कोर् गोलिकास्त्रेभ्यः अपि संरक्षणं दातुं समर्थकं एतत् कञ्चुकम्।