OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 6, 2018

स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानामपि अधिकारोस्तीति सौदी राजकुमारः।। 
- रम्या पि यु
             वाषिङ्टण्> स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानाम् अधिकारोस्तीति सौदी किरीटावकाशी मुहमद बिन् सलमानराजकुमारः। यू. एस् मासिक्यै 'द अटलान्टिक् ' कृते  प्रदत्ते अभिमुखे भाषमाणः आसीत् सः। 'पलस्तीनीयानाम् इस्रायलीयानां च स्वीयमृत्तिकायां जीवितुम् अधिकारः वर्तते इति मे मतिः। किन्तु स्थिरतासंरक्षणाय तथा सामान्यगत्या बन्धस्थापनाय च एकं समाधानसम्मतिपत्रमावश्यकम् भवति। जेरुसलेमस्य  विशुद्धदेवालयस्य स्थितौ पलस्तीनजनतायाः अधिकारसम्बद्धविषयेषु च अस्माकम् आशङ्काः वर्तन्ते। एषास्माकम् मतिः। केभ्यश्चित् इतरजनेभ्यः अस्माकम् अभिप्रायभिन्नता नास्ति'। जूतानां स्वीयपैतृकभूमौ जीवितुम् अधिकारोस्तीति चिन्त्यते वेति प्रश्नस्य  प्रतिकरणाय सन्नद्धः आसीत् सः। सौदीराष्ट्रेण एतावता इस्रयेल् किञ्चन राष्ट्रत्वेन नाङ्गीकृतम्। साहचर्येस्मिन् राजकुमारस्य प्रस्तावनायाः मानाः नैकाः।
          सामान्यशत्रुम् इरानं विरुद्ध्य इस्रयेल् सौदी अरेब्यया साकं  प्रवर्तयेदिति ऊहानाम् मध्ये एव सलमानराजकुमारस्य प्रस्तावना। स्वीयराष्ट्रोपरिमार्गेण  इस्रयेलम् प्रति वाणिज्यविमानसेवनाय गतमासे सौदी अरेब्यया  अनुमतिर्दत्ता। चरित्रपरा  एषा घटना इति इस्रयेलस्य कर्मकरैः एषा विशेषिता।।