OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 2, 2018

काश्मीरः - ११भीकराः व्यापादिताः, द्वयोः सैनिकयोः वीरमृत्युः। 
     श्रीनगरम् > भीकरैः सुरक्षासैनिकैश्च सह सञ्जातेन  परस्परद्वन्देन तद्देशीयानां प्रक्षोभेण च जम्मुकाश्मीरप्रदेशः कलुषितः वर्तते। षोपियान् अनन्तनाग् जनपदस्थेषु त्रिषु प्रान्तेषु सञ्जातेषु प्रतिद्वन्देषु द्वौ सुरक्षासैनिकौ एकादश भीकराश्च मृत्युमुपगताः। चत्वारः सैनिकाः आहताः। 
     भीकरहत्यावृत्तान्तश्रनणेन तद्देशीयाः जनाः प्रक्षोभोत्सुकाः अभवन्। तान् प्रतिनिवर्तयितुं सैन्येन कृतेन प्रयत्नेन द्वौ देशवासिनौ हतौ। पञ्चाशत्कल्पाः जनाः व्रणिताश्च। लष्कर् ई तोय्बा, हिस्बुल् मुजाहिदीन् भीकराः एव हताः। शनिवासरादारभ्य एव प्रतिद्वन्दाः आरब्धाः। नैकाः भीकराः परं निलीयमानाः वर्तन्ते इति सैनिकवक्त्रा उक्तम्।