OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 31, 2018

जलपतितानां रक्षायै सहसा जलावगाहनं मा कुरु। 
 सहनिमज्जनेन मृत्युः स्यात्। तन्निवारयितुं मार्गाः।
मुरली तुम्मारुकुटि
(संभाव्यमानदुर्घटापन्न्यूनीकरणसंस्थायाः मुख्यः मुरली तुमारुकुडी संयुक्तराष्ट्रसमित्यां वातावरणसंरक्षणविभागे कार्यं करोति।) विशेषावेदनम्।     
             प्रतिसंवत्सरं विरामकाले बहवः बालकाः जले निमज्जनं कृत्वा मृताः भवन्ति। ग्रीष्मकालीनमध्यविरामवेलायां  साधारणतया बहवः निमज्जनेन मृताः इति आवेदनं प्रकाशितम् आसीत्I अतः प्रति ग्रीरीष्मष्विरामकालः मम भीतिकालः च। मुरली तुम्मारुकुटि स्वस्य मुखपुस्तिका द्वाार प्राकाशयत् । आगामि दिनानि एतादृशेन आवेदनेन सह आगमिष्यन्ति। वीथिदुर्घटनानन्तरं मरणसंख्यायां द्वितीयं स्थानं जलनिमज्जितदुर्घटनायाः एव।  जले निमज्जनेन मृतेषु  अधिकाः केरलेषु एव। प्रतिसंवत्सरं द्विशतोत्तरैकसहस्रं (१२००) जनाः मृताः भवन्ति। मार्गापघातनिधनम् अधिकृत्य गणना आरक्षकाणाम् अन्तर्जालपुटे अस्ति।  किन्तु निमज्जनेन मृतानां विषये प्रमाणीकृता रेखा नास्ति। सुरक्षा-निर्वहणमण्डलस्य कर्मकुशलताभावस्य प्रमाणमेतत् इति तेन संसूचितम्। एतदधिकृत्य संक्षिप्तविवरणमपि नास्ति। जनानां मार्गसुरक्षाबोधनं इव अस्मिन् विषये बोधयितुं कापि योजना नास्ति।  निवारणनिधिःइव नास्ति धनम्। 
            अतः बालकबालिकेभ्यः तेषां रक्षाकर्तृणां च जलसुरक्षाम् अधिकृत्य यथाकालम् उपदेशः  दातव्यः इत्यपि सः महोदयः वदति। १.अन्येषां जीवरक्षायै जलं प्रति कुर्दनं मास्तु। २. वस्त्राञ्जल द्वारा, दीर्धकाष्ठद्वारा रज्जु द्वारा वा रक्षाप्रवर्तनं करणीयम् । ३ रक्षाकर्तृभिः सह जलावतारणं भवतु ४.अपरिचिते जले कदापि मा गच्छतु ।
५ जलतरणं  पाठयतु बालकान्। विराम कालः एतदर्थं उपयुज्यताम् । (आवेदनं - मुख पुस्तिकात)