OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 7, 2018

रष्याविरोधे पुनरपि तीक्ष्णक्रियाकलापैस्सह यू एस्।
-रम्या पि यु
      वाषिङ्टण्> रष्यायाः राष्ट्रियनेतृन् व्यवसायिनः च विरुद्ध्य   साम्पत्तिकोपरोधैः सह यू. एस्। शुक्रवासरे रष्याव्यवसायिनामुपरि यू. एस् नूतनोपरोधम् प्रायुङ्क्त। यू एस् निर्वाचने रष्यायाः योगदानं सम्बद्ध्य वार्तासु बहिरागच्छत्सु सत्सु एव उपरोधसन्निवेशः। रष्याशासनव्यवस्थया सह साक्षात् सम्बद्धानामुपरि तथा यू एस् राष्ट्रपतेः डोनल्ड् ट्रम्पस्य निर्वाचनप्रचरणेषु भागं स्वीकृतवताञ्च उपरि भवति यू. एस् उपरोधः। निर्वाचने रष्यासान्निद्ध्यं संसूच्य वार्तानामागमनस्य पश्चात् तीक्ष्णक्रियाकलापानां कृते ट्रम्पस्य उपरि यू एस् कोण्ग्रसेन सम्मर्दः कृतः। वर्तमानक्रियाकलापानामपि एतदेव कारणम्। राष्ट्रस्य उन्नतवर्गस्य कृते रष्यासर्वकारस्य प्रवर्तनमिति  यू एय् ट्रषरी अध्यक्षः स्टीवन् म्यूचिनःदोषम्  आरोपयत्। अत्याचारैः धनसम्पादनशीलाः एते। इतरराष्ट्राणि अस्थिराणि कर्तुं रष्यायाः कार्यक्रमान् इतोपि अङ्गीकर्तुं न शक्यते इत्यपि सः सूचितवान्।।