OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 3, 2018

पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। 
   इस्लामाबाद्> भीकरदलैः पाकिस्थाने १२ विद्यालयाः अग्निसात् कृताः। एतेषु भूरि विद्यालयाः बालिकानां विद्यालयाः। PTI वार्ताहरसंस्थसा आवेदितम् एवम्। ग्लिल्गित् ब्लाट्टिस्ताने एव विद्यालयं विरुद्ध्य आक्रमणमभवत्। एतदनुबन्धतया शिक्षासंस्थायाः सुरक्षाः निश्चयेन  करणीयः इत्युक्त्वा जनाः प्रतिषिद्धाः। आक्रमणस्य दायित्वम् इतःपर्यन्तं यः कोपि न स्वीकृतः। बालिकानां विद्यालयं प्रति तालिबानस्यआक्रमणं साधारमिति पि टि एे द्वारा आवेदितम्।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता-३४
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम्" (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, प्रकाश रंजन मिश्र:, डॉ. नरेन्द्र: राणा च सन्ति । 

       अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकौ विजयकुमार: छिब्बर: - देहली, बिहारत: अभिषेककुमार: दूबे च स्त: ।  गतरविवासरे २९/०७/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २०५ जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --प्रथमा विजयिनी निरुपमा प्रधान: (ओडिशा) द्वितीय विजेता आशीष कंसवाल: (उत्तराखण्ड) तृतीय विजेता पंकज पाण्डेय: (हरियाणा) च ।
 आगामिनी प्रतियोगिता ०५/०८/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।

Thursday, August 2, 2018

यात्राविमाने अग्निबाधा १०३ यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः।
    मेक्सिक्को सिट्टी> मेक्सिक्को राष्ट्रस्य दुरङ्को क्षेत्रे १०३ यात्रिभिः सह गतं एय्रोमेक्सिक्को विमानं डयनावसरे विच्छिन्नम्। सर्वे यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः। प्रायः  ज्वलतः विमानात्  सर्वे स्वयं अवरोहणं कृतवन्तः आसन्। विमानं पूर्णतया अग्निना खादिम् अभवत्। वैमानिकः क्षतबाधितः भवति। ९७ यात्रिकाः लघु क्षतबाधिताः।
   गुवाडलुपे विक्टोरिया अन्ताराट्रिय व्योमयानक्षेत्रात् मेक्सिक्को सिट्टीं प्रति गतं विमानं अग्निबाधितम्।विमाने पूर्णरूपेण यात्रिकाः आसन्। प्रचण्डवायुः हिमखण्डपतनं वा  स्यात् दुर्घटनायाः हेतुः इति प्राथमिकं निगमनम्। व्योमयानक्षेत्रात् दश कि.मी दूरे दुर्घटना जाता।

Wednesday, August 1, 2018

इङ्ग्लैण्डभारतयो: क्रिकेटनिकषशृङ्खला अद्य प्रारभते
  बर्मिघम: क्रिकेटनिकषस्पर्धायां श्रेष्ठदलं भारतमद्य इङ्ग्लैण्डवृन्देन सह पञ्चस्पर्धान्विताया: शृङ्खलाया:  प्रथमस्पर्धायां खेलिष्यति। स्पर्धेयम् एजबेस्टन-क्रीडाङ्गणे भविष्यति। इङ्ग्लैण्डदलस्य सहस्रतमा इयं स्पर्धा विद्यते। ङ्ग्लैण्डप्रस्थानात् पूर्वं भारतीयदलनायकेन विराटकोहलिना मुख्यप्रशिक्षकेन रविशास्त्रिणा च प्रोक्तमासीत् यत् निकषशृङ्खलाम् अन्तिमक्रमे निर्धारणेन भारतीयक्रीडकेभ्य: सामञ्जस्य स्थापने साहाय्यं भविष्यति।
असमे पौरत्वरहितेषु भूतपूर्वराष्ट्रपतेः परिवाराङ्गाश्च! 
    नवदिल्ली > गतदिने प्रकाशितातायां राष्ट्रिय-पौरत्वपञ्जीकरण-नामावल्यां प्रमुखाः अप्राप्तस्थानाः सन्ति। भूतपूर्वराष्ट्रपतेः फक्रुदीन् अलि अहम्मदस्य सोदरः एक्रमुद्दीन् अलि अहम्मदः तस्य पुत्रः सियावुद्दीन् अलि अहम्मदः इत्यादयः पट्टिकायां स्थानं न प्राप्तवन्तः। तथा च भाजपादलसामाजिकः रमाकान्त दियोरी, ए ऐ यु   डि एफ् सामाजिक अनन्तकुमारः, उल्फा नेतुः परेष् बरुवा इत्यस्य पत्नी इत्यादयः बहवः प्रमुखाः तेषां परिवाराश्च नामावल्याः बहिः भवन्ति।
केरले कालवर्षो वृद्धिं प्राप।
     कोच्ची > सप्ताहद्वयम् अनवरतं वर्षितस्य अतिवृष्टेः क्लेशमोचनात्पूर्वं कतिपयदिनानां विरामानन्तरं पुनरपि केरले मण्सूण् वर्षा वृद्धिं प्राप्तवती। ओडीषातीरे सम्भूतः अन्तरिक्षावर्तः  भवति वृष्ट्याः कारणमिति पर्यावरणनिरीक्षणविभागः न्यवेदयत्।  वृष्ट्या सह अतिशक्तः चक्रवातः अपि भविष्यतीत्यतः धीवराः मत्स्यबन्धनाय समुद्रगमनात् निरुद्धाः सन्ति।
पञ्चवयस्कया द्विचक्रिका चालिता- पितुः यानचालनानुज्ञापत्रं स्तथगायिम्।
  कोच्ची> कोच्ची राजवीथिद्वारा पञ्चवयस्कायै पुत्रिकायै द्विचक्रिका चालनाय सन्दर्भं  प्रदत्तवान् इत्यस्मात् कारणात् पितुः यानचालनानुज्ञापत्रं निवारितम्। कोच्ची पल्लुरुत्ती देशीयः षिबु फ्रान्सिस् इत्याख्यः एव एवं गृहीतः। रविवासरे इडप्पल्ली नाम प्रदेशस्थ राजमार्गेण द्विचक्रिकायाम् गच्छन् आसीत्। तेन सह भार्या अपत्यद्वयं च आसन् । तस्मिन् सन्दर्भे पुरतः उपविशन्तीं पुत्रिकां यान चालनाय सन्दर्भं दत्तवान्। तदा पृष्टतः समागतः कश्चन यात्रिकः चलनखण्डं स्वीकृत्य सामूहिकमाध्यमेन प्रसारितम्।  दृष्ट्वैतत् यन्त्रवाहन -विभागाधिकारिणा तस्य यानचालनानुज्ञापत्रं स्थगायितम्
महिलानां विश्वचषकहॉकिस्पर्धायां भारतस्य विजय:
प्रागुपान्त्यचक्रे श्व: भारत-आयरलैण्डयो: स्पर्धा भविष्यति

      भारतीयमहिलादलं विश्वचषकहॉकिस्पर्धायां भव्यप्रदर्शनं विधाय प्रागुपान्त्यचक्रे प्रविष्टम् । गतरात्रौ क्रीडितायां स्पर्धायां भारतेन इटली वृन्दं त्रीणि शून्यमति गोलाङ्केन पराजितम् । रानी रामपालस्य नेतृत्वे 'क्रियतां म्रियतां' वेति स्पर्धायां प्रारम्भादेव भारतेनाक्रामकरीत्या क्रीडितम्।  भारतस्य लालरेमसियामी (नवमे निमेषे) नेहागोयल: (पञ्चत्वारिंशे निमेषे) वन्दना कटारिया च (पञ्चपञ्चारिंशे निमेषे) गोलाङ्कानि कृतवत्य:। 
    प्रागुपान्त्यचक्रे श्व: भारतीयमहिला: आयरलैण्डदलेन सह स्पर्धिष्यन्ति । प्रागुपान्त्यचक्रं भारताय सरलं नास्ति, यतोहि  समूहस्पर्धायां भारतेन आयरलैण्डदलात् पराजयं सम्मुखीकृतमासीत् । तथापि भारतीयमहिलानाम् आत्मबलं सुदृढमस्ति ।

Tuesday, July 31, 2018

असमराज्ये ४० लक्षं जनाः पौरत्वरहिताः।
  नवदिल्ली > असमराज्ये राट्रिय पौरत्वपञ्जीकरणस्य ‍(एन् आर् सि) प्रकाशितायाम् अन्तिमायां नामावल्यां  चत्वारिंशत् लक्षाधिकं जनाः पौरत्वविनष्टभीत्यां वर्तन्ते। ३.२९ कोटि जनाः पौरत्वाय अपेक्षिताः अपि २.८९  लक्षं जनाः एव नामावल्याम् अन्तर्भूताः। यदि पैरत्वं न प्रमाणीकृतं तादृशाः जनाः अनधिकृतोपनिविष्टाः इति मत्वा प्रतिनिवर्तनीयाः बन्धनीयाः वा स्युः इति जनानाम् आशङ्का। 
      किन्तु एषा प्राथमिकी नामावली भवति अन्तिमा नेति भारतस्य पञ्जीकरणाधिकारी सैलेषः न्यवेदयत्। पट्टिकातः बहिष्कृताः तेषां कृते पौरत्वं प्रमाणीकर्तुं एकोपि सन्दर्भः दीयते इति केन्द्रगृहमन्त्रिणा राजनाथसिंहेन लोकसभायामुक्तम्।
    परं असमे एतस्मिन् विषये संघर्षसाध्यतां परिगणय्य २२,००० अर्धसैनिकाः विन्यस्ताः।

पञ्चदशम्यां वयसि अभियान्त्रिक बिरुदम्।
   वाषिङ्टण्>पञ्चदश्यां वयसि बिरुदं स्वीकृत्य भारतवंशजः।तनिष्क् एब्रहामिति कुमारः  बाल्ये एव युवकानां पाठान् पठित्वा स्वप्रतिभां व्यक्तीकृतवान्। यु, सी डेविड् मेडिक्कल् सेन्टरतः बयोमेडिक्कल् अभियान्त्रिक क्षेत्रे आसीत् तस्य बिरुदम्।

  अमेरिक्कायां जन्तुविभाग भिषजस्य ताजि एब्रहामस्य तथा तन्त्राधिगम अभियान्त्रिकस्य बिजोवस्य च पुत्रः अस्ति तनिष्क्।पूर्वं एकादशम्यां वयसि कालिफोर्णिया कम्यूनिट्टी महाविद्यालयात् बिरुदं स्वीकृत्य वार्तायां आगतमासीत्।पितुः दिने एव तस्य बिरुदलब्धिः।

  षष्ठे वयसि एव तनिष्क् अन्तर्जालद्वारा माध्यमिक महाविद्यालय स्तरान् पाठान् पठितुं आरभत। तत्र बहु समीचीनानि उन्नतानि च अङ्कानि च स्वीकृतवान्। तस्य कृते पितरौ अवश्यं सहाय्यं कृतवन्तौ। 

  पाठ्येतर विषयेषु सङ्गीतम्, तरणं, गीतालापनं, चलनचित्रं इत्यादयः तस्य विनोदाः भवन्ति।आगामिनि पञ्चवर्षाभ्यन्तरे अस्मिन् विषये बिरुदान्तरबिरुदमस्ति तस्य लक्ष्यम्।

Monday, July 30, 2018

करुणानिधेः स्वास्थ्यस्थितिः आशङ्काजनकः।
     चेन्नई > डि एम् के दलस्य अध्यक्षः तथा तमिळनाट् राज्यस्य भूतपूर्वमुख्यमन्त्री एम् करुणानिधिः आसन्नमरणः सन् चेन्नै नगरस्थे कावेरी आतुरालये वर्तते! उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु सहिताः नेतारः ह्यः आतुरालयं प्राप्य करुणानिधिं सन्दृष्टवन्तः। सहस्रशः आराधकाः अभ्युदयकांक्षिणश्च आतुरालयपरिसरे सन्निहिताः! 
    रक्तसम्मर्दन्यूनतया एव ९४ वयस्कः करुणानिधिः शनिवासरे कावेरी आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्टः! विदग्धचिकित्सया रक्तसम्मर्दः सामान्यस्थितिं प्राप्तः तथापि सः तीव्रपरिचरणविभागे एव अनुवर्तते!
एष्याभूखणडस्य बृहत्तमजलबन्धः सम्पूर्यते- जाग्रतानिर्देशः प्रसारितः 
इटुक्की जलबन्धे जलवितानं २३९५ पादपरिमितं, तीरवासिनां कृते अतिजाग्रतानिर्देशः।
  कुमली > केरलस्य इटुक्की जलसम्भरणी तोयाप्लावमुगच्छति। वृष्टिप्रदेशे लब्धेन अतिवर्षेण जलवितानं २३९५ पादपरिमितं प्राप्नोति इदानीम्। जलवितानं पादद्वयमपि यदा अधिकमिति उद्गच्छति तदा नियन्त्रितरीत्या बहिर्प्रस्रावयितुं प्रयत्नः आरभ्यते
गुरुपूर्णिमापुरस्कारेण  किरणकुमारः समादृतः।
   कोच्ची > संस्कृत-वेद-प्रचारण कार्येषु बद्धश्रद्वया संवेदवेदी - केरलम् इति संस्थया दीयमानः गुरुपूर्णिमापुरस्कारः श्री किरण कुमाराय समर्पितः। संस्कृतपाठन - प्रचारण -प्रवर्तनाङ्गीकारत्वेन दीयमानो भवति अयं पुरस्कारः। व्यासपूर्णिमायाः अङ्गतया प्रवृत्ते  गुरुपूर्णिमासङ्गमे सुकृतीन्द्र - ओरियन्टल् रिसर्च - इन्स्टिटयूट् निदेशकः  श्री डा.वी.नित्यानन्दभट्टः पुरस्कारं अददात्। सम्मेलनेSस्मिन् डा. देवकी अन्तर्जनम् अध्यक्षा तथा डा. पीके शङ्कर नारायण: (विश्वसंस्कृतप्रतिष्ठानम् ) श्री पी.के जयन् (गुरु उपेन्द्र वेद विद्या प्रतिष्ठान) इत्येतौ आशंसाभाषकौ च आसन्। गत 19 वर्षेभ्यः संस्कृतभारत्याः कार्यकर्ता भवति अयं किरणमहाशयः ।

Sunday, July 29, 2018

पण्यरेलयानेन प्रेषितस्य उर्वरस्य  विशाखपट्टण-नगरात् उत्तरप्रदेशं प्राप्तुं वर्षचतुष्टयम्।

     नवदेहली > पण्यरेलयानेन प्रेषितं उर्वरकं विशाखपट्टणात् १३२६ कि.मी दूरं संचर्य उत्तरप्रदेशस्य बस्तिं प्राप्तुं वर्षचतुष्टयं स्वीचकार।  पी टी ऐ वार्तामाध्यमेन वार्ता मिमां प्रस्तुता।

      २०१४ नवंबर मासे १३१६ गोणीमितम् अमोणियम् फोस्फेट् प्रेषयतुं रेल्यानस्य कृते आरक्षणं कृतम्। किन्तु केवलं गतबुधवासरे सायं सार्धत्रिवादने एव रेलयानं बस्तीमध्ये प्राप्तम्। चतुर्दशलक्ष रूप्यकाणाम् उर्वरकं  तस्मिन् याने आसीत्। सामान्यतः ४२ होराः तथा १३ निमेषा‌ः च अस्य दूरस्य यात्रां कर्तुं पर्याप्तम्।

       कदाचित् पण्यवस्तूनि वोढुं रेल्यानानि सक्षमानि न भवन्ति। अत्रापि एतदेव अभवत् स्यादिति रेल्वे वक्ता सञ्जय् यादवः अवदत्।

Saturday, July 28, 2018

पाकिस्थाननिर्वाचनं - इम्रान् खानस्य दलं  प्रथमस्थाने। 
     इस्लामबाद् > पाकिस्थाने बुधवासरे संवृत्ते सामाजिकनिर्वाचने २५२ स्थानानां फलेषु प्रख्यापितेषु भूतपूर्वक्रिक्कट्क्रीडकनायकस्य इम्रान् खानस्य नेतृत्वे विद्यमानं 'पाकिस्थान् तेहरिके इन्साफ्' (पि टि ऐ) नामकं दलं ११७ स्थानेषु विजित्य बृहत्तमं दलमभवत्। शासनाय न्यूनातिन्यूनं१३७ स्थानम् अधीशत्वमावश्यकम्। अतः विजयीभूतानां लघुदलानां साह्येन सर्वकाररूपवत्करणाय पि टि ऐ दलेन प्रयत्नः समारब्धः।
    पि टि ऐ दलस्य मुख्यप्रतियोगिरूपेण वर्तमानं भूतपूर्व प्रधानमन्त्रिणो नवासषेरीफस्य पाकिस्थान् मुस्लीं लीग् नामकं दलं ६४ स्थानानि सम्प्राप्य द्वितीयस्थानमावहत्। बिलावल् अलि भुट्टो  इत्यस्य पि पि पि दलेन ४३ स्थानानि लब्धानि।
उत्तरकोरिया राष्ट्रस्य रोक्कट् विक्षेपणकेन्द्रस्य निष्कासनम्।

   सोल्> उत्तरकोरिया राष्ट्रस्य उत्तरपश्चिमप्रदेशस्य सोहे रोक्कट् विक्षेपणकेन्द्रं निष्कासितम्।उत्तरकोरियायाः प्रवर्तनेस्मिन् अमेरिक्कन् राष्ट्रपतिः डेणाल्ट् ट्रंपः स्वतोषं प्रकटितवान्।

     ३८ यू एस् इतिमाध्यमद्वारा वार्ता एषा बहिरागता। सोहे केन्द्रस्य उपग्रहचित्राणि अपि माध्यमेन अनेन बहिः प्रेषितानि।जूण् मासे कृते साक्षात्कारे उत्तरकोरिया राष्ट्रपतिः किं जोङ् उन् एकं आणवपरीक्षणकेन्द्रस्य निष्कासनं करिष्यतीति ट्रंपम् अवदत्।

    उत्तरकोरियायाः सुप्रधानं उपग्रहविक्षेपणकेन्द्रमस्ति सोहे केन्द्रम्।गतनवमासाभ्यन्तरे कोरियया मिसैल् विक्षेपणं न कृतमिति ट्रंपेव उक्तम्। संगपूरे जाते सन्दर्शने ट्रंपः उन्नः च कोरियन् उपद्वीपस्य आणवनिरायुधीकरण समये तै हस्ताक्षरं कृतवन्तौ।किन्तु आणवशस्राणां त्यागः कदा स्यादिति समये नासीत्।तद्मध्ये षट् आणवपरीक्षणानि कोरियया कृतानि।

Friday, July 27, 2018

राष्ट्रियबालप्रतिभासम्मान- प्रतियोगिता
रामचरितमानसस्य आलपनम्
         प्राविधिके परिवर्तनकारियुगेSस्मिन् भारतीयसभ्यतां संस्कृतिञ्च पुनर्जीवयितुं  संस्कृतरसामृतम् आमुखपटलपृष्ठे आयोजकेन डा०सुशीलनारायणतिवारिणा  राष्ट्रियस्तरे बालप्रतियोगिता इत्यायोजनस्य सङ्कल्प: कृत:।  विषय:- रामचरितमानसम् (अयोध्याकाण्डपारायणम्)। प्रेरणादायी चौपाई इत्यस्य सस्वरगानस्य  सचित्रध्वन्यभिलेखान् (Videos) प्रेषयन्तु। समय:- न्यूनतमद्विनिमेषादारभ्य  अधिकतमपञ्चनिमेषं (२-५मिनट) यावत् सचित्रध्वन्यभिलेखान् प्रेषयन्तु । अन्तिमतिथि: 20/08/2018 
परिणाम: --निर्णायकमण्डलद्वारा 20/08/2018 दिनाङ्के घोष्यते
आयोजक: - डा सुशील नारायणतिवारी (सीवान, विहार:)।
निर्णायकमण्डलम् डा ०रजनी सतीश झा , डा०मनोज कुमार सिंहः 
विशेषसूचना- वाट् सेपसङ्ख्यायाम् 8051795862 इत्यत्र  Videos प्रेषयन्तु । अधिकं ज्ञातुम्  आयोजकस्य दूरवाणीसङ्ख्या- 9162209394 इत्यत्र सम्पर्कं कुर्वन्तु।
ऐक्यराष्ट्रसभायाः परिस्थितिपुरस्कारः 'सियाल्' योजनायै । 
    कोच्ची > ऐक्यराष्ट्रसभायाः परमोन्नतः परिस्थितिपुरस्कारः 'चाम्प्यन् आफ् एर्त्' नामकः (धरणीरक्षकः) कोच्ची अन्ताराष्ट्र विमानपत्तन परियोजनायै (सियाल्) समर्प्यते। सम्पूर्णतया सौरोर्जेन प्रवर्तमानं विमानपत्तनमिति नूतनं सङ्कल्पनं प्रवृत्तिपथमानीतम् इत्यत एव इयं बहुमतिः। सेप्तम्बर् २६ दिने न्युयोर्क् मध्ये ऐक्यराष्ट्रसभायाः सार्वत्रिकसभायां  पुरस्कारो$यं समर्पिष्यते! 
     परिस्थितिसौहार्दप्रवर्तनानां कृते दीयमानः "नोबेल् पुरस्कारः" इति प्रकीर्त्यमाना इयं बहुमतिः २००५ आरभ्य दीयते। धीरं प्रचोदनात्मकं च परिस्थितिसौहार्दसङ्कल्पनं क्रियापथमानीय लोकादर्शं भूयते इति वैशिष्यात्मकं प्रवर्तनमेव सियाल् संस्थां पुरस्कारार्हाम् अकारयत्। 
     विश्वस्य प्रथमं सम्पूर्णसौरोर्जविमानपत्तनं भवति सियाल्! ३० मेगा वाट् शेषियुक्ता परियोजना भवतीयम्।

Thursday, July 26, 2018

हैदराबाद्-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना

  हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला    ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः  ‘श्री-अरविन्द-भवन’-परिसरे   सुसम्पन्ना। हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन कक्ष्या चालिता।

   कार्यशालायां तेलङ्गाणा राज्यस्य हैदराबाद्/सिकन्दराबाद्- नगरद्वय जगित्याल् च-नवदेहली-गुरुग्रामम्-महाराष्ट्र राज्यस्य नागपुर्-कर्णाटक राज्यस्य बेङ्गलूरु-आन्ध्र प्रदेश राज्यस्य विशाखपट्टणम् काकिनाडा विजयवाडा-विदेशस्य दुबाई (यू.ए.ई.) च-नगरेभ्यः pÂazt!-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।
लावोस् देशे सेतुः भग्नः, शत-शताधिकाः अदृश्याः। 
     वियन्टियाने> दक्षिणेष्यराष्ट्रमित्यङ्कितं लावोस् मध्ये निर्माणप्रवर्तनाभ्यन्तरे सेतुः भग्नः अभवत्। शतशताः जनाः अदृष्टाः अभवत्।  सङ्ख्याधिकाः निहताः इति वार्तासंस्थाभिः उच्यते। अट्टपेय् प्रविश्यायां सहस्राधिकाः भवनरहिताः अभवन्।  षेपियान् नम्नोय् इति सेतुः एव भग्नः।  

    २०१३ तमे आरब्धमासीत्  सेतोः निर्माणम्। जलप्रवाहेण षट् ग्रामाः जलान्तर्भागे अभवत्।  ६६०० जनाः गृहं विनष्टाः।  मणडले गतदिनस्य वृष्टिपातेन सेतोः जलं वर्धितमासीत् इत्येव अपघातस्य कारणम्। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Wednesday, July 25, 2018

रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन मृतिः। 
         चेनै> सबर्बन् रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन हताः। चत्वारः क्षताः। सेन्ट् तोमस् गिरेः समीपस्थे रेल् निस्थाने एव अपघातः। रेल् यानं निस्थाने प्रविष्टे सति सञ्जातेन सम्मर्देन  द्वारसोपाने स्तितानां  शिरांसि स्तम्भे घट्टिताः। तस्मिन्नेव क्षणे चत्वारः मृताः इति रैल् अधिकारिणः आवेदिताः यानान्तर्भागस्य अतिसम्मर्देन बहवः द्वारसोपानेषु यात्रां कुर्वन्तः सन्ति।

Tuesday, July 24, 2018

आमसोण् वनान्तराणां एकाकिनः मनुष्यस्य छायाचित्राणि आगतानि।

     सावोपोलो(ब्रसीलः)> गतद्वाविंशति वर्षेभ्यः आमसोण् वनान्तरेषु एकाकी भूत्वा एकः जीवति। कोടपि तस्य नाम न जानाति। गोत्रं न जानाति, किमपि न जानाति।  बहिर्लोकतः एकान्ततया स्वजीवनं सः यापयति।
    ब्रसील् राष्ट्रस्य आमसोण्  वनान्तर्भागे एषः गोत्रवर्गमनुष्यः जीवति। ब्रसीलस्य इण्डियन् फौण्ड्षन् एनमधिकृत्य विशेषज्ञानार्थं प्रयत्नं करोति। वने वृक्षच्छेजनं कुर्वतः तस्य चलनचित्रं तैरेव बहिः आविष्कृतम्। १९९६ तः एषा संस्था एनं निरीक्षति ।

Monday, July 23, 2018

जापानराष्ट्रे उष्णतरङ्गः - ३० जनाः मृताः।
-वार्ताहरः -रोयिटेर्स् 
     टोकियो> जापाने वसरद्वयं यावत् अनुवर्तमाने अत्युष्णे त्रिंशत् जनाः मृताः। सहस्राधिकाः विविधातुरालयेषु चिकित्सिताः सन्ति। राष्ट्रस्य कानिचन राज्येषु तापमानः ३८° पर्यन्तम् अन्यूनतया अनुवर्तते इत्यस्ति अावेदनम्। 
     मध्यजापाने तापमानः ४०° इति अङ्कितः। गते पञ्चसंवत्सराभ्यन्तरे अङ्कितेषु तापमानेषु वर्धितः तापमानः भवति ४०° इति। सुरक्षाप्रक्रमाय विद्यालयाधिकृतेभ्यः आदेशः दत्तः अस्ति। राष्ट्रस्य प्रधानसांस्कृतिक केन्द्रमिति सुज्ञाते मध्ये अत्युष्णेन षट् वयस्कः हतः आसीत्।
चीटिकायाः मूल्यं पञ्चगुणितं कृतम् - एयर् इन्टिया रुग्णान् दण्डयति।
     दुबै> शय्यावलम्बिनान् रुग्णान् विमानेन नेतुं शय्याशकटयुक्त चीटिकायाः मूल्यम् एयर् इन्ट्या विमानसंस्थया पञ्चगुणितं वर्धनं कृतम्। इदानीं दुबैतः केच्ची पर्यन्तं ४.५ लक्षं केटि रूप्यकाणि अभवत् चीटिका मूल्यम्।  राष्ट्रिय विमानसंस्थायाः अयं प्रक्रमः प्रवासिजनान् प्रति क्लेशाय अभवत्। 

     आर्थिक श्रेण्याः 'वै' इति विशिष्ट श्रेण्यां प्रति  स्थानान्तरं कृत्वा एव शय्यावलम्बिनान्  जनान् पीडयितुमारब्धम्। पूर्वं 'के' इति श्रेणियाम् अासीत् शय्याशकटस्य स्थानम्। नूतनं चीटिकामूल्यवर्धनं जूलै विंशति दिनाङ्कतः प्रबलमभवत्। नूतननिर्णयेन प्रवासीजनाः पीडयन्तः सन्ति।

Sunday, July 22, 2018

समर्थभारतस्य आधारशिला अस्ति संस्कृतम्- प. नन्दकुमारः
-दिपक शास्त्री
     जयपुरम्>  संस्कृतं समर्थभारत-निर्माणस्य आधारशिला अस्ति इति संस्कृत-भारत्या: अखिल भारतीय-संपर्कप्रमुखेण श्री नंदकुमारमहोदयेन उक्तम्।  प्राचीन ज्ञान-विज्ञानस्य भाषा भारतीय नैतिक मूल्यानाम् रक्षा। एवं सामाजिक उत्थानाय संस्कृतस्य अध्ययनम् अतीव आवश्यकम् अस्ति।  अतः भारतराष्ट्रस्य सर्वांगीण उन्नतिहेतुः संस्कृतं पुनः लोकव्यवहारे आनेतुम् प्रयासः कर्तव्यः इत्यपि तेन बोधितम्। जयपुर-महानगरे संस्कृतभारत्या आयोजितानां 51 संस्कृत-संभाषण शिबिराणाम्  समापनसमारोहे भाषमाणः आसीत् सः।
अस्मिनेव अवसरे सार्वजनिक प्रन्यास मंडल एवं देवस्थान-विभागस्य अध्यक्ष श्री एस. डी. शर्मा संस्कृतं सर्वमान्यभाषा इति कथितवान्। तेन उक्तम् यत् संस्कृत भाषा चित्तस्य भाषा अस्ति एवं सर्वान् प्रकारान् दोषान् अपहर्तुं संस्कृतभाषा औषधिरूपेण  कार्यं करोति। अस्मिन् कार्यक्रमे विशिष्ट अतिथि रूपेण परिष्कार् ग्लोबल एजुकेशनस्य निदेशक: श्री राघव प्रकाश शर्मा अवदत् यत् संस्कृतभाषा विश्वकलहम् अपहर्तुम् अस्त्रम् अस्ति। अस्मिन् कार्यक्रमे चलितनाम् 51शिबिराणाम् संस्थाप्रधानान् तथा संस्कृतशिक्षकान् प्रशस्तिपत्रम् प्रदानं  कृतम्। प्रांतीय अध्यक्ष श्री हरिशंकर शर्मणा अस्य  कार्यक्रमस्य अध्यक्षता कृता तथा संस्कृत निदेशालयस्य संयुक्त निदेशक श्री सत्यनारायण शर्मणा विशिष्ट अतिथि रुपेण कार्यक्रमस्य शोभा वर्धिता। कार्यक्रमे संस्कृत-सप्ताहे आयोजित संस्कृत-भाषण प्रतियोगितायाम् संस्कृतगीत प्रतियोगितायाम् च श्रेष्ठप्रदर्शनं कृतानाम् प्रतिभागीछात्रान् संस्कृत-भारत्या पक्षत: स्मृति चिह्नप्रदानम् अकरोत्।

अस्मिन् कार्यक्रमे संस्कृत-भारत्या: क्षेत्रीय संगठन मंत्री श्रीहुलास चंद:, श्रीसुदामा शर्मा, जयपुर प्रान्तस्य संपर्क-प्रमुख श्रीरघुवीर प्रसाद शर्मा, जयपुर महानगरस्य अध्यक्ष श्री प्रकाश शर्मा, जयपुर महानगरस्य मंत्री संतोष शर्मा, मास्कोदेशस्य प्रसिद्ध ज्योतिषी श्री काजोल शास्त्री, श्रीमती सीमाशर्मा, प्राचार्य श्री विनोद बिहारी शर्मा, आयोजन के विशिष्ट शिक्षक: मधुसूदन शर्मा, मीठालाल माली, शंकर शर्मा, रवि शर्मा, लोकेश शर्मा, मनोज शर्मा आदि उपस्थिता आसन्।
अंते  शिबिर-महाभियानस्य संयोजक: घनश्याम हरदेनियाँ आगंतुकानाम् धन्यवाद ज्ञापनं कृत्वा कार्यक्रमस्य समापनस्य  घोषणा कृता।