OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 31, 2018

असमराज्ये ४० लक्षं जनाः पौरत्वरहिताः।
  नवदिल्ली > असमराज्ये राट्रिय पौरत्वपञ्जीकरणस्य ‍(एन् आर् सि) प्रकाशितायाम् अन्तिमायां नामावल्यां  चत्वारिंशत् लक्षाधिकं जनाः पौरत्वविनष्टभीत्यां वर्तन्ते। ३.२९ कोटि जनाः पौरत्वाय अपेक्षिताः अपि २.८९  लक्षं जनाः एव नामावल्याम् अन्तर्भूताः। यदि पैरत्वं न प्रमाणीकृतं तादृशाः जनाः अनधिकृतोपनिविष्टाः इति मत्वा प्रतिनिवर्तनीयाः बन्धनीयाः वा स्युः इति जनानाम् आशङ्का। 
      किन्तु एषा प्राथमिकी नामावली भवति अन्तिमा नेति भारतस्य पञ्जीकरणाधिकारी सैलेषः न्यवेदयत्। पट्टिकातः बहिष्कृताः तेषां कृते पौरत्वं प्रमाणीकर्तुं एकोपि सन्दर्भः दीयते इति केन्द्रगृहमन्त्रिणा राजनाथसिंहेन लोकसभायामुक्तम्।
    परं असमे एतस्मिन् विषये संघर्षसाध्यतां परिगणय्य २२,००० अर्धसैनिकाः विन्यस्ताः।