OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 31, 2018

पञ्चदशम्यां वयसि अभियान्त्रिक बिरुदम्।
   वाषिङ्टण्>पञ्चदश्यां वयसि बिरुदं स्वीकृत्य भारतवंशजः।तनिष्क् एब्रहामिति कुमारः  बाल्ये एव युवकानां पाठान् पठित्वा स्वप्रतिभां व्यक्तीकृतवान्। यु, सी डेविड् मेडिक्कल् सेन्टरतः बयोमेडिक्कल् अभियान्त्रिक क्षेत्रे आसीत् तस्य बिरुदम्।

  अमेरिक्कायां जन्तुविभाग भिषजस्य ताजि एब्रहामस्य तथा तन्त्राधिगम अभियान्त्रिकस्य बिजोवस्य च पुत्रः अस्ति तनिष्क्।पूर्वं एकादशम्यां वयसि कालिफोर्णिया कम्यूनिट्टी महाविद्यालयात् बिरुदं स्वीकृत्य वार्तायां आगतमासीत्।पितुः दिने एव तस्य बिरुदलब्धिः।

  षष्ठे वयसि एव तनिष्क् अन्तर्जालद्वारा माध्यमिक महाविद्यालय स्तरान् पाठान् पठितुं आरभत। तत्र बहु समीचीनानि उन्नतानि च अङ्कानि च स्वीकृतवान्। तस्य कृते पितरौ अवश्यं सहाय्यं कृतवन्तौ। 

  पाठ्येतर विषयेषु सङ्गीतम्, तरणं, गीतालापनं, चलनचित्रं इत्यादयः तस्य विनोदाः भवन्ति।आगामिनि पञ्चवर्षाभ्यन्तरे अस्मिन् विषये बिरुदान्तरबिरुदमस्ति तस्य लक्ष्यम्।