OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 27, 2018

ऐक्यराष्ट्रसभायाः परिस्थितिपुरस्कारः 'सियाल्' योजनायै । 
    कोच्ची > ऐक्यराष्ट्रसभायाः परमोन्नतः परिस्थितिपुरस्कारः 'चाम्प्यन् आफ् एर्त्' नामकः (धरणीरक्षकः) कोच्ची अन्ताराष्ट्र विमानपत्तन परियोजनायै (सियाल्) समर्प्यते। सम्पूर्णतया सौरोर्जेन प्रवर्तमानं विमानपत्तनमिति नूतनं सङ्कल्पनं प्रवृत्तिपथमानीतम् इत्यत एव इयं बहुमतिः। सेप्तम्बर् २६ दिने न्युयोर्क् मध्ये ऐक्यराष्ट्रसभायाः सार्वत्रिकसभायां  पुरस्कारो$यं समर्पिष्यते! 
     परिस्थितिसौहार्दप्रवर्तनानां कृते दीयमानः "नोबेल् पुरस्कारः" इति प्रकीर्त्यमाना इयं बहुमतिः २००५ आरभ्य दीयते। धीरं प्रचोदनात्मकं च परिस्थितिसौहार्दसङ्कल्पनं क्रियापथमानीय लोकादर्शं भूयते इति वैशिष्यात्मकं प्रवर्तनमेव सियाल् संस्थां पुरस्कारार्हाम् अकारयत्। 
     विश्वस्य प्रथमं सम्पूर्णसौरोर्जविमानपत्तनं भवति सियाल्! ३० मेगा वाट् शेषियुक्ता परियोजना भवतीयम्।