OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 1, 2018

केरले कालवर्षो वृद्धिं प्राप।
     कोच्ची > सप्ताहद्वयम् अनवरतं वर्षितस्य अतिवृष्टेः क्लेशमोचनात्पूर्वं कतिपयदिनानां विरामानन्तरं पुनरपि केरले मण्सूण् वर्षा वृद्धिं प्राप्तवती। ओडीषातीरे सम्भूतः अन्तरिक्षावर्तः  भवति वृष्ट्याः कारणमिति पर्यावरणनिरीक्षणविभागः न्यवेदयत्।  वृष्ट्या सह अतिशक्तः चक्रवातः अपि भविष्यतीत्यतः धीवराः मत्स्यबन्धनाय समुद्रगमनात् निरुद्धाः सन्ति।