OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 30, 2018

करुणानिधेः स्वास्थ्यस्थितिः आशङ्काजनकः।
     चेन्नई > डि एम् के दलस्य अध्यक्षः तथा तमिळनाट् राज्यस्य भूतपूर्वमुख्यमन्त्री एम् करुणानिधिः आसन्नमरणः सन् चेन्नै नगरस्थे कावेरी आतुरालये वर्तते! उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु सहिताः नेतारः ह्यः आतुरालयं प्राप्य करुणानिधिं सन्दृष्टवन्तः। सहस्रशः आराधकाः अभ्युदयकांक्षिणश्च आतुरालयपरिसरे सन्निहिताः! 
    रक्तसम्मर्दन्यूनतया एव ९४ वयस्कः करुणानिधिः शनिवासरे कावेरी आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्टः! विदग्धचिकित्सया रक्तसम्मर्दः सामान्यस्थितिं प्राप्तः तथापि सः तीव्रपरिचरणविभागे एव अनुवर्तते!