OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 26, 2018

लावोस् देशे सेतुः भग्नः, शत-शताधिकाः अदृश्याः। 
     वियन्टियाने> दक्षिणेष्यराष्ट्रमित्यङ्कितं लावोस् मध्ये निर्माणप्रवर्तनाभ्यन्तरे सेतुः भग्नः अभवत्। शतशताः जनाः अदृष्टाः अभवत्।  सङ्ख्याधिकाः निहताः इति वार्तासंस्थाभिः उच्यते। अट्टपेय् प्रविश्यायां सहस्राधिकाः भवनरहिताः अभवन्।  षेपियान् नम्नोय् इति सेतुः एव भग्नः।  

    २०१३ तमे आरब्धमासीत्  सेतोः निर्माणम्। जलप्रवाहेण षट् ग्रामाः जलान्तर्भागे अभवत्।  ६६०० जनाः गृहं विनष्टाः।  मणडले गतदिनस्य वृष्टिपातेन सेतोः जलं वर्धितमासीत् इत्येव अपघातस्य कारणम्। रक्षाप्रवर्तनानि अनुवर्तन्ते।