OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 2, 2018

यात्राविमाने अग्निबाधा १०३ यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः।
    मेक्सिक्को सिट्टी> मेक्सिक्को राष्ट्रस्य दुरङ्को क्षेत्रे १०३ यात्रिभिः सह गतं एय्रोमेक्सिक्को विमानं डयनावसरे विच्छिन्नम्। सर्वे यात्रिकाः अतिशयतया रक्षां प्राप्तवन्तः। प्रायः  ज्वलतः विमानात्  सर्वे स्वयं अवरोहणं कृतवन्तः आसन्। विमानं पूर्णतया अग्निना खादिम् अभवत्। वैमानिकः क्षतबाधितः भवति। ९७ यात्रिकाः लघु क्षतबाधिताः।
   गुवाडलुपे विक्टोरिया अन्ताराट्रिय व्योमयानक्षेत्रात् मेक्सिक्को सिट्टीं प्रति गतं विमानं अग्निबाधितम्।विमाने पूर्णरूपेण यात्रिकाः आसन्। प्रचण्डवायुः हिमखण्डपतनं वा  स्यात् दुर्घटनायाः हेतुः इति प्राथमिकं निगमनम्। व्योमयानक्षेत्रात् दश कि.मी दूरे दुर्घटना जाता।