OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 23, 2018

चीटिकायाः मूल्यं पञ्चगुणितं कृतम् - एयर् इन्टिया रुग्णान् दण्डयति।
     दुबै> शय्यावलम्बिनान् रुग्णान् विमानेन नेतुं शय्याशकटयुक्त चीटिकायाः मूल्यम् एयर् इन्ट्या विमानसंस्थया पञ्चगुणितं वर्धनं कृतम्। इदानीं दुबैतः केच्ची पर्यन्तं ४.५ लक्षं केटि रूप्यकाणि अभवत् चीटिका मूल्यम्।  राष्ट्रिय विमानसंस्थायाः अयं प्रक्रमः प्रवासिजनान् प्रति क्लेशाय अभवत्। 

     आर्थिक श्रेण्याः 'वै' इति विशिष्ट श्रेण्यां प्रति  स्थानान्तरं कृत्वा एव शय्यावलम्बिनान्  जनान् पीडयितुमारब्धम्। पूर्वं 'के' इति श्रेणियाम् अासीत् शय्याशकटस्य स्थानम्। नूतनं चीटिकामूल्यवर्धनं जूलै विंशति दिनाङ्कतः प्रबलमभवत्। नूतननिर्णयेन प्रवासीजनाः पीडयन्तः सन्ति।